Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s39: द्वारस्थानविधानम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s39

Language
English

द्वारस्थानविधानम्

v3.c24.s39.1

द्वारस्थानस्य विन्यासं लक्षणं वक्ष्यतेऽधुना ।
देवानां भूसुरादीनां वर्णानां च गृहे गृहे ॥ १ ॥

v3.c24.s39.2

देवा(भूपा)नां हर्म्यंके सर्वे(वैस्मिन्) प्राकारे मण्डपे तथा ।
चतुर्दिक्षु चतुर्द्वारं चोपदद्वारं यथेष्टकम् ॥ २ ॥

v3.c24.s39.3

यद्यान्तरालदेशे तु मध्ये द्वारं प्रकल्पयेत् ।
भित्तिमध्ये यथाकुर्यात्तत्र दोषो न विद्यते ॥ ३ ॥

v3.c24.s39.4

प्रच्छादनं यथाहर्म्ये द्वारं कुर्यात्तथैशके ।
जलद्वारं यथासारं(लं) निम्नदेशे प्रकल्पयेत् ॥ ४ ॥

v3.c24.s39.5

दक्षिणे च कवाटे तु द्वारं कुर्यात्तु मुख्यके ।
तिर्यङ्गून्ये तु सूत्रः(त्रं) स्यादधोदेशे प्रकल्पयेत् ॥ ५ ॥

v3.c24.s39.6

देवानां च मनुष्याणां महाद्वारं कवाटके ।
द्वाराणां तु यथामुख्ये युक्त्या सोपानसंयुतम् ॥ ६ ॥

v3.c24.s39.7

एवं तु देवहर्म्यादिद्वारं कुर्याद्वि विचक्षणः ।
नराणां च गृहे सर्वे द्वारस्थानं तु वक्ष्यते ॥ ७ ॥

v3.c24.s39.8

गृहायामे विशाले तु नन्दनन्दपदं भवेत् ।
पूर्वद्वारं च हर्म्याणां महाद्वारं महेन्द्रके ॥ ८ ॥

v3.c24.s39.9

अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत् ।
ईशे वाथ पर्जन्ये चादिते(तौ) चोदिते तथा ॥ ६ ॥

v3.c24.s39.10

जयन्ते वा सृगे वापि चोपद्वारं तु जालकम् ।
दक्षिणे द्वारशा(सा)ले तु महाद्वारं गृहक्षते ॥ १० ॥
अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत् ।
वितते(थे) च पदे पूषे(ष्या) पावके चान्तरिक्षके ॥ ११ ॥
मृगे वा सत्यके चैव चोपद्वारादि पूर्ववत् ।
पश्चिमे द्वारहर्म्ये तु पुष्पदन्तपदे तथा ॥ १२ ॥
मध्यसुत्रस्य वामे तु महाद्वारं प्रकल्पयेत् ।
सुग्रीवस्य पदे वापि दौवारिकपदेऽपि वा ॥ १३ ॥
नैर्ऋत्ये वा मृगे वापि भृङ्गराजपदेऽपि वा ।
गन्धर्वे[वे]शेत्थु(तू)पद्वारं तद् वदायतन(वातायन)मेव च ॥ १४ ॥
उत्तरे द्वारशाले तु भल्लाटस्य पदे तथा ।
आयामे मध्यसूत्रात्तु वामे द्वारं प्रधानकम् ॥ १५ ॥
मुख्ये(ख्ये) नागपदे वापि चानिंले वाथ रोगके ।
शेषे वापि(व्य)सुरे वापि चोपद्वारं तु योजयेत् ॥ १६ ॥
ईशानादिचतुर्द्वारं कुर्याद् दिक्षु यथेष्टकम् ।
पचनालयसर्वेषां मुखे द्वारं तु मध्यमे ॥ १७ ॥
केचिन्तमन्मध्यसूत्रात्तु वामे द्वारं प्रकल्पयेत् ।
तदूर्ध्वगमनाथार्थं क्षुद्रजालकसंयुतम् ॥ १८ ॥
द्विचतुर्वा षडष्टापि दशद्वादशमेव वा ।
एवं तु जालकं कुर्यादुत्तराधे(धः) प्रदेशके ॥ १९ ॥
मध्ये द्वारं(जालकं) तु कुर्यान्मध्यसूत्रात्तु वामके ।
कुर्याज्ज(जा)लद्वारं तु शोषितद्वारं कल्पयेत् ॥ २० ॥
देवानां पचनार्थं तु कुर्याद् वै युग्मजालकम् ।
कुर्याद्दारुह्य(रोह्यार्थं) यद् द्वारं नैर्ऋत्ये वापि चेशके ॥ २१ ॥
गृहे सर्वे(वस्मिन्) यथारङ्गे पृष्ठे तु जालकं [तु] वा ।
मध्ये न जालकं कुर्यान्मध्यसूत्रात्तु वामके ॥ २२ ॥

v3.c24.s39.11

कुर्यात्तु ज(जा)ह्नद्वारमुपद्वारोक्तवत्सुधीः ॥ २३ ॥

v3.c24.s39.12

पश्चांशं दक्षिणे तस्य वामे
बन्धां(न्ध्यं)शं स्यात्तत्तयोर्मध्यदेशके ।
हर्म्यायामे नन्दभागैकभागे
द्वारं कुर्यान्मानुषाणां निवासे ॥ २४ ॥

v3.c24.s39.13

हर्म्यायामे मध्यसूत्रस्य वामे
कुर्याद् द्वारं भूसुराणां नृपाणाम् ।
एवं द्वारं शेषकाणां तु कुर्यात्
कुर्याद् द्वारं हर्म्यमध्ये सुराणाम् ॥ २५ ॥

v3.c24.s39.14

इति मानमारे वास्तुशास्त्रे द्वारस्थानविधानं नाम षट्त्रिंशोऽध्यायः ॥

Linked texts (1)