Pramāṇa · Search · About · API

Elements of Hindu Iconography v3.c22.s4: दशावताराः ।

Elements of Hindu Iconography v3.c22.s4

Language
English

Contents

दशावताराः ।

v3.c22.s4.1

I. PREFACE

v3.c22.s4.2

दशावताराः ।

v3.c22.s4.3

मत्स्यमूर्तिः । मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत् ।

v3.c22.s4.4

कूर्ममूर्तिः । कूर्मवतारिणं देवं कमठाकृतिमालिखेत् ॥ (शिल्परत्ने पञ्चविंशपटले ॥)

v3.c22.s4.5

वराहः । आदिवराहं चतुर्भुजं सस्यश्यामनिभं¹ नागेन्द्र²- फणामणिस्थापितदक्षिणपादं तद्रौ महीं दधानं दक्षिणहस्तेन देव्योः पादौ गृह्न्तं वामहस्तेन तामुपगृह्न्तं मुखेन देवीं जिघ्रन्तं कृत्वा तां महीं प्राञ्जलीकृतहस्तां प्रसारितपादां पुष्पाम्बरधरां श्यामाभां किंचिदेवं

v3.c22.s4.6

¹ सन्ध्याश्यामनिभमिति पाठान्तरम् ।

v3.c22.s4.7

² नागेन्द्रत्यारभ्य कृत्वेत्यन्तस्य स्थाने 'पादं दक्षिणं सपत्नीकं नागेन्द्रस्य फणामणिस्थापितं वामकरस्थापि- कलामुत्कमणाय कुञ्चितविस्ताराभ्यां महीमादाय देवेशस्य आरूढाभ्यां द्वयो- स्संस्यस्य देवस्य हस्तेन दक्षिणे देव्याः पादौ गृहीत्वा तस्यापरभागे वामहस्तेन धारयन् देवस्य मुखेन देवीं जिघ्रन्तं वा कारयेत् ।' इत्यादर्शान्तरे दृश्यते ।

v3.c22.s4.8

समीक्ष्य व्रीडाहर्षेण संयुक्तां सर्वाभरणसंयुतां देवस्य स्तनान्तां वा पश्चातालेन मानेन कारयेत् । (वैखानसागमे षट्पञ्चाशपटले ॥)

v3.c22.s4.9

नृवराहं प्रवक्ष्यामि सूकरास्येन शोभितम् । गदापद्मधरं धात्रीं दंष्ट्रेण समुद्धृताम् ॥ बिभ्राणं कोर्परे वामे विस्मयोत्फुल्ललोचनाम् । नीलोत्पलधरां देवीमुपरिष्ठात्प्रकल्पयेत् ॥ दक्षिणं कटिसंस्थं च बाहुं तस्य प्रकल्पयेत् । कूर्मपृष्ठे पदं चैकमन्यन्नागेन्द्रमूर्धनि ॥ अथवा सूकराकारं महाकायं क्चिच्छिखेत् । तीक्ष्णदंष्ट्राग्रघोणास्यस्कन्धकर्णोर्ध्वरोमकम् ॥ (शिल्परत्ने पञ्चविंशपटले ॥)

v3.c22.s4.10

नराङ्गो वाथ कर्तव्यो भूवराहो गदादिभृत् । दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्मेव वा ॥ श्रीर्वामकूर्परस्था तु क्ष्मानन्तौ चरणानगौ । वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् ॥ (अग्निपु० ४९ अ० ॥)

v3.c22.s4.11

ऐश्वर्यसंनिरुद्धश्च वराहो भगवान् हरिः । ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः ॥ नृवराहोऽथवा कार्यश्शेषोपरिगतः प्रभुः । शेषश्चतुर्भुजः कार्यश्चारुरत्नफणान्वितः ॥

v3.c22.s4.12

आश्रयात्फुल्लनयनो देववीक्षणतत्परः । कर्तव्यौ सीरमुसलौ करयोस्तस्य यादव ! ॥

v3.c22.s4.13

सर्पभोगश्च कर्तव्यस्तथैव रचिताञ्जलिः । आलीढस्थानसंस्थानस्तपृष्ठे भगवान्भवेत् ॥

v3.c22.s4.14

वामारत्निगता तस्य योषिद्रूपा वसुन्धरा । नमस्कारपरा तस्य कर्तव्या द्विभुजा शुभा ॥

v3.c22.s4.15

यस्मिन् भुजे धरा देवी तत्र शङ्करो भवेत् । अन्ये तस्य कराः कार्याः पद्मचक्रगदाधराः ॥

v3.c22.s4.16

हिरण्याक्षाशिरश्छेदचक्रोडुत्तकरोऽथवा । मृतोद्धतहिरण्याक्षसुमुखो भगवान्भवेत् ॥

v3.c22.s4.17

मूर्तिमन्र्तमनैश्वर्यं हिरण्याक्षं विदुर्बुधाः । ऐश्वर्येणाविनाशेन स निरस्तोऽरिमर्दनः ॥

v3.c22.s4.18

नृवराहोऽथवा कार्यो ध्याने कपिलवस्थितः । द्विभुजस्तथवा कार्यः पिण्डनिर्वपनोद्यतः ॥

v3.c22.s4.19

समग्रक्रोडरूपेण बहुदानवमध्यगः । नृवराहो वराहश्च कर्तव्यः क्षमाविदारणः ॥

v3.c22.s4.20

(विष्णुधर्मोत्तरे ॥)

v3.c22.s4.21

मत्स्यकूर्मौ स्वस्वरूपौ नृवराहो गदाम्बुजे । बिभ्रच्छ्यामो वराहास्यो दंष्ट्राग्रेणोद्धतां धराम् ॥

प्रलयवराहः ।

v3.c22.s4.t1.1

वक्ष्ये प्रलयवराहं वामपादं समाकुञ्च्य दक्षिणं प्रसार्य सिंहासने समासीनं नीलाभं¹ शङ्खचक्रधरमभयदक्षिणहस्तमूरुप्रतिष्ठितवामहस्तं पीताम्बरधरं सर्वाभरणभूषितं कारयित्वा तस्य दक्षिणे देवीं महीं पादं वाममाकुञ्च्य दक्षिणं प्रसार्यासीनां श्यामाभां सर्वाभरणभूषितामुत्पलधरवामकरामासननिहितदक्षिणकरां किंचिद्देवं समीक्ष्य विस्मयोत्फुल्ललोचनां कारयेत् ।

v3.c22.s4.t1.2

¹ नीलाभमित्यारभ्य प्रसार्यासीनामित्यन्तमादर्शान्तरे नास्ति ।

यज्ञवराहः ।

v3.c22.s4.t2.1

अथ यज्ञवराहं श्वेताभं चतुर्भुजं शङ्खचक्रधरं वामपादं समाकुञ्च्य दक्षिणं प्रसार्य सिंहासने समासीनं पीताम्बरधरं सर्वाभरणभूषितं कारयित्वा तस्य दक्षिणे देवीं श्रियं हेमाभां वामपादं समाकुञ्च्य दक्षिणं प्रसार्यासीनां पद्मधरवामहस्तामासने निहितदक्षिणहस्तां वामपार्श्वे महीं देवीं सस्यश्यामनिभां दक्षिणपादमाकुञ्च्य वामं प्रसार्यासीनामुत्पलधरदक्षिणहस्तामासने निहितवामहस्तां देवं किंचित्समीक्ष्य विस्मयोत्फुल्ललोचनां कारयेत् । त्रयाणां वराहाणां तत्तद्रूपं कौतुकबिम्बं विष्णुं चतुर्भुजं वा कारयेत् ।

नरसिंहः ।

v3.c22.s4.t3.1

नारसिंहो द्विविधो गिरिजस्थूण²जश्चेति । तयोर्मुखं सिंहस्येवान्यन्नराकारं तस्य मूर्धादिपादतलान्तं सविंशतिशताङ्गुलं...........

v3.c22.s4.t3.2

² स्थूणाज इति भवितव्यम् ।

v3.c22.s4.t3.3

प्रतिमालक्षणानि । . . . . . नारासिंहं देवं सिंहासने पादं दक्षिणं प्रसार्य वाममाकुञ्च्य समासीनं चतुर्भुजं शङ्खचक्रधरं कुन्देन्दुधवलप्रभं रक्तवस्त्रधरं सर्वाभरणभूषितं करण्डिकामकुटयुतं पूर्वं दक्षिणकरमभयं दधानं वामं कट्यवलम्बितमूरुस्थं वा कारयेत् । तद्दक्षिणे श्रियं देवीं वामपादमाकुञ्च्य दक्षिणं प्रसार्यासीनां पद्मधरवामहस्तामासने निहितदक्षिणहस्तां सुवर्णाभां सर्वाभरणभूषितां वामपार्श्वे महीं देवीं दक्षिणं पादमाकुञ्च्य वामं प्रसार्यासीनामुत्पलधरदक्षिणहस्तामासने निहितवामहस्तां श्यामाभां सर्वाभरणभूषितां कारयेत् । अथवा सिंहासनस्योर्ध्वे वामं पादं प्रसार्यान्यमाकुञ्च्य तज्जानूर्ध्वे दक्षिणहस्तं गजहस्तत्वप्रसार्य वाममूरौ संन्यस्यासीनं शङ्खचक्रधरं देवीभ्यां सहितं कारयेत् ।

v3.c22.s4.t3.4

केवलनरसिंहः ।

v3.c22.s4.t3.5

केवलं नृसिंहदेवं पद्मपीठपरिषाद् द्वौ पादौ व्यत्ययेन न्यस्योत्कुटिकासनेनासयित्वोरुमध्ये वस्त्रेणाबध्य सर्वाभरणसंयुक्तं चतुर्भुजं शङ्खचक्रधरमन्यहस्तौ जानूपरिष्ठात्प्रसारितौ१ च कारयेत् ।

v3.c22.s4.t3.6

(वैखानसागमे ॥)

v3.c22.s4.t3.7

आसीनं द्विभुजं देवं प्रमत्तवदनेक्षणम् ।
श्वेतस्फटिकसङ्काशं चतुर्बाह्मथापि वा ॥

v3.c22.s4.t3.8

१. प्रसारितवियुक्तं वा संस्थापयेदिति पुस्तकान्तरे दृश्यते ।

v3.c22.s4.t3.9

आजानुलम्बिनौ बाहू कर्तव्यौ तत्र दक्षिणे । समीपे कल्पयेच्चक्रं वामे शङ्खं समीपतः ॥ ऊर्ध्वस्थिताभ्यां बाहुभ्यां दक्षिणे पङ्कजं न्यसेत् । वामे बाहौ गदामाम्यां१ लिखेच्चित्रविशारदः ॥ (शिल्परत्नसंयोजिते कस्मिंश्चिद्ग्रन्थे ॥)

v3.c22.s4.t3.10

स्थौणनारसिंहः ।

v3.c22.s4.t3.11

अथ २स्थूणनारसिंहं सोपाधानासिंहासने३ वामपादमाकुञ्च्यान्यं प्रसार्य समासीनं चतुर्भुजं शङ्खचक्रधरमभयक४दानदक्षिणहस्तमूरुप्रतिष्ठितवामहस्तं ५सटास्कन्धसंयुक्तं तीक्ष्णदंष्ट्रेक्षणं भयानकं६ श्वेताभं रक्ताम्बरधरं सर्वाभरणसंयुक्तं कारयेत्७ । तस्य कोपशान्त्यर्थं पार्श्वयोर्दक्षिणवामयोः श्रीमहौ प्रह्लादं वन्दमानं च कारयेत् । दक्षिणे नारदं वीणाहस्तं भित्तिपार्श्वे परितः प्रागाद्येशानान्तमिन्द्रादिलोकपालान्वन्दमानांश्च कारयेत् । (वैखानसागमे ॥)

v3.c22.s4.t3.12

१. ‘गदां रम्या’मिति किमु स्यात् ? २. स्थौणेति स्यात् । ३. सोपान इति पाठान्तरम् । ४. दक्षिणं पूर्वमभयमिति पाठान्तरम् । ५. एतदादर्शान्तरे नास्ति । ६. ‘भयानकं चेद्वीमं रक्ताम्बरधर’मित्यादर्शान्तरे दृश्यते । ७. एतद्वाक्यादनन्तर ‘मथवा षोडशादशहस्तैर्युक्तं विभाग स्थितं वामोरौ सुरेन्द्रं विन्यस्योरसि हस्ताभ्यां नखैर्भेदयित्वा दक्षिणभागे चैकैकाभयप्रदानमेकेन श्रोलाङ्गुलीय विन्यस्यासं वामे चैकेन मकुटग्रहणमेकेन मुष्टिप्रहरणमन्यैर्दमनं वाशीघ्रां सतीत्येवमतिभयानकं कृत्वा’ इत्याधिकमादर्शान्तरे विद्यते ।

v3.c22.s4.t3.13

नृसिंहस्याकृतिं वक्ष्ये रौद्रपिङ्गमुखेक्षणाम् । भुजाष्टकसमायुक्तां १स्कन्धपीनसमाश्रिताम् ॥

v3.c22.s4.t3.14

हिरण्यकशिपुं दैत्यं दारयन्तीं नखाङ्कुरैः । ऊरोरुपरि पीनस्य खड्गखेटधारिणम् ॥

v3.c22.s4.t3.15

तस्यान्त्रमाला निष्कृल्य२ बाहुयुग्मेन बिभ्रतीम् । मध्यस्थिताभ्यां बाहुभ्यां दक्षिणे चक्रपङ्कजौ ॥

v3.c22.s4.t3.16

कौमोदकीं गदां शङ्खं बाहुभ्यामिति वामतः । नीलोत्पलवदच्छायां३ किं वा चम्पकसप्रभाम् ॥

v3.c22.s4.t3.17

तप्तकाञ्चनसङ्काशां बालार्कसदृशीं लिखेत् ।

v3.c22.s4.t3.18

(शिल्परत्ने पञ्चविंशपटले ॥)

v3.c22.s4.t3.19

नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः । तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः ॥

v3.c22.s4.t3.20

(अग्निपु० ४९ अ० ॥)

v3.c22.s4.t3.21

य एवं भगवान्विष्णुर्नृसिंहवपुर्धरः । ध्यानविधिस एवोक्तः परमज्ञानवर्धनः ॥

v3.c22.s4.t3.22

पीनस्कन्धकटिग्रीवः कृशमध्यः कृशोदरः । सिंहाननो नृदेहश्च नीलवासाः समन्वितः ॥

v3.c22.s4.t3.23

१. पीनस्कन्धेति स्यात् । २. निष्कृष्येति भवितव्यम् । ३. दलेति स्यात् ।

v3.c22.s4.t3.24

आलीढस्थानसंस्थानस्सर्वाभरणभूषितः । ज्वालामालाकुलमुखो ज्वालाकेसरमण्डलः ॥ हिरण्यकशिपोरक्षः पाटयन्नखरैः खरैः । नीलोत्पलाभः कर्तव्यो देवजानुगतस्तथा ॥ हिरण्यकशिपुदैत्यस्तमज्ञानं विदुर्बुधाः । (विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t3.25

नृसिंहस्सिंहवक्त्रोऽतिदंष्ट्रालः कुटिलोरुकः । हिरण्योरस्थलसक्तविदारणकरद्वयः ॥ (रूपमण्डने ॥)

v3.c22.s4.t3.26

यानकनरसिंहः ।

v3.c22.s4.t3.27

अथ यानकनरसिंहं वीशस्कन्धोपरिष्ठाच्छेपोत्सङ्गे समासीनं तत्फणैः पञ्चभिः [छ*] नमौलिं चतुर्भुजं शङ्खचक्रधरं सर्वाभरणभूषितं कारयेत् । अथवाष्टाभिर्द्वाभिरर्वा भुजैर्युक्तं भयानकं दैत्यवधानुरूपं नृसिंहं स्थूणजं कारयेत् । (वैखानसागमे ॥)

v3.c22.s4.t3.28

वामनः ।

v3.c22.s4.t3.29

अथ वामनं पञ्चतालमिति१ द्विभुजं छत्रदण्डधरं कौपीनवाससं शिखापुस्तकमेखलोपवीतकृष्णाजिनसमायुतं पवित्रपाणिं बालरूपं ब्रह्मवर्चस्विनं कारयेत् । (वैखानसागमे ॥)

v3.c22.s4.t3.30

१ एतदनन्तरं ‘मूर्धादिपादतलान्तं षडङ्गुल’ मित्यधिकमादशान्तरे दृश्यते ।

v3.c22.s4.t3.31

कृष्णाजिन्युपवीती स्याच्छत्री धृतकमण्डलुः । कुण्डली शिखया युक्तः कुब्जाकारो महोदरः ॥ (शिल्परत्ने पञ्चविंशपटले ॥)

v3.c22.s4.t3.32

छत्री दण्डी वामनस्यादथवा स्याच्चतुर्भुजः । (अग्निपु० ४७ अ० ॥)

v3.c22.s4.t3.33

कर्तव्यो वामनो देवस्सङ्गतैर्गात्रपर्वभिः । पीनगात्रश्च कर्तव्यो दण्डी चाध्ययनोद्यतः ॥ दूर्वाश्यामश्च कर्तव्यः कृष्णाजिनधरस्तथा । (विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t3.34

वामनस्सशिखश्श्यामो दण्डी पीनोऽम्बुपात्रवान् । (रूपमण्डने ॥)

त्रिविक्रमः ।

v3.c22.s4.t4.1

१त्रिविक्रमस्त्रिविधः प्रोक्तो लोकेषु विपदन्यासाद् भूलोकाक्रमणार्थं जानुमावमन्तरिक्षलोकाक्रमणार्थं नाभिमात्रं स्वर्गलोकाक्रमणार्थं ललाटमात्रं चोर्ध्वपादो भवेत् । एतेषु यथेष्टरूपं निश्चित्य पूर्ववच्चतुर्वि-

v3.c22.s4.t4.2

१. त्रिविक्रमं त्रिधा प्रोक्तं लोकेति पदविन्यासाद् भोलौकाक्रमेण ललाटसीमान्तमुद्धृतमेतैर्यथेष्टनिरूपं निश्चित्य पूर्ववच्चतुर्विंशतिशताङ्गुलभेदेन देवं चतुर्भुजमेष्टभुजं वा अष्टभुजं चेदक्षिणे चक्रासिशक्तिधरं वामे खेटकशार्ङ्ग हलमुसलधरमेवमष्टभुजं चतुर्भुजो दक्षिणे चक्रं वामे शङ्खं तद्विपरीतं स्ववामपादं दक्षिणं स्थितं वामं प्रसारितं दक्षिणमुत्तानकरं वामं प्रसारितपादेन सह प्रसारितं श्यामाभं रक्ताम्बरधरं सर्वाभरणभूषितं तत्पृष्ठे कल्पद्रुमिन्द्रच्छलधर-

v3.c22.s4.t4.3

शतितालविभागेन देवमष्टबाहुं चतुर्बाहुं वाष्टभुजे दक्षिणहस्ते चक्रशङ्खगदाशाङ्‌गहलधरं चतुर्भुजे दक्षिणहस्तेन चक्रधरं वाम-हस्तेन शङ्‌खधरमभयं वरदं वा दधानं दक्षिणहस्ते, प्रसारितपादेन प्रसारितवामहस्तं स्थितदक्षिणपादं प्रसारितोद्धृतवामपादं श्यामामं रक्ताम्बरधरं सर्वाभरणभूषितं, तत्पृष्ठे कल्पद्रुममिन्द्रच्छत्रमुभयोः पार्श्वयोर्जवनजलेशौ चामरधारिणौ तदूर्ध्वे दक्षिणे दिवाकरं वामे निशाकरं तथा सन्‌¹ सनकसनत्कुमारौ च कृत्वा प्रसारितपादस्योर्ध्वभागे ब्रह्माणं तत्पादं प्रगृह्य हस्ताभ्यां प्रक्षालयन्तं कृत्वा तत्स्रोतसीं गङ्‌गां श्वेतामां नाभेरूर्ध्वं शङ्‌करं प्राञ्जलीकृतहस्तं च कारयेत् । पादपार्श्वे नमुचिमंत्रममाणं (?) वामपार्श्वे ऋतुविघ्नकरं तं मुष्टिना प्रहरन्तं गरुडं, दक्षिणे वामनं तत्पार्श्वे बलिं हेमाभं सर्वाभरणभूषितं सपत्नीकं हर्षेण पाणिभ्यां हेमकलशमुद्धरन्तं तस्योर्ध्वे जाम्बवन्तं भेरीताडनपरं च कारयेत् । अत्‌वानुक्तं सर्वं भूमर्तुविधिना कारयेत् । त्रिविक्रमस्य कौतुकं विष्णुं चतुर्भुजमेव कारयेत् ।

v3.c22.s4.t4.4

(वैखानसागमे ॥)

v3.c22.s4.t4.5

मुभौ पार्श्वे जवनं जलेशौ चामरधारिणौ तदूर्ध्वे दक्षिणादिवामकरं दक्षिणे निशाकरं तथा सनकसन्यससनत्कुमारौ च प्रसारितभागस्य ऊर्ध्वपादे ब्रह्माणं तत्पादं प्रगृह्य हस्ताभ्यां प्रक्षालनं कृत्वा तच्छ्रोत्रस्योरुगणपार्श्वे तद्‌गौ ऊर्ध्वमन्यत्सर्वं हरेरिव कारयेत् ।¹ इत्यार्शान्तरे त्रिविक्रमलक्षणं दृश्यते । १. सन्य-समिति स्यात् ।

v3.c22.s4.t4.6

त्रिविक्रमक्रमं वक्ष्ये वामपादेन मेदिनीम् । आक्रामन्तं द्वितीयेन साकल्येन नभस्थलम् ॥

v3.c22.s4.t4.7

(शिल्परत्ने पञ्चविंशपटले ॥)

v3.c22.s4.t4.8

सजलाम्बुदसंकाशस्तथा कार्यस्त्विविक्रमः । दण्डपाशधरः कार्यशङ्खचक्रगदाधरः ॥ शङ्खचक्रगदापद्माः कार्यास्तस्य सुरूपिणः । निर्देहास्ते¹ न कर्तव्याश्शेषं कार्यं तु पूर्ववत् ॥ एकोर्ध्ववदनः कार्यो देवो विस्फारितेक्षणः ।

v3.c22.s4.t4.9

¹ 'नृदेहास्ते' इति स्यात् ।

v3.c22.s4.t4.10

(विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t4.11

जामदग्न्यरामः ।

v3.c22.s4.t4.12

जामदग्न्यरामं मध्यमदशतालेन मितं सविंशतिशताङ्गुलं द्विभुजं रक्ताभं श्वतवस्त्रधरं दक्षिणहस्तेन परशुधरमुद्देश्यवामकरं जटामकुटधरं सोपवीतं सर्वाभरणभूषितमेवं कारयेत् । कौतुकं तद्रूपं विष्णुं चतुर्भुजं वा कारयेत् ।

v3.c22.s4.t4.13

(वैखानसागमे ॥)

v3.c22.s4.t4.14

रामश्चापेपुहस्तस्यात्वर्द्धी परशुनान्वितः ।

v3.c22.s4.t4.15

(अग्निपु० ४९ अ० ॥)

v3.c22.s4.t4.16

कार्यस्तु भार्गवो रामो जटामण्डलदुर्दृशः । हस्तेऽस्य परशुः कार्यः कृष्णाजिनधरस्य तु ॥ (विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t4.17

जटाजिनधरो रामो भार्गवः परशुं दधत् । (रूपमण्डने ॥)

v3.c22.s4.t4.18

राघवरामः ।

v3.c22.s4.t4.19

अथ राघवरामं सविंशतिशताङ्गुलमितं द्विभुजं त्रिभङ्गस्थितं¹ दक्षिणेन हस्तेन शरधरं वामेन चापधरं श्यामामं रक्ताम्बरधरं किरीटाद्याभरणान्वितं² कारयेत् । देवस्य बाहुसमां देवीं सीतां³ नवार्धतालमानेनाभङ्गवशाद्भुक्माभां शुकपिच्छनिभाम्बरधरां सर्वाभरणभूषितां धम्मिल्लबन्धयुतां करण्डिकामकुटोपेतां वामहस्तेन नीलोत्फुल्लपद्मधरां प्रसारितदक्षिणहस्तां कारयेत् । देवस्य दक्षिणे पार्श्वे देवं⁴ किञ्चित्समीक्ष्य विस्मयोत्फुल्ललोचनां देवीं⁵ कारयेत् । वामपार्श्वे सौमित्रिं⁶ देवस्य कर्णसीमान्तं बाह्यन्तं वा लक्ष्मणं दशातालं षोडशाधिकशताङ्गुलं . . . . . उद्ध्रकुन्तलं⁷युवराजभूषणान्वितं द्विभुजं रामवच्छरचाप-

v3.c22.s4.t4.20

१. ‘त्रिभङ्गसतो’ इति पाठान्तरम् । २. एतत्पदादनन्तरं दशरथामित्या-दर्शान्तरे दृश्यते । ३. स्थितमिति पाठान्तरम् । ४. देवीमिति पाठान्तरम् । ५. एतदादर्शान्तरे न । ६. ‘सौमित्रिं देवस्ये’ति पदद्वयमादर्शान्तरे न । ७. ‘उद्ध्रकुन्तलारभ्य किञ्चिदूध्वाननं कारये’दित्यन्तस्य स्थाने ‘भूषणान्वितं सुवर्णाभं श्यामामम्बरधरं चापधरं रामवत्स्थितं कारयेत् । हनूमन्तं प्रमुखे

v3.c22.s4.t4.21

धरं सुवर्णवर्णं श्यामाम्बरधरं समभङ्गान्वितं कारयेत् । हनूमन्तं प्रमुखे किंचिद् दक्षिणमाश्रित्य स्थितं देवस्य स्तनान्तं नाभ्यन्तर्मूलान्तं वा सप्ततालमितं द्विभुजं दक्षिणेन हस्तेनास्यं१ वामेन स्ववस्त्रं च पिधानं२ किंचिद्वर्ध्वाननं कारयेत् ।

v3.c22.s4.t4.22

(वैखानसागमे ॥)

v3.c22.s4.t4.23

रामश्चापी शरी खड्गी शङ्खी वा द्विभुजस्मृतः ।

v3.c22.s4.t4.24

(अग्निपु० ४९ अ० ॥)

v3.c22.s4.t4.25

रामो दाशरथिः कार्यो राजलक्षणलालितः । भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाशयाः ॥ तथैव सर्वे कर्तव्याः किं तु मौलिविवर्जिताः ।

v3.c22.s4.t4.26

(विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t4.27

रामश्शरेषुधृक्छ्यामः ससीरमुसलो बलः ।

v3.c22.s4.t4.28

(रूपमण्डने ॥)

v3.c22.s4.t4.29

आग्नेये राघवं पश्चिमाभिमुखमुत्तराभिमुखं वा३ श्यामाभो रक्ताम्बरो मुकुटादिसर्वाभरणसंयुक्तः श्रीवत्साङ्को द्विभुजो दक्षिण इषु-

v3.c22.s4.t4.30

किंचिदक्षिणमाश्रित्य देवस्य स्तनान्तं वोदय सप्ततालवेदाधिकाशीतिमात्रं द्विभुजं दीनसूर्ध्वाननं दक्षिणेनास्यं पिधाय वामहस्तेन स्वपादान्तं निगृह्य तद्विपरीतं जानुमध्यमाकर्णस्थितं कपिराजं कारयेत् ।’ इत्यादशान्तरे दृश्यते ।

v3.c22.s4.t4.31

१. हस्तेनास्यमियतेदनन्तरं पिधानमिति भवितव्यम् । २. दधानमितिस्यात् । ३. एतादृशस्थलेषु यथायोग्यं ‘कारयेत् । स’ इत्यध्याहार्यम् ।

v3.c22.s4.t4.32

धरो वामे धनुरलम्ब्य त्रिभङ्गसंस्थितो माघमासे पुनर्वसूजातस्सीतापति रथान्यत्सर्वमादिमूर्तेरिव, रामो१ दाशरथिं वीरं काकुत्स्थमिति ।

v3.c22.s4.t4.33

तस्य दक्षिणे सीता हेमाभा शुक्राम्बरा वामे पद्मधरी दक्षिणहस्तप्रसारिता दक्षिणं स्थितं वाममाकुञ्च्य पादमुद्धन्धकौटिकौन्तलं२ करण्डिकामकुटसंयुक्ता वा सीतायक्षरबीजान्त्यसर्वं ३श्रिमिव, सीतामयोनिजां लक्ष्मीं वैदेहीमिति ।

v3.c22.s4.t4.34

वामे सौमित्रिं रक्ताभं श्यामाम्बरं द्विभुजो रामवत्त्रिभङ्गस्थितश्चापधरश्चोद्धन्धकौन्तलयुतो वैशाखे रोहिणीजातो लक्षाद्यक्षरबीजोऽन्यत्सर्वं रामवत्, सौमित्रिं रामानुजं लक्ष्मणं लक्ष्मीवर्धनमिति ।

v3.c22.s4.t4.35

दक्षिणे भरतश्श्यामाभो रक्ताम्बरोद्धन्धकौन्तलयुतश्शरचापखड्गखेटकधरो द्विभुजस्त्रिभङ्गस्थितश्चैत्रे स्वात्युद्भवो मलेशो भगाद्यक्षरबीजः श्रीवत्सकौस्तुभोऽन्यत्सर्वं रामवत्, भरतं कैकेयीसुतं रामानुजं धर्मचारिणमिति ।

v3.c22.s4.t4.36

वामे शत्रुघ्नो हेमाभो रक्ताम्बरोद्धन्धकौन्तलयुतो ज्येष्ठमासे धनिष्ठाजातो नामाद्यक्षरबीजो निर्मलेशोऽन्यत्सर्वं लक्ष्मणवत्, शत्रुघ्नं रामप्रियं विजयं भरतानुजमिति ।

v3.c22.s4.t4.37

१. राममिति भवितव्यम् । २. ‘उद्धद्धकुटिलकुन्तले’ ति भवितव्यम् ।
३. श्रिय इवेति भवितव्यम् ।

v3.c22.s4.t4.38

दक्षिणे पुरतोऽजनाभः श्वेतवस्त्रधरः कपिरूपस्सर्वाभरणभूषितो द्विभुजो दक्षिणेनास्यं पिधाय वामेन वस्त्रं विधायावनतगात्रस्सीताया वार्ताविज्ञापनपरो मृगवाहनो दण्डध्वजो महानादरवः श्रावणे मासि श्रवणजः कलायक्षरबीजो हनूमन्तः१ कपिराजं हनूमन्तं शब्दराशिं महामतिमिति ।

v3.c22.s4.t4.39

दक्षिणे शरं नपुंसकं श्यामाभं श्वेताम्बरं त्रिनेत्रं रौद्रसमुद्घो-षरवं वायुवाहनं पक्षध्वजं शिरसि शरभृतं माघमासे वारुण्यजातं२ शराद्यक्षरबाजं शरं महारवममोघं तीक्ष्णधारमिति ।

v3.c22.s4.t4.40

वामे . . . . . श्वेताभो रक्ताम्बरो . . . . . क्तवदना द्विभुजः प्राञ्जलीकृतः३ पादावनतियुक्तो मृगध्वजवाहनो वैशाख आइलेषजो मेघरव . . . . . बलमर्तु . . . . . कृष्णवर्णो रक्तकेशश्शसदंष्ट्रिणो (?) द्विभुजं शूलधरो हृदयेऽञ्जलि-संयुक्तो मूलजातो मेघवाहनो . . . . . विभीषणं राक्षस . . . . . मनस्कं राम प्रियमिति ।

v3.c22.s4.t4.41

¹ हनूमानिति भवितव्यम् ।

v3.c22.s4.t4.42

² वारुणीजातमिति भवितव्यम् ।

v3.c22.s4.t4.43

³ प्राञ्जलीकृतहस्त इति भवितव्यम् ।

v3.c22.s4.t4.44

अभिमुखेऽङ्गदश्वेताभो रक्ताम्बरो रक्तवत्तो द्विभुजः प्राञ्जली- कृतः१ पादावनत . . . . . रोहिणीजातस्तुङ्गायक्षरबीजोऽङ्गदं२ वालिपुत्रं रामभक्तं देवप्रियमिति । (वैखानसागम एकविंशपटले ॥)

बलभद्ररामः ।

v3.c22.s4.t5.1

अथ बलभद्ररामं मध्यमं३ दशतालमिति द्विभुजं विनतं दाक्षि- णहस्तेन मुसलधरं वामेन हलधरं श्वेताभं रक्तवस्त्रधरमुद्धकुन्तलं दक्षिणे रेवतीं देवीं पद्मकिञ्जल्कवर्णां पुष्पाम्बरधरां दक्षिणेन हस्तेन पद्मधरां प्रसारितवामहस्तामेवं कारयेत् । तद्रूपं कौतुकं विष्णुं चतुर्भुजं वा कारयेत् ।

v3.c22.s4.t5.2

(वैखानसागमे ॥)

v3.c22.s4.t5.3

बलदेवो हलपाणिर्मदविभ्रमलोचनश्च कर्तव्यः ।
बिभ्रत्कुण्डलमेकं शङ्खेन्दुमृणालगौरवपुः ॥
एकोनांशा कार्या देवी बलदेवकृष्णयोर्मध्ये ।
कटिसंस्थितवामकरा सरोजमितरेण चोद्वहती ॥
कार्या चतुर्भुजा सा वामकराभ्यां सपुस्तकं कमलम् ।
द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च ॥

v3.c22.s4.t5.4

¹ 'प्राञ्जलीकृतहस्त' इति भवितव्यम् ।

v3.c22.s4.t5.5

² 'स्त्वङ्गायक्षरबीज' इति स्यात् ।

v3.c22.s4.t5.6

³ 'मध्यमदशतालमिति 'मिति भवितव्यम् ।

v3.c22.s4.t5.7

वामेष्वष्टभुजायाः कमण्डलुश्रपमम्बुजं शास्त्रम् । वरशरदर्पणयुक्तास्सव्यभुजास्साक्षसूत्राश्च ॥ (बृहत्संहितायामष्टपञ्चाशत्तमाध्याये ॥)

v3.c22.s4.t5.8

गदालाङ्गलधारी च रामो वाथ चतुर्भुजः । वामोर्ध्वे लाङ्गलं दद्यादधश्शस्त्रं सुशोभनम् ॥ (अग्निपु० ४९ अ० ॥)

v3.c22.s4.t5.9

सीरपाणिर्बलः कार्यो मुसली चैव कुण्डली । श्वेतोऽतिनीलवसनो मदोद्ध्विललोचनः ॥ (विष्णुधर्मोत्तरे ॥)

कृष्णः ।

v3.c22.s4.t6.1

कृष्णस्य लक्षणं वक्ष्ये । मध्यमं¹ दशतालमितिं सविंशतिशताङ्गुल² द्विभुजं श्यामाभं रक्तवस्त्रधरं सर्वाभरणभूषितं ³किरीटिनमुद्धकुन्तलं वा⁴ दक्षिणेन⁵ हस्तेन क्रीडाष्टिधरं वामोद्यतकरकूर्परहिक्कासूत्रदध-

v3.c22.s4.t6.2

१. मध्यमदशालेति भवितव्यम् । २. एतद्विशेषणमन्यतरादर्श न ।
३. एततपदमन्यतरादर्श न । ४. एतदन्यतरादर्श न । ५. दक्षिणेनेत्यारभ्य मार्गेणेत्यन्तस्य स्थाने 'दक्षिणेन हस्तेन दक्षिणकरकटाग्रं नाभिदघ्नं वा तस्मात् . . . . . अन्यत्सर्वं राघवस्योक्तवत् ।' इत्यवमन्यतरा- दर्श दृश्यते ।

v3.c22.s4.t6.3

स्तादथोर्ध्वकरमन्यत्सर्वं राघवस्योक्तमार्गेण । दक्षिणे रुक्मिणीं देवीं हेमाभां धम्मिल्लकुन्तलयुतामुद्धद्धकुन्तलां१ वा प्रसारितदक्षिणहस्तां सपद्मवामहस्तां तथा वामपार्श्वे सत्यभामां श्यामामां २शिरोरुहबन्ध-धम्मिल्लयुतामुद्धद्धकुन्तलयुतां३ वा४ सोत्पलदक्षिणहस्तां प्रसारितवामहस्तां सर्वाभरणसंयुक्तां कारयेत् । देवीभ्यां५ करण्डिकमुकुटं वेति केचित् । देवस्य वामपार्श्वे गरुडं प्राञ्जलीकृत्य सुस्थितं कारयेत् । देवस्य दक्षिणहस्तं लीलयष्टिधृतं वामं६ सशङ्खं वा कारयेत् । तद्रूपं कौतुकं विष्णुं चतुर्भुजं वा कारयेत् ।

v3.c22.s4.t6.4

(वैखानसागमे ॥)

v3.c22.s4.t6.5

कृष्णश्चक्रधरः कार्यो नीलोत्पलदलच्छविः । इन्दीवरधरा कार्या तस्य साक्षाच्च रुक्मिणी ॥

v3.c22.s4.t6.6

(विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t6.7

१. धम्मिल्लेत्यारभ्य सपद्मवामहस्तामित्यन्तस्य स्थाने ‘शिरोरुहधम्मिल्लयुतामुद्धन्धकौन्तलां वामहस्तं दक्षिणं प्रसार्य वामं पद्मे’त्यन्यतरादर्श दृश्यते । २. धम्मिल्लकुन्तलयुतामिति पाठान्तरम् । ३. एतदन्यतरादर्श न । ४. वेत्यारभ्य कारयेदित्यन्तस्य स्थाने ‘वामहस्तं दक्षिणं सपुष्पं वामं प्रसार्य किंचिदेवं समीक्ष्य सर्वाभरणसंयुक्तां कारयती’ त्येमन्यतरादर्श विद्यते । ५. देवीभ्यामित्यारभ्य देवस्येत्यन्तमन्यतरादर्श न । ६. ‘वामोतकूर्परं सशङ्खं वे’ति पाठान्तरम् ।

v3.c22.s4.t6.8

नवनीतनटः ।

v3.c22.s4.t6.9

नवनीतनटस्य वामपादमाकुञ्च्य१ स्थितं दक्षिणमुत्तानकुञ्चितं दक्षिणहस्तमभयं २ नवनीतयुतं वा ३ वामं प्रसार्योत्तानं ४ सर्वाभरणभूषितमम्बरहीनमम्बरधरायुतं५ नवनीतनृत्तरूपं कारयेत् ।

v3.c22.s4.t6.10

वेणुगोपालः ।

v3.c22.s4.t6.11

गोपीगोपगोकन्याभिः परिवृतं दक्षिणं सत्ययोद्यतपादं वामं सुस्थितमाहृत्य६ द्विहस्ताभ्यामाङ्गलीषु वेणुविवरान्संयोज्य त्रिभङ्गभङ्गान-रससमन्वित७ गोपालं गायकम् ।

v3.c22.s4.t6.12

(वैखानसागमे ॥)

v3.c22.s4.t6.13

गोपालप्रतिमां कुर्याद्वेणुवादनतत्पराम् । बर्हपीडां घनश्यामां द्विभुजामूर्ध्वसंस्थिताम् ॥

v3.c22.s4.t6.14

(विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t6.15

पार्थसारथिः ।

v3.c22.s4.t6.16

रतारूढं ध्वजाश्वचक्रमुकुलादिरथायुक्तं रथं कृत्वा पार्थं सचापं प्राञ्जलीकृत्याधस्थले स्थितं चोपरि यत्र८ यष्टिपाशौ गृहीत्वा

v3.c22.s4.t6.17

१. किञ्चित्संस्थितमिति पाठान्तरम् । २. ‘दक्षिणमभी’ति पाठान्तरम् । ३. एतदादर्शान्तरे न । ४. प्रसार्याणुत्तानामिति पाठान्तरम् । ५. ‘अम्बराधारयुत’मिति पाठान्तरम् । किं तु ‘अम्बरधरं वे’ति स्यात् । ६. एतत्पदात्पूर्व ‘वेणु’ मिति स्यात् । ७. ‘विभङ्गभङ्गि’मिति स्यात् । ८. ‘यन्त्रयष्टिपाशा’विति स्यात् ।

v3.c22.s4.t6.18

प्रातिमालक्षणानि ।

v3.c22.s4.t6.19

दक्षपादं स्थितं वाममुद्धृत्य रथभित्तौ संस्थाप्य दक्षिणहस्तेन व्याख्यान-निर्णयाङ्गुलिमुद्रया संयुक्तं पार्थसारथिरूपं कारयेत् ।

v3.c22.s4.t6.20

मदनगोपालः ।

v3.c22.s4.t6.21

रक्तवर्णो दशभुजस्सर्वालङ्कारभूषितः ।
शङ्खचक्रगदापद्मपाशाङ्कुशसुमाशুগान् ॥
इक्षुकोदण्डमन्याभ्यां वादयन्वेणुमादरात् ।
षोडशच्छदपद्मस्थषट्कोणोपरि संस्थितः ॥
गोपाले मदनारव्योऽयं मन्दस्मितमुखाम्बुजः ।
स्वरपत्रस्थगोपीभिरादरादीक्षितोऽवतात् ॥

v3.c22.s4.t6.22

(पाञ्चरात्रे ॥)

v3.c22.s4.t6.23

कालियाहिमर्दकः ।

v3.c22.s4.t6.24

एवमेव कालियाहिफणोपरि स्थितं दक्षिणहस्तं सप्ताकं वामकरेणाहिपुच्छं संगृह्य नृत्यन्तं कारयेत् । कृष्णरूपाण्यसंख्यानि वक्तुं न शक्यानि ; तस्माद्यथेष्टरूपं कारयेत् ।

v3.c22.s4.t6.25

बुद्धः ।

v3.c22.s4.t6.26

पद्माङ्कितकरचरणः प्रसन्नमूर्तिसुनीचकेशश्च ।
पद्मासनोपविष्टः पितेव जगतो भवेद्बुद्धः ॥

v3.c22.s4.t6.27

(बृहत्संहितायामष्टपञ्चाशत्तमाध्याये ॥)

v3.c22.s4.t6.28

शान्तात्मा लम्बकर्णश्च गौराङ्गश्चाम्बरा वृतः ।
ऊर्ध्वपद्मस्थितो बुद्धो वरदाभयदायकः ॥

v3.c22.s4.t6.29

(अग्निपु० ४९ अ० ॥)

v3.c22.s4.t6.30

काषायवस्त्रसंवीतस्कन्धसंसक्तचीवरः । पद्मासनस्थो द्विभुजो ध्यायी बुद्धः प्रकीर्तितः ॥ (विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t6.31

बुद्धः पद्मासनो रक्तस्त्यक्ताभरणमूर्धजः । कषायवस्त्रो ध्यानस्थो द्विभुजोकार्द्रपाणिकः (?) ॥ (रूपमण्डने ॥)

कल्की ।

v3.c22.s4.t7.1

कल्किनं¹ मध्यमं² दशातालमितमश्वाकारं मुखमन्यन्तराकारं चतुर्भुजं चक्रशङ्खधरं खड्गखेटकधरमुग्ररूपं भयानकमेवं देवरूपं कृत्वा कौतुकं विष्णुं चतुर्भुजमेव कारयेत् । (वैखानसागमे ॥)

v3.c22.s4.t7.2

¹ कल्किनमित्यारभ्य मुखमन्यादित्येतत्पर्यन्तमन्तरादर्श न ।

v3.c22.s4.t7.3

² 'मध्य- मदशतालमित'मिति भवितव्यम् ।

v3.c22.s4.t7.4

धनुस्तूणान्वितः कल्की म्लेच्छोत्सादकरो द्विजः । अथवाश्वस्थितः खड्गी शङ्खचक्रशरान्वितः ॥ (अग्निपु० ४९ अ० ॥)

v3.c22.s4.t7.5

खड्गोद्यतकरः क्रुद्धो हयारूढो महाबलः । म्लेच्छोच्छेदकरः कल्की द्विभुजः परिकीर्तितः ॥ (विष्णुधर्मोत्तरे ॥)

v3.c22.s4.t7.6

कल्की सखड्गोऽश्वारूढो हरेरवतरा इमे । (रूपमण्डने ॥)

Cites (5)