Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s54: पीठलक्षणम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s54

Language
English

पीठलक्षणम्

v3.c24.s54.1

सर्वेषामपि लिङ्गानां वक्ष्यते पीठलक्षणम् ।
लिङ्गतारं त्रिधापीठं(ठ)तारं स्वयम्भुलिङ्गके ॥ १ ॥
अथवा लिङ्गनाहे तु स्थूलदेशे समं भवेत् ।
लिङ्गतुङ्गममं वापि तत्पादाधिकमेव वा ॥ २ ॥
अध्यर्धं वा त्रिपादोने द्विगुणं त्रिगुणं तु वा ।
स्वयम्भुलिङ्गपीठस्य चोत्सेधमिति कथ्यते ॥ ३ ॥
एवं पूजां (लिङ्गां) शमानेन पीठं तन्मानयेद् बुधः ।
पूर्वोक्तमानलिङ्गानामधुना पीठलक्षकम् ॥ ४ ॥
लिङ्गस्य बाह्यदेशे तु लिङ्गतारं समन्ततः ।
यल्लिङ्गपरिणाहस्य समं वा पीठविस्तृतम् ॥ ५ ॥
वैध्यावांशं समोत्सेधं पीठं स्वस्तिकलिङ्गके ।
अथवा पादांशमाधिक्यं ब्रह्मांशे संभवं(महं) भवेत् ॥ ६ ॥
अन्यैस्तु सर्वलिङ्गानां ब्रह्मांशोदयं बुधैः ।
कुर्यात्तन्मान(ने) संग्राह्य द्वित्रिनेदशरांशकम् ॥ ७ ॥
तदेकांशधिके विष्युमाने पीठोदयं तथा ।
पीठांशसार्धयोर्दे (र्धावोदे) शे वैध्वावांशं नवधाष्ट(त्रि)कम् ॥ ८ ॥
पीठं तु योजयेत्तत्तद्विस्तारे तु त्रिभागिकम् ।
एकांशं नालदीर्घ(दैर्घ्यं) स्यान्मूलविस्तारं तत्समम् ॥ ९ ॥
चतुर्भागैकांशहीनं स्यात् शे(च्छे)षामविस्तृतम् ।
अथवा पञ्चत्र्यंशेन चामनालं(कं) विशालकम् ॥ १० ॥

v3.c24.s54.2

तदेकांशराधिकं वापि पूर्वोक्तं नालदीर्घके ।
प्रोवोर्ध्वं चोक्तमानं यन्नालस्य बहु(हृ)लं भवेत् ॥ ११ ॥
नालतारं(र)त्रिभागीकं जलधारविशालकम् ।
पीठस्योर्ध्वे विशाले तु चतुष्पञ्चपदंशके ॥ १२ ॥
एकांशेन शेषं तु(स्यात्) घृतवारिविशालकम् ।
घृ(वृ)तवारिविशाले तु तत्तदंश(शं) विभाजिते ॥ १३ ॥
एकांशं निम्नविस्तारं पट्टिकान्तसमन्वितम् ।
नन्द्यावर्तशिला चोर्ध्वं तस्मान्नाराययान्तकम् ॥ १४ ॥
पीठतुङ्गमिनि प्रोक्तं गण्यमानमिहोच्यते ।
उत्सेधे षोडशांशे तु प्रथमोर्ध्वं द्विभागिकम् ॥ १५ ॥
पद्मोर्ध्वं तु त्रिभागं स्यात्तदूर्ध्वं क्षेपणांशकम् ।
कन्धरं च त्रिभागं स्यात्तदूर्ध्वं कम्पमंशकम् ॥ १६ ॥
ऊर्ध्वपद्मं त्रि *(त्रयां)शं स्याद् वाजनं च त्रिभागिकम् ।
एकांशं घृ(वृ)तवारि स्याद् भद्रपीठमिति स्मृतम् ॥ १७ ॥
तदेव गळदेशे तु कुमुदं(द)निर्गमं भवेत् ।
त्रियमं(त्रयांशं) वृत्तकुम्भं वा श्रीभद्रमिति कीर्तितम् ॥ १८ ॥
कुम्भस्योपरि तस्याधश्चार्धार्धेन पद्मयुक्त ।
तस्याधोऽर्धेन(नै) कार्धेन कुर्यात्तत्तद्विचक्षणाः ॥ १९ ॥
शेषं तु पूर्ववत्पीठं श्रीविशालमिति स्मृतम् ।
अथवा कुम्भे द्विभागं पद्यतुङ्गं युगांशकम् ॥ २० ॥
शेषं प्रागुक्तवत्कुर्यादुपपीठं प्रकल्पयेत् ।
अथ‌वाधिष्ठानवद् गुह्यं कुर्यात्तत्सर्वलिङ्गके ॥ २१ ॥
यत्तुङ्गस्य वशावेशं पीठकर्णावसानकम् ।
उक्तताराद्विहीनं स्यात्सर्वदोषसमुद्भवम् ॥ २२ ॥
तस्मात्तु निर्गमं कुर्याद् विस्तारं तत्प्रकल्पयेत् ।
कुर्यात्तु नागरे लिङ्गे पीठं नागरमेव च ॥ २३ ॥

v3.c24.s54.3

द्राविडे द्राविडं प्रोक्तं बेसरे बेसरं तथा।
धारा(अन्ध्र)लिङ्गं तु (ज्ञानां) सर्वेषां धारा(थामन्ध्र)पीठं प्रकल्पयेत् ॥ २४ ॥
यत्तदाकारलिङ्गानां तत्तदाकारलिङ्गके।
तत्तच्छिखराकारं [तु] कुर्याद्देवं विचक्षणः ॥ २५ ॥
विपरीते भूसुरादीनां विपत्त्य(त्ति) हि समावहेत् ।
तस्मात्तु पीठलिङ्गादि हर्म्यादि परिहृत्यते ॥ २६ ॥
नागरं चतुरश्रं स्यादष्टाश्रं द्राविडं तथा ।
वृत्तं च बेसरं प्रोक्तमेतत्पीठाकृतिस्त्रिधा ॥ २७ ॥
धारा(अन्ध्र)लिङ्गं तु पीठानां सर्वं धारा(वैमन्धा)कृतिस्तथा ।
कुर्यात्तु(क्रियेत) शिल्पिभिः सर्वैः सर्वसंपत्करं सदा ॥ २८ ॥
स्वयम्भुलिङ्गविस्तृतित्रिगुणं च पीठे ।
पीठस्य तारत्रिविधं परिशुद्धगेहम् ॥ २६ ॥
गेहत्रिधैकं परितो बहिष्कुर्यात् तारम् ।
केचित्तदायामसमं पीठविशालमेतत् ॥ ३० ॥

v3.c24.s54.4

इति मानमारे वास्तुशास्त्रे पीठलक्षणविधानं नाम त्रिपञ्चाशदध्यायः ॥

Linked texts (1)