<!-- Pramāṇa, a library of Indian primary sources · https://indike.org/pramana/in.darsana.visistadvaita.tenkalai.tattvatraya.p71 -->

[Pramāṇa](https://indike.org/pramana/) › [Indian literature](https://indike.org/pramana/in) › [Philosophy](https://indike.org/pramana/in.darsana) › [Qualified non-dualist Vedānta](https://indike.org/pramana/in.darsana.visistadvaita) › [Piḷḷai Lokācārya and the southern school](https://indike.org/pramana/in.darsana.visistadvaita.tenkalai) › [Tattvatraya](https://indike.org/pramana/in.darsana.visistadvaita.tenkalai.tattvatraya) › p71

# Tattvatraya p71

Tattvatraya p71

- **Language:** Tamil

### [p71](https://indike.org/pramana/in.darsana.visistadvaita.tenkalai.tattvatraya.p71)

कर्तव्या। भूतात्तन्मात्रोत्पत्तिपक्षे चाष्टौ प्रकृतयः षोडश विकारा इत्युक्ताः षोडशविकाराश्च भूतव्यतिरिक्ता एकादशेन्द्रियाणि शब्दादयः पञ्चेति तन्मात्राणां भूतेभ्यः स्वरूपभेदाभावादवस्थाभेदमात्रत्वात् अष्टौ प्रकृतयः प्रकृतिमहदहङ्कारा आकाशादयः पञ्चेति उच्यन्त इति श्रुत्यविरोधेन निर्वहन्ति । अयमर्थो भगवता श्रीवेदव्यासेन— “अष्टौ प्रकृतयः प्रोक्ताः विकाराश्चैव षोडश । अथ व्यक्तानि सप्तैव प्राहुरध्यात्मचिन्तकाः ॥ अव्यक्तं च महांश्चैव तथाऽहङ्कार एव च । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु । श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणश्च पञ्चमम् ॥ वाक् च हस्तौ च पादौ च पायुर्मेढ्रन्तथैव च । शब्दस्पर्शौ च रूपञ्च रसो गन्धस्तथैव च ॥ एते विशेषा राजेन्द्र ! महाभूतेषु पञ्चसु । दशेन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ मनः षोडशमित्याहुरध्यात्मगतिचिन्तकाः” ॥ इति मोक्षधर्मे याज्ञवल्क्यजनकसंवादे उक्तः, तथा मनुस्मृतौ— “मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे । श्रोत्राक्षिरसनाघ्राणत्वचः सङ्कल्प एव च ॥ शब्दरूपरसस्पर्शगन्धवाक्पाणिपायवः । उपस्थपादामिति च विकाराः षोडश स्मृताः” ॥ इत्युक्तम् । अस्यां स्मृतौ प्रकृतिषु परिगणितत्वात्प्रथमं निर्देशात् मन्तव्यतया मनःशब्देन प्रधानतत्त्वमुच्यते । सङ्कल्पशब्देन तत्कारणं मनो लक्ष्यत इति सुबालोपनिषद्व्याख्याने श्रुतप्रकाशिकाकारैर्व्याख्यानं कृतम् । एवमितिहासादिष्वभिहितत्वादष्टौ प्रकृतय इति श्रुतेर्भूतात्तन्मात्रोत्पत्तिपक्षे तत्त्वविरोधाभावः सुस्पष्टः “त्वचाबीज(१)मिवावृतम्” इति दृष्टान्तबलेन यथा त्वक्शून्यबीजस्याङ्कुरशक्तिर्नास्ति, तथाऽऽवरणशून्यस्योत्तरकार्यशक्तिर्नास्तीति भानात् कारणगुणं विनोत्तरोत्तरगुणविशेषेषु । आद्याद्यस्य गुणानेतानाप्नोति च परः परः” इति स्वविशेषस्योक्तगुणातिशयानुपपत्तेः,

- [Previous: p70](https://indike.org/pramana/in.darsana.visistadvaita.tenkalai.tattvatraya.p70)
- [Next: p72](https://indike.org/pramana/in.darsana.visistadvaita.tenkalai.tattvatraya.p72)

---
Source: [https://indike.org/pramana/in.darsana.visistadvaita.tenkalai.tattvatraya.p71](https://indike.org/pramana/in.darsana.visistadvaita.tenkalai.tattvatraya.p71) · Pramāṇa
