Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s1: संग्रहः
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s1
- Language
- English
संग्रहः
v3.c24.s1.1
उत्पत्तिरक्षयलयान् जगतां प्रकुर्वन् भूवारिवह्निमरुतो गगनं च सूते ।
नानासुरेश्वरकिरीटविलोलमालाबृङ्गावलीढचरखाम्बुरुहं नमामि ॥ १ ॥
गङ्गाशिरःकमलभूकमलेक्षणेन्द्रगीर्वाणनारदमुखैरखिलैर्मुनीन्द्रैः ।
प्रोक्तं समस्ततरवस्त्वपि वास्तुशास्त्रं तन्मानसार-ऋषिणापि हि लक्ष्यते स्म ॥ २ ॥
मानोपकशं चादौ शिल्प[ल्पि]लक्षणपूर्वकम् ।
अथ वास्तुप्रकरणं भूपरीक्षाविधिं तथा ॥ ३ ॥
भूसंग्रहस्ततः प्रोक्तं शङ्कुस्थापनलक्षणम् ।
देवादीनां स्थापनाथ पदविन्यास लक्षणम् ॥ ४ ॥
बलिकर्मविधिं चैव ग्रामादीनां च लक्षणम् ।
नगरीलक्षणं चैव भूमिलम्बविधानकम् ॥ ५ ॥
गर्भन्यासविधिं चैव चोपपीठस्य लक्षणम् ।
अधिष्ठानविधिं चैव पादमानस्य लक्षणम् ॥ ६ ॥
प्रस्तरस्य विधिं चैव सन्धिकर्मस्य(णो) लक्षणम् ।
विमानलक्षणं चैवमेकभूम्याश्च लक्षणम् ॥ ७ ॥
द्वितलस्य विधिं चैव त्रितलस्य विधानकम्
चतुस्तलविधिं चैव पञ्चभूम्याश्च लक्षणम् ॥ ८ ॥
षट्सप्ततलं चैवमष्टभूनवभूमिकम् ।
दशभूमिविधानं च रुद्रभूमिविधानकम् ॥ ९ ॥
तलं द्वादशकं चैव प्राकाराणां च लक्षणम् ।
परिवारलक्षणं चैव(च) गोपुराणां च लक्षणम् ॥ १० ॥
v3.c24.s1.2
मण्डपस्य विधानं च शालानां चैव लक्षणम् ।
विन्यासञ्च गृहस्याथ गृहप्रवेशलक्षणम् ॥ ११ ॥
द्वारस्थानविधिं चैव द्वारमानस्य लक्षणम् ।
राजहर्म्यविधिं चैव राज्याङ्गस्य तु लक्षणम् ॥ १२ ॥
भूपतिलक्षणं चैव यानादिरथलक्षणम् ।
शयनस्य लक्षणं चैव सिंहासनस्य लक्षणम् ॥ १३ ॥
तोरणं(णस्य) मध्यरङ्गस्य कल्पवृक्षस्य लक्षणम् ।
अभिषेकलक्षणं चैव सर्वभूषणलक्षणम् ॥ १४ ॥
ब्रह्मादीनां त्रिमूर्तेश्च लक्षणं लिङ्गलक्षणम् ।
पीठस्य लक्षणं चैव शक्तीनां लक्षणं तथा ॥ १५ ॥
बौद्धस्य जैनिकानां च लक्षणं मुनिलक्षणम् ।
यक्षविद्याधरादीनां लक्षणं भक्तलक्षणम् ॥ १६ ॥
ब्रह्मादीनां च देवानां तत्तद्वाहनलक्षणम् ।
[लक्षणं प्रतिमानां चोत्तमदशतालस्य च ॥ १७ ॥
स्त्रीमानाय मध्यमस्य दशतालस्य लक्षणम् ।
प्रलम्बलक्षणं चैव मधूच्छिष्टविधानकम् ॥ १८ ॥
तथा च लक्ष्यते सर्वमङ्गदोषविधानकम् ।]
नयनोन्मीलनं चैव लक्षणं वक्ष्यते क्रमात् ॥ १६ ॥
मानसार-ऋषि(णोक्तं) कृत(तं)शास्त्रं मानसारमुनिनामक्रमासीत् ।
तत्त शिल्पिवरदेशिकमुख्यैः स्वीकृतं सकललक्षणपूर्व[क]म् ॥ २० ॥
v3.c24.s1.3
इति मानसार वास्तुशास्त्रे संग्रहो नाम प्रथमोऽध्यायः ।