Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s28: दशतालविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s28
- Language
- English
दशतालविधानम्
v3.c24.s28.1
दशभूमिविधानं च लक्षणं वक्ष्यतेऽधुना ।
विशालोतसेधभक्तिश्च दशभूम्यास्तु पूर्ववत् ॥ १ ॥
भूकान्तं चन्द्रकान्तं च भवनं चान्तरिक्षतः(कम्) ।
मेघकान्ता(न्तम्)ब्जकान्तं च ए(चै)वं षड्विधमीरितम् ॥ २ ॥
एवं नामवशादूर्ध्वंविस्तारं परिकल्पयेत् ।
भूकान्तं चन्द्रकान्तं दशतलहर्म्ये भागमानेन ॥ ३ ॥
नवतलहर्म्यवशात्पुरोक्तवलकूटशालादीन् ।
क्षुद्रमध्यममेवं युक्त्या दशंतले सङ्कल्प्य ॥ ४ ॥
उक्तहर्म्यविशाले ह्य(त्व)ष्टाविंशत्यंशकं कृत्वा ।
एकैकं कूटविस्तारं मध्ये द्वादशकं तु शाल(ला)भम् ॥ ५ ॥
अनुशाला गुणांशेन तत्पार्श्वे द्विद्विभागेन ह(हा)राः ।
महाशाला मध्यदेशे [तु] षड्भागेन भद्रसंयुतम् ॥ ६ ॥
एवं तु भवने(न)कान्तं श्रेष्ठं हर्म्य(न्यं) दशंतले कुर्यात् ।
तदेव सौष्टिकविस्तारं हारानुशाला(लां) द्विद्विभागेन कुर्यात् ॥ ७ ॥
पूर्ववच्छेषं चान्तरिक्षकान्तमिहमुदितम् ।
तदेव शालापार्श्वे चैकं चैकेन(ह्येकं) सौष्टिकहाराः ॥ ८ ॥
षड्भागेन महाशाला चैतन्नाम्ना मेघकान्तं स्यात् ।
तन्मध्ये चतुरंशेन शालाभद्रयुक्तमब्जकान्तकम् ॥ ९ ॥
शेषं पूर्ववदुद्दिष्टं कुर्याद्दशतलहर्म्यविस्तारे ।
जन्मादिस्तूपिपर्यन्तं तुङ्गं गण्यं चाधुना वक्ष्यामः ॥ १० ॥
तुङ्गे त्र्यंशषष्ठ्यंशं गुणांश(शं) मसूरकोत्तुङ्गम् ।
तद्द्वयं पादतुङ्गं तदर्थं(र्धं) प्रस्तरा(रमूर्ध्व)देशे तु ॥ ११ ॥
v3.c24.s28.2
तदूर्ध्वं पादतुङ्गं भूतं तदर्धं प्रस्तरोत्सेधं ।
सार्धवेदांशकं पादमूर्ध्वमश्वं द्वं(द्व्यं)शकं कुर्यात् ॥ १२ ॥
वेदांशं चाङ्घ्रितुङ्गं चार्धं प्रस्तरोत्सेधम् ।
तद्द्वयमायिक(मधिकं) पादं सार्धांशं प्रस्तमु(रो)त्तुङ्गम ॥ १३ ॥
तदूर्ध्वाङ्घ्रि गुहांशं तदर्धमूर्ध्वमञ्चोचम् ।
द्वयर्थांश(शं) पादतुङ्गं सपादांशं प्रस्तरोत्तुङ्गम् ॥ १४ ॥
पादं द्वयमप्युच्च(चे) शिवांशं प्रस्तरमु(रो)त्सेधम् ।
तद्द्वयं चोर्ध्वपादं तदर्धमूर्ध्वमञ्चतुङ्गं स्यात् ॥ १५ ॥
द्विभागं चोर्ध्वपादं चैकांशं चोपरि मञ्चं स्यात् ।
तत्समं वेदिकोत्सेधं ग्रीवतुङ्गं कलांशकं स्यात् ॥ १६ ॥
वेदांशं शिखरॊत्तुङ्गं शेषांशं शिखरो(खो)दयं कथितम् ।
ऊर्ध्वं चोर्ध्वतले सर्वं कर्णाहर्म्यादिमण्डितम् ॥ १७ ॥
एकभाग(गं) द्विभागं वा चान्तश्चावृतालिन्दकम् ।
अधिष्ठानापपीठे वा महावेद्यादिमेव वा ॥ १८ ॥
ऊर्ध्वं चोर्ध्वतले कुर्यात्सर्वालङ्कारसंयुतम् ।
नानालङ्कारसर्वाङ्गं युक्त्या प्रागुक्तवन्नयेत् ॥ १६ ॥
पञ्जरं शिखरं पादं मसूरं प्रस्तरं वलभीतारणानीडं कल्पयेत् ।
दशतलाख्यविमाने चित्रक(म)ल्पमत्र महदल्पनासिकम् ॥ २० ॥
v3.c24.s28.3
इति मानसारॆ वास्तुशास्त्रे दशतलविधानं नाम अष्टाविंशोध्यायः॥
Linked texts (1)
- Mānasāra — Sanskrit