Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s31: जातिहर्म्यादि [लक्षणम्]

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s31

Language
English

जातिहर्म्यादि [लक्षणम्]

v3.c24.s31.1

वक्ष्येऽहं जातिहर्म्याणामायादिलक्षणं क्रमात् ।
पूर्वोक्तानां विमानानां विस्तरादिवशात् द्वि(द्वि स्यात्) ॥ ८४ ॥

v3.c24.s31.2

आय(यं) व्ययं च योनि(निश्च) च नक्षत्रं वारमंशकम् ।
तिथिवशं षडेतानि तथायादिविदो विदुः ॥ ८५ ॥

v3.c24.s31.3

सञ्चितासञ्चितानां च अं(त्वं)शरायादिभिर्युतम् ।
अपसञ्चितहर्म्याणां त्रिव्यन्तं षड्ग्रहीष्यते ॥ ८६ ॥

v3.c24.s31.4

एक(कं) त्रिपादमर्धं च पादहस्तं यथाक्रमम् ।
जातिश्छन्द(न्दं) विकल्पं च भा(त्वा)भासं च चतुर्विधम् ॥ ८७ ॥

v3.c24.s31.5

एतत्तदेव संयुक्तं हर्म्याणां मानकल्पनम् ।
षट्सप्ताष्टकवृद्धिः स्याद्वादशान्तं(शेन) चयं नयेत् ॥ ८८ ॥

v3.c24.s31.6

शेषं तदायमित्युक्तं सञ्चितादि यथाक्रमम् ।
सप्ताष्टनववृद्ध्या(द्ध्या) तु हरेत्पक्ष्वष्टवा व्ययं भवेत् ॥ ८८ ॥
एकद्वित्रयवृद्ध्या(द्ध्या) तु क्षपयेत्वष्टा(ष्टामिश्रं) च योनिकम् ।
षट्सप्ताष्टवृद्ध्या तु सप्तविंशक्षयो भवेत् ॥ ८९ ॥
तच्छेषं चापि नक्षत्रं गणयेदश्विनीक्रमात् ।
षडष्टनन्दवृद्ध्या तु सप्तभिः क्षपयेत्ततः ॥ ९१ ॥
शेषं तद्व्यारमित्युक्तं अ(कम)र्कवारादिवारयुक् ।
त्रिभिर्वेदा(दै)स्तु वृद्धिः स्यान्नन्दहानि(निः) नवांशकम् ॥ ९२ ॥
तिथि(थिः) रन्ध्रो(न्ध्रे)ण वृद्धिः स्यात्रिंशता क्षयो भवेत् ।
सिध्या(द्ध्या)दि द्वादशायः स्याच्छखरादिन्ययं दश ॥ ९३ ॥
ध्वजादिम(द्य)ष्टयोनिः स्यात्तस्करादिनवांशकम् ।
प्रथमादिविधिरित्येवं चोक्तवद्गणयेत्सुधीः ॥ ९४ ॥
एवमाद्यादिषड्वर्ग(र्गे) शुद्धिमं ग्राह्या(विना) शुभं त्यजेत् ॥ ९५ ॥
आयादि षड्वर्ग(र्गं) सुरैर्वि(रवि)माने
चायादि(धि)कं सौख्यव्ययं शुभं स्यात् ।
प्रामादिकर्तृनृपतिककृ(क्रि)यानाम्
सर्वं शुभं तत्कुरुते तु विद्वान् ॥ ९६ ॥

v3.c24.s31.7

इति मानमारे वास्तुशास्त्रे द्वादशतलविधाने नाम त्रिंशोऽध्यायः ॥