Elements of Hindu Iconography v3.c22.s6: गरुडः ।
Elements of Hindu Iconography v3.c22.s6
- Language
- English
गरुडः ।
v3.c22.s6.1
ताक्ष्र्यो मरकतप्रभ्यः कौशिकाकारनासिकः । चतुर्भुजस्तु कर्तव्यो वृत्तनेत्रमुखस्तथा ॥
v3.c22.s6.2
गृध्रोरुजानुचरणः पक्षद्वयविभूषितः । प्रभासंस्थानसौवर्णकलापेन विराजितः ॥
v3.c22.s6.3
छत्रं तु पूर्णकुम्भं च करयोस्तस्य कारयेत् । करद्वयं तु कर्तव्यं तथा विरचिताञ्जलि ॥
v3.c22.s6.4
यदास्य भगवान्पृष्ठे छत्रकुम्भधरौ करौ । न कर्तव्यौ तु कर्तव्यौ देवपादधरौ शुभौ ॥
v3.c22.s6.5
किंचिल्लम्बोदरः कार्यस्सर्वाभरणभूषितः ।
v3.c22.s6.6
(विष्णुधर्मोत्तरे ॥)
v3.c22.s6.7
उपेन्द्रस्याग्रतः पक्षी गुडाकेशः कृताञ्जलिः । सव्यजानुगतो भूमौ मूर्ध्ना च फणिमण्डितः ॥
v3.c22.s6.8
स्थूलजङ्घो नरग्रीवस्तुङ्गनासो नराङ्कः । द्विबाहुः पक्षयुक्तश्च कर्तव्यो विनतासुतः ॥
v3.c22.s6.9
(श्रीतत्त्वनिधौ ॥)
v3.c22.s6.10
आजानूत्तसहेमप्रभमथ [च*] हिमप्रभ्यमानाभि साक्षा- दाकण्ठात्कुङ्कुमाभं भ्रमरकुलसमश्यामलं मूर्ध्नि शान्तम् ।
v3.c22.s6.11
व्याप्तब्रह्माण्डगर्भं द्विभुजमभयदं पिङ्गनेत्रोग्रतारं ताक्ष्र्यं नीलाग्रनासयुतिविविधमहापक्षलक्ष्यं नमामि ॥
v3.c22.s6.12
पालादेवो¹ गरुत्मानमृतघटगदाशङ्खचक्रसिनागा- न्बिभ्राणः कृष्णपादो निजकरकमलैरष्टभिस्स्वर्णवर्णः । पापघ्नैः पक्षपातैरखिलविषहरैरश्रितातिर्नवृत्तः: श्रीमान्वा पन्नगारिस्सकलविषभयाद्वत्नजालोज्वलाङ्गः ॥
v3.c22.s6.13
¹ ‘पायाद्देवो’ इति स्यात् ।
v3.c22.s6.14
(शिल्परत्ने ॥)
Cites (3)
- Viṣṇudharmottarapurāṇa — Sanskrit
- Tattvanidhi — Kṛṣṇarāja III, Sanskrit
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit