Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s59: यक्षविद्याधरादिलक्षणम्

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s59

Language
English

यक्षविद्याधरादिलक्षणम्

v3.c24.s59.1

यक्षविद्याधरादीनां लक्षणं वक्ष्यतेऽधुना ।
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ॥ १ ॥
घरखाम्बरसंयुक्तं राक्षसाकारवद् भवेत् ।
श्यामवर्णं च पीतं च यक्षाणां वर्णमेव च ॥ २ ॥
श्यामरक्तं च पीतं च वर्णं विद्याधरं(रस्य) तथा ।
यक्षविद्याधरादीनां नवतालेन कारयेत् ॥ ३ ॥
देवस्यानुचरैः(रा) यक्षा विद्याधराश्च पा(भा)रगाः ।
गान(नादि)योग्या[दि] गन्धर्वा देवाहुल्यास(वगुल्मान)नार्थकम् ॥ ४ ॥
निग्रहा राक्षसा प्रोक्ताः चै(औ)व यक्षे तु भेदकम् ।
यक्षैश्च चामराद्यैश्च सुराणां चिह्नधारिणः ॥ ५ ॥
स्थानकं चासनं चैव यक्षविद्याधरादिभिः(दीनाम्) ।
दक्षिणा(णं) स्वस्तिकं पादं वामपादं तु कुञ्चितम् ॥ ६ ॥
चामराद्यैर्वृतं हस्तं सं चोर्वा(न्वां)श्रितमेव वा ।
एवं तु यक्षरूपं स्याद् विद्याधरा(रमा)समान्वितम् ॥ ७ ॥
पुरतः पृष्ठपादौ च लाङ्गलाकारमे(रौ ए)व च ।
जान्वाश्रितौ हस्तौ गोपुरोद्धतहस्तकौ ॥ ८ ॥
एवं विद्याधराः प्रोक्ताः सर्वाभरणभूषिताः ।
नृत्तं वा वैषा(ण)वं वापि वैशाख(खं) स्थानकं तु वा ॥ ९ ॥
गीतवीणाविधानैश्च गन्धर्वमि(र्वाश्चे)ति कथ्यते ।
चरण(णं) पशुसमानं चोर्ध्वकायं [तु] नराभम् ॥ १० ॥
वदनं गरुडभावं बाहुकौ [च] पक्षयुक्तौ ।
मकुट(टं) कमलयुक्तं पुष्पसञ्छाय(यं) वर्णम् ॥ ११ ॥
परिव(तः) कण्ठवीणं किन्नरस्य [तु] स्वरूपम् ॥ १२ ॥

v3.c24.s59.2

इति मानमारे वास्तुशास्त्रे यक्षविद्याधरविधानं नाम षट्पञ्चाशदध्यायः ॥

Linked texts (1)