Elements of Hindu Iconography v3.c22.s10: सप्तमातरः ।
Elements of Hindu Iconography v3.c22.s10
- Language
- English
Contents
- v3.c22.s10.t1 इन्द्राणी । — 18 parts
सप्तमातरः ।
v3.c22.s10.1
सप्तमातरः।
v3.c22.s10.2
सप्तमातरः ।
v3.c22.s10.3
अथातस्संप्रवक्ष्यामि मातृणां स्थापनं परम् । नैर्ऋतस्य वधार्थाय ब्रह्मणा चापि निर्मिताः ॥
v3.c22.s10.4
ब्रह्माणीं ब्रह्मवत्कुर्यान्महेशीमीश्वरोपमाम् । कुमारवच्च कौमारीं विष्णुवद्वैष्णवीं तथा ॥
v3.c22.s10.5
क्रोधनानां तु वाराहीं वामनीं तु हलायुधाम् । शक्राणीं शक्रवत्कुर्याच्चामुण्डीमुग्ररूपिणीम् ॥
v3.c22.s10.6
सुविकीर्णजटाभारां श्यामवर्णां चतुर्भुजाम् । कपालशूलहस्तां च चामुण्डीं कारयेत्ततः ॥
v3.c22.s10.7
वरदाभयहस्तास्तु तत्तदायुधधारिणः । तत्तद्भूषणसंयुक्ता वाहनध्वजसंयुताः ॥
v3.c22.s10.8
चतुर्भुजास्तु सर्वाश्च नलिनासनसंस्थिताः ।
v3.c22.s10.9
(सुप्रभेदागमे द्विचत्वारिंशत्तमपटले ॥)
v3.c22.s10.10
ब्रह्मणोऽथगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥
v3.c22.s10.11
यस्य देवस्य यद्रूपं यथाभूषणवाहनम् ।
तदेव हि तच्छक्तिरसुरान् योद्धुमाययौ ॥
v3.c22.s10.12
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः ।
आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते ॥
v3.c22.s10.13
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥
v3.c22.s10.14
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥
v3.c22.s10.15
तथैव वैष्णवी शक्तिर्गुरुडोपरि संस्थिता ।
शङ्खचक्रगदाशार्ङ्गहस्ताभ्याययौ ॥
v3.c22.s10.16
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।
शक्तिस्साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥
v3.c22.s10.17
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिन्नक्षत्रसंहतिः ॥
v3.c22.s10.18
वज्रहस्ता तथैवेन्द्री गजराजोपरिस्थिता ।
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥
v3.c22.s10.19
ततः परिवृतस्ताभिरीशानो देवशक्तिभिः । हन्त्यन्तामसुराशीघ्रं मम प्रीत्याह चण्डिकाम् ॥ ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा । चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥ (इति मार्कण्डेयपुराणे ॥)
v3.c22.s10.20
ब्राह्मी ।
v3.c22.s10.21
चतुर्वक्त्रा चतुर्बाहुसंयुक्ता हेमसन्निभा । दक्षिणेऽभयशूलं च वरदं चाक्षमालिका ॥ रक्तपद्मासनासीनां हंसवाहनकेतुकाम् । जटामुकुटसंयुक्तां पीताम्बरधरां वराम् ॥ ब्रह्माणीं ह्येवमाख्यातां ब्रह्मवृक्षसमाश्रिताम् । (अंशुमद्भेदागमे सप्तचत्वारिंशपटले ॥)
v3.c22.s10.22
तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता । पिङ्गला भूषणोपेता मृगचर्मोत्तरीयका ॥ वरं सूत्रं स्रुवं धत्ते दक्षबाहुत्रये क्रमात् । वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयप्रदा ॥
v3.c22.s10.23
चतुर्भुजा विशालाक्षी तप्तकाञ्चनसन्निभा । वरदाभयहस्ता च कमण्डल्वक्षमालिका ॥ हंसध्वजा हंसारूढा जटामकुटधारिणी । रक्तपद्मासनासीना ब्रह्माणी ब्रह्मरूपिणी ॥
v3.c22.s10.24
(पूर्वकारणागमे द्वादशपटले ॥)
v3.c22.s10.25
ब्रह्माणी हंसमारूढा साक्षसूत्रकमण्डलुः । स्रुचं तु पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥
v3.c22.s10.26
(रूपमण्डने ॥)
v3.c22.s10.27
माहेश्वरी ।
v3.c22.s10.28
चतुर्भुजा त्रिनेत्रा च अतिरक्तसमप्रभा । शूलाभयकरा सव्ये वामे वरदसंयुता ॥ जपमालासमायुक्ता जटामकुटसंयुता । ईश्वरेणोपमा ह्येषा शिवा माहेश्वरी स्मृता ॥
v3.c22.s10.29
(अंशुमद्भेदागमे सप्तचत्वारिंशपटले ॥)
v3.c22.s10.30
माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना । शुक्लेन्दुभृज्जटाजूटा शुक्ला सर्वसुखप्रदा ॥
v3.c22.s10.31
षड्भुजा वरदा दक्षे सूत्रं डमरुकं तथा । शूलघण्टाभयं वामे सैव धत्ते महाभुजा ॥
v3.c22.s10.32
(विष्णुधर्मोत्तरे ॥)
v3.c22.s10.33
त्रिनेत्रा शुक्लवर्णा च शूलपाणिवृषध्वजा । वरदाभयहस्ता च साक्षमालकरान्विता ॥
v3.c22.s10.34
जटामकुटिनी शम्भोर्भूषणी सा महेश्वरी ।
v3.c22.s10.35
(पूर्वकारणागमे द्वादशपटले ॥)
v3.c22.s10.36
माहेश्वरी प्रकर्तव्या वृषासनसंस्थिता । कपालशूलखट्वाङ्गवरहस्ता चतुर्भुजा ॥
v3.c22.s10.37
(रूपमण्डने ॥)
v3.c22.s10.38
कौमारी ।
v3.c22.s10.39
चतुर्भुजा त्रिनेत्रा च रक्तवस्त्रसमन्विता । सर्वाभरणसंयुक्ता वाचिकाबद्धमाकुटी (?) ॥
v3.c22.s10.40
शक्तिकुक्कुटहस्ता च वरदाभयपाणिनी । मयूरध्वजवाही स्यादुदुम्बरद्रुमाश्रिता ॥
v3.c22.s10.41
कौमारी चेति विख्याता सर्वकामफलप्रदा ।
v3.c22.s10.42
(अंशुमद्भेदागमे सप्तचत्वारिंशपटले ॥)
v3.c22.s10.43
कौमारी रक्तवर्णा स्यात् षड्वक्त्रा सार्कलोचना ।
रविबाहुर्मयूरस्था वरदा शक्तिधारिणी ॥
पताकां बिभ्रती दण्डं पात्रं बाणं च दक्षिणे ।
वामे चापमथो घण्टां कमलं कुक्कुटं त्वधः ॥
परशुं बिभ्रती तीक्ष्णं तदधस्त्वभयान्विता ।
(विष्णुधर्मोत्तरे ॥)
v3.c22.s10.44
कौमारी चैव कर्तव्या मयूरासनशक्तिभृत् ।
विदण्डी कालरूपा च रक्तमाल्या सकुक्कुटा ॥
(देवीपुराणे ॥)
v3.c22.s10.45
कुमारसदृशा कन्या वर्णवाहनकेतुभिः ।
वासिकाबद्धमुकुटा (?) शक्तिकाङ्कुशधारिणी ॥
रक्तवस्त्रा महावीर्या हारकेयूरभूषणी ।
वरदाभयहस्ता च कौमारी कुङ्कुमप्रभा ॥
(पूर्वकारणागमे द्वादशपटले ॥)
v3.c22.s10.46
कुमाररूपा कौमारी मयूरवरवाहना ।
रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥
v3.c22.s10.47
वैष्णवी ।
v3.c22.s10.48
शङ्खचक्रधरा देवी वरदाभयपाणिनी । सुस्तना चारुवदना श्यामाभा च सुलोचना ॥ पीताम्बरधरा देवी किरीटमुकुटान्विता । राजवृक्षं समाश्रित्य गरुडध्वजवाहिनी ॥ वैष्णवी पीठगा देवं (?) विष्णुभूषणभूषिता । (अंशुभेद आगमे सप्तचत्वारिंशपटले ॥)
v3.c22.s10.49
वैष्णवी तार्क्ष्यगा श्यामा षड्भुजा वनमालिनी । वरदा गदिनी दक्षे बिभ्रती चाम्बुजस्रजम् ॥ शङ्खचक्राभ्यान्वामे सा चेयं विलसद्भुजा । (विष्णुधर्मोत्तरे ॥)
v3.c22.s10.50
सुसिद्धा वैष्णवी कार्या शङ्खचक्रगदाम्बुजा । वनमालाकृतापीडा पीतवस्त्रा सुशोभिता ॥ (देवीपुराणे ॥)
v3.c22.s10.51
पद्मपत्रविशालाक्षी श्यामवर्णा महाबला । शङ्खचक्रगदापद्मधरबाहुचतुष्टयी ॥ गरुडध्वजयुक्ता वैष्णवी विष्णुभूषणी ।
v3.c22.s10.52
वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता । चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥
v3.c22.s10.53
(रूपमण्डने ॥)
v3.c22.s10.54
वाराही ।
v3.c22.s10.55
वराहवक्त्रसदृशा प्रलयाम्बुदसन्निभा । करण्डमकुटोपेता विद्रुमाभरणान्विता ॥
v3.c22.s10.56
हलं च वरदं सव्ये वामे अभयशक्तिके । कल्पद्रुमं समाश्रित्य गजध्वजसवाहिनीम् ॥
v3.c22.s10.57
वाराही चेति विख्याता नाम्ना सर्वफलप्रदा ।
v3.c22.s10.58
(अंशुमद्भेदागमे सप्तचत्वारिंशपटले ॥)
v3.c22.s10.59
कृष्णवर्णा तु वाराही सूकरास्या महोदरी । वरदा दण्डिनी खङ्गं बिभ्रती दक्षिणे सदा ॥
v3.c22.s10.60
खेटपाशाभ्यान्वामे सैव चापि लसद्भुजा ।
v3.c22.s10.61
(विष्णुधर्मोत्तरे ॥)
v3.c22.s10.62
कृष्णा पीताम्बरा शार्ङ्गी सर्वसम्पत्करी नृणाम् । पवित्रालङ्कृतोरस्का पादनूपुरसंयुता ॥
v3.c22.s10.63
सव्येऽभयहलं चैव मुसलं वर(द)मन्यके । वराहवक्त्रा वाराही यमभूषणभूषणी ॥
v3.c22.s10.64
(पूर्वकारणागमे द्वादशपटले ॥)
v3.c22.s10.65
वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिता । वराहसदृशी देवी घण्टाचामरधारिणी ॥ गदाचक्रधरा तद्वद्दानवेन्द्रविघातिनी । तोकानां च हितार्थाय सर्वव्याधिविनाशिनी ॥
v3.c22.s10.66
(रूपमण्डने ॥)
v3.c22.s10.67
वैवस्वती प्रकर्तव्या दुर्दरा महिषोपरि । सूकरास्या कपालेऽसृक् पिबन्ती दण्डधारिणी ॥
v3.c22.s10.68
(देवीपुराणे ॥)
v3.c22.s10.69
चामुण्डा
v3.c22.s10.70
चतुर्भुजा त्रिनेत्रा च रक्तवर्णोर्ध्वकेशिका । कपालशूलहस्ता च वरदाभयपाणिनी ॥ शिरोमालोपवीता च पद्मपीठोपरि स्थिता । व्याघ्रचर्माम्बरधरा वटवृक्षसमाश्रिता ॥
v3.c22.s10.71
चामुण्डीलक्षणं ह्यवमेकबेरे च तत्समम् । वामपादस्थिता ससर्वासव्यपादप्रलम्बिताः ॥
v3.c22.s10.72
(अंशुमद्भेदागमे सप्तचत्वारिंशपटले ॥)
v3.c22.s10.73
चामुण्डा प्रेतगा रक्ता विकृतास्याहिभूषणा । दंष्ट्रोग्रा क्षीणदेहा च गर्ताक्षी भीमरूपिणी ॥
v3.c22.s10.74
दिग्बाहुः क्षामकुक्षिश्च मुसलं कवचं शरम् । अङ्कुशं बिभ्रती खङ्गं दक्षिणे त्वथ वामतः ॥
v3.c22.s10.75
खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ।
v3.c22.s10.76
(विष्णुधर्मोत्तरे ॥)
v3.c22.s10.77
दीर्घजिह्वोर्ध्वकेशा च कृष्णका कृष्णदंष्ट्रिका । निर्मांसा व्यावृत्तमुखी चण्डी खण्डेन्दुमण्डिता ॥
v3.c22.s10.78
काली कपालमाला च शवारूढा कृशोदरी । कौशिकारोहिणी वासौ चामुण्डा गृध्रकेतुका ॥
v3.c22.s10.79
मांसखण्डसुसंपूर्ण कपालं वामपाणिभाक् । शूलाही दक्षिणे चैव वह्निर्वामकरस्थकः ॥
v3.c22.s10.80
व्याघ्रचर्माम्बरा काली विनेत्री शङ्ककुण्डली । लोकानां मातरस्सप्तमातरः कथिता इमाः ॥
इन्द्राणी ।
v3.c22.s10.t1.1
चतुर्भुजा त्रिनेत्रा च रक्तवर्णा किरीटिनी ।
शक्तिवज्रधरा चैव वरदाभयपाणिनी ॥
सर्वाभरणसंयुक्ता गजध्वजसवाहिनी ।
इन्द्राणी चेति विख्याता कल्पद्रुमसमाश्रिता ॥
(अंशुमद्भेदागमे सप्तचत्वारिंशपटले ॥)
v3.c22.s10.t1.2
ऐन्द्री सहस्रदृक्सौम्या हेमाभा गजसंस्थिता ।
वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वं तु दक्षिणे ॥
वामे तु कलशं¹ पात्रं त्वभयं तदधःकरे
(विष्णुधर्मोत्तरे ॥)
v3.c22.s10.t1.3
¹ कमलमिति श्रीतत्त्वनिधिपाठः ।
v3.c22.s10.t1.4
ऐन्द्री सुरवराध्यक्षा गजराजोपरि स्थिता ।
वज्राङ्कुशधरा देवी हारकेयूरभूषिता ॥
(देवीपुराणे ॥)
v3.c22.s10.t1.5
वज्रहस्ता गजारूढा लोचनद्वयसंयुता ।
वस्त्रालङ्कारसंपन्ना गजेन्द्रध्वजवाहना ॥
वरदाभयशक्त्यासबाहुकेन्दु² प्रकीर्तिता ।
(पूर्वकारणागमे द्वादशपटले ॥)
v3.c22.s10.t1.6
² बाहुकैन्द्रीति स्यात् ।
v3.c22.s10.t1.7
इन्द्राणी चेन्द्रसदृशी वज्रशूलगदाधरा । गजासनगता देवी लोचनैर्बहुभिर्वृता ॥
v3.c22.s10.t1.8
(रूपमण्डने ॥)
v3.c22.s10.t1.9
वीरभद्रलक्षणम् ।
v3.c22.s10.t1.10
चतुर्भुजं त्रिनेत्रं च जटामुकुटमण्डितम् । सर्वाभरणसंयुक्तं श्वेतवर्णं वृषध्वजम् ॥
v3.c22.s10.t1.11
शूलं चाभयहस्तं च दक्षिणे तु करद्वयम् । गदावरदहस्तं च वामपार्श्वे करद्वयम् ॥
v3.c22.s10.t1.12
श्वेतपद्मासनासीनं वटवृक्षमाश्रितम् । वीरभद्रमिति ख्यातं ब्राह्मीरूपं ततः शृणु ॥
v3.c22.s10.t1.13
(अंशुमद्भेदागमे सप्तचत्वारिंशपटले ॥)
v3.c22.s10.t1.14
वीरेश्वरश्च भगवान्वृषारूढो धनुर्धरः । वीणाहस्तत्रिशूला१ च मातृणामग्रतो भवेत् ॥
v3.c22.s10.t1.15
मध्ये च मातरः कार्या अन्ते तेषां विनायकः ।
v3.c22.s10.t1.16
(रूपमण्डने ॥)
v3.c22.s10.t1.17
---
१. वीणात्रिशूलहस्तश्चेति स्यात् ।
v3.c22.s10.t1.18
ज्येष्ठा ।
Cites (6)
- Mārkaṇḍeyapurāṇa — Vyāsa, Sanskrit
- Suprabhedāgama — Sanskrit
- Kāśyapaśilpa — Sanskrit
- Viṣṇudharmottarapurāṇa — Sanskrit
- Rūpamaṇḍana — Maṇḍana, Sanskrit
- Devīpurāṇa — Sanskrit