Elements of Hindu Iconography v3.c22.s2: हेरम्बः ।
Elements of Hindu Iconography v3.c22.s2
- Language
- English
हेरम्बः ।
v3.c22.s2.1
सिंहोपरि स्थितं देवं पञ्चवक्त्रं गजाननम् ।
दशबाहुं त्रिनेत्रंच जाम्बूनदसप्रभम् ॥
प्रसादाभयदातारं पात्रं पूरितमोदकम् ।
स्वदन्तं सव्यहस्तेन बिभ्रतं चापि सुव्रते ! ॥
...करं चाक्षसूत्रं च परशुं मुद्गरं तथा ।
पाशाङ्कुशकरां शक्तिं देवं लम्बोदरं शुभम् ॥
पीवरं चैकदन्तं च तुम्बुरूणां गणान्वितम् ।
(शिल्परत्ने पञ्चविंशाध्याये ॥)
v3.c22.s2.2
वरं तथाङ्कुशं दन्तं दक्षिणे च परश्वधः १ ।
वामे कपालंर बाणाक्षपाशं कौमोदकीं तथा ॥
धारयन्तं करैरेभिः पञ्चवक्त्रं त्रिलोचनम् ।
हेरम्बं मूषकारूढं कुर्यात्सर्वार्थकामदम् ॥
(रूपमण्डने ॥)
v3.c22.s2.3
अभयवरहस्तं पाशदन्ताक्षमाला-
परशुमथ त्रिशीर्षैर्मुद्गरं च ।
विदधतुवरसिंह३ पञ्चमातङ्गवक्तः
कनकरुचिवर्णः पातु हेरम्बनामा ॥
(क्रियाक्रमद्योतौ ॥)
v3.c22.s2.4
१. ‘पर्श्वधाभया’विति पाठान्तरम् । २. ‘व्यलंवे’ति पाठान्तरम् ।
३. ‘विदधदपरसिंहः’ इति किमु स्यात् ? ।
v3.c22.s2.5
वक्रतुण्डः । लम्बोदरं त्रिनयनं पाशाङ्कुशधरं परम् । वरदाभयहस्तं च लसत्कर्णं सचामरम् ॥ (रूपमण्डने ॥)
v3.c22.s2.6
बालगणपतिः । बालः प्रसूतमात्रोऽयमम्बिकाङ्के निवेशितः । अतिरक्तो गजमुखो द्विश्दो१ रत्नभूषितः ॥ चषकं पुष्करे बिभ्रत् सृणिपाशौ करद्वये । द्वाभ्यां कल्पलतां दोभ्यां दोलयत्नवर्षिणीम् ॥ एवं ध्यात्वा जपेन्मन्त्रं बालाख्यं गणनायकम् । (शिल्परत्ने पञ्चविंशाध्याये ॥)
v3.c22.s2.7
करस्थकदलीचूतपनसेक्षुकपित्थकम् । बालसूर्यप्रभाकारं वन्दे बालगणाधिपम् ॥
v3.c22.s2.8
तरुणगणपतिः । पाशाङ्कुशापूपकपित्थजम्बूफलं तिलान्वेणुमपि स्वहस्तैः । धत्ते सदायस्तरुणोऽरुणाभः पायात्सुयुष्मांस्तरुणो गणेशः ॥
v3.c22.s2.9
भक्तविघ्नेशः । नालिकेराम्रकदलीगुळपायसधारिणम् । शरच्छाङ्कसदृशं भजे भक्तगणाधिपम् ॥
v3.c22.s2.10
¹ 'द्विरद' इति स्यात् ।
v3.c22.s2.11
वीरविघ्नेशः ।
v3.c22.s2.12
वेतालशक्तिशरकार्मुकखेटखड्ग- खट्वाङ्गमुद्गरगदाङ्कुशनागपाशान् । शूलं च कुन्तपरशुध्वजमुद्वहन्तं वीरं गणेशमरुणं सततं स्मरामि ॥
v3.c22.s2.13
शक्तिगणेशः ।
v3.c22.s2.14
आलिङ्ग्य देवीं हरितां निषण्णां परस्परस्पृष्टकटीनिवेशाम् । सन्ध्यारुणं पाशसृणिं वहन्तं भयावहं शक्तिगणेशमीडे ॥
v3.c22.s2.15
(क्रियाक्रमद्योतौ ॥)
v3.c22.s2.16
विषाणाङ्कुशाक्षसूत्रं च पाशं दधानं करैर्मोदकं पुष्करेण । स्वपत्न्या युतं हेमभूषाम्बराढ्यं गणेशं समुद्यदिनेशाभमीडे ॥
v3.c22.s2.17
(श्रीमन्मन्त्रमहार्णवे ॥)
v3.c22.s2.18
ध्वजगणाधिपः ।
v3.c22.s2.19
यः पुस्तकाक्षगुणदण्डकमण्डलुश्री- निर्वर्त्यमानकरभूषणमिन्दुवर्णम् । तं घोरमाननचतुर्भुजशोभमानं त्वां संस्मरेद् ध्वजगणाधिपते ! स धन्यः ॥
v3.c22.s2.20
पिङ्गलगणपतिः ।
v3.c22.s2.21
पक्वचूतफलकल्पमञ्जरीभिक्षुसारतिलमोदकैस्सह । उद्वहन्परशुहस्त ते नमः श्रीसहाययुत देवपिङ्गल ! ॥
v3.c22.s2.22
उच्छिष्टगणपतिः ।
v3.c22.s2.23
लीलाब्जं दाडिमं वीणाशाली१ पुच्छाक्षसूत्रकम् । दधदुच्छिष्टनामानं गणेशं वीरमेव च ॥
v3.c22.s2.24
(क्रियाक्रमद्योतौ ॥)
v3.c22.s2.25
शरं धनुः पाशसृणी स्वहस्तैर्दधानमारक्तसरोरुहस्थम् । विवस्त्रपत्न्या सुरतप्रवृत्तमुच्छिष्टमम्बासुतमाश्रयेऽहम् ॥
v3.c22.s2.26
चतुर्भुजं रक्तनुं त्रिनेत्रं पाशाङ्कुशौ मोदकपावदन्तौ । करैर्दधानं सरसीरुहस्थमुन्मत्तमुच्छिष्टगणेशमीडे ॥
v3.c22.s2.27
(श्रीमन्मन्त्रमहार्णवे ॥)
v3.c22.s2.28
विघ्नराजगणपतिः ।
v3.c22.s2.29
पाशाङ्कुशौ धरन्नाम्रफलाशी चाखुवाहनः । विघ्नं विहन्तु नसर्वं रक्तवर्णो विनायकः ॥
v3.c22.s2.30
लक्ष्मीगणेशः ।
v3.c22.s2.31
बिभ्राणशुक्बीजपूरकमलं माणिक्यकुम्भाङ्कुशा- न्पाशं कल्पलतां च बाणकलिकास्त्रोत्सस्सरोनिसरः (?) ।
v3.c22.s2.32
¹ शालिपुञ्जेति स्यात् ।
v3.c22.s2.33
श्यामोरक्तसरोरुहेण सहितो विद्वन्नयेनान्तिके (?) गौराङ्गो वरदादिहस्तकमलो लक्ष्मीगणेशो महान् ॥ (क्रियाक्रमद्योतौ ॥)
v3.c22.s2.34
दत्ताभये१ चक्रधरौ२ दधानं कराग्रगस्वर्णघटं विनेवम् । धृताब्जयालिङ्गितमब्धिपुत्र्या लक्ष्मीगणेशं कनकाभमीडे ॥ (श्रीमन्मन्त्रमहोदधौ ॥)
v3.c22.s2.35
महागणेशः ।
v3.c22.s2.36
बिभ्राणोऽब्जकबीजपूरकगदा दन्तेक्षुबाणैस्समं बिभ्राणो मणिकुम्भशालिकणिशं पाशं च वक्त्रान्वितम् । गौराङ्ग्या रुचिरारविन्दयुतया देव्या सनाथान्तिक- श्शोणाङ्ग्शुभमातनोतु भवतां नित्यं गणेशो महान् ॥
v3.c22.s2.37
भुवनेशगणपतिः ।
v3.c22.s2.38
शङ्खेक्षुचापकुसुमेषुुकवामदन्त- पाशाङ्कुशैः कलममञ्जरिकासनाथैः । पाणिस्थितैः परिसमावृतभूषणश्री- र्विघ्नेश्वरौ विजयते कमनीयगौरः ॥
v3.c22.s2.39
नृत्तगणपतिः ।
v3.c22.s2.40
पाशाङ्कुशापूपकुठारदन्तचञ्चत्करं वलय........मङ्गुलीयकम । पीतप्रभं कल्पतरूरुहस्तं भजामि नृत्तपदं गणेशम् ॥
v3.c22.s2.41
१. दन्ताभये इति स्यात् । २. चक्रधरमिति स्यात् ।
v3.c22.s2.42
ऊर्ध्वगणेशः । कल्हारशालिकणिशेषुकचापबाण- दन्तप्ररोहभरः कनकोज्वलाङ्गः । आलिङ्गनद्यतकरस्तटिदाभकव्या देव्या दिशत्वभयमूर्ध्वगणेश्वरस्ते ॥ (क्रियाक्रमद्योतौ ॥)
v3.c22.s2.43
प्रसन्नगणेशः । उद्यदिनेश्वररुचिं निजहस्तपद्मैः पाशाङ्कुशाभयवरान्दधतं गजास्यम् । रक्ताम्बरं सकलदुःखहरं गणेशं ध्यायेत्प्रसन्नमखिलाभरणाभिरामम् ॥ (श्रीमन्मन्त्ररत्नाकरे ॥)
v3.c22.s2.44
उन्मत्तविनायकः । चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशाङ्कुशौ मोदकपात्रदन्तौ । करैर्दधानं सरसीरुहस्थमुन्मत्तमुच्छिष्टगणेशमीडे ॥ (मन्त्रमहोधौ ॥)
v3.c22.s2.45
हरिद्रागणेशः । पाशाङ्कुशौ मोदकमेकदन्तं करैर्दधानं कनकासनस्थम् । हारिद्रखण्डप्रतिभं विनेत्रं पीतांशुकां रविगणेशमीडे ॥ (श्रीमन्मन्त्ररत्नाकरे ॥)
v3.c22.s2.46
गणेशायतनम् ।
v3.c22.s2.47
वामाङ्गे गजकर्ण तु सिद्धिं दद्याच्च दक्षिणे । पृष्टिकर्णैस्तथाद्वौ (?) च धूम्रको बालचन्द्रमाः १ ॥ उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यक्षराजश्च बुद्धिः पूर्वसुसंस्थिता ॥
v3.c22.s2.48
गणेशप्रतीहाराः ।
v3.c22.s2.49
सर्वे च वानाकारासौम्याश्च परुषाननाः । तर्जनी परशुः पद्मविघ्नो दण्डहस्तकः ॥ तर्जनीदण्डापसव्ये स भवेद्विघ्नराजकः । तर्जनी खड्गखेटं तु दण्डहस्तस्सुवक्त्रकः ॥ तर्जनी दण्डापसव्ये दक्षिणे बलवान्भवेत् । तर्जनी बाणचापं च दण्डं च गजकर्णकः ॥ तर्जनी दण्डापसव्ये गोकर्णः पश्चिमे स्मृतः । तर्जनीपद्माङ्कुशं च दण्डहस्तः सुसौम्यकः ॥ तर्जनीदण्डापसव्ये स चैव शुभदायकः । पूर्वद्वारादिके सर्वे प्राच्यादिष्वष्ट संस्थिताः ॥
v3.c22.s2.50
(रूपमण्डने ॥)
v3.c22.s2.51
१. बालचन्द्रमा इति स्यात् ।
Linked texts (2)
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit
- Rūpamaṇḍana — Maṇḍana, Sanskrit