Elements of Hindu Iconography v3.c22.s7: आयुधपुरुषाः ।
Elements of Hindu Iconography v3.c22.s7
- Language
- English
आयुधपुरुषाः ।
v3.c22.s7.1
आयुधपुरुषाः ।
v3.c22.s7.2
आयुधपुरुषाः ।
v3.c22.s7.3
दशायुधप्रतिष्ठां तु वक्ष्ये लक्षणपूर्वकम् । वज्रं शक्तिं¹ च दण्डं च खड्गं पाशं तथाङ्कुशम् ॥
v3.c22.s7.4
¹ शक्तिश्चेति भवितव्यम् ।
v3.c22.s7.5
गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् । एकवक्त्रं द्विनेत्रं च करण्डमकुटान्वितम् ॥
v3.c22.s7.6
कृताञ्जलिपुटोपेतं द्विबाहुं सर्वलक्षणम् । प्रतिमालक्षणप्रोक्तमानेनैव समाचरेत् ॥
v3.c22.s7.7
जाये शक्तिगदे ज्ञेये चक्रपद्मे नपुंसके । शेषाः पुमांसो विज्ञेयास्त्वष्टतालविनिर्मिताः ॥
v3.c22.s7.8
स्वमूर्तायुधसंयुक्तास्स्वक्रिया²देकताळतः । तालाष्टांशविवृद्ध्या तु चतुस्तालावसानकम् ॥
v3.c22.s7.9
² स्वकीयादिति भवितव्यम् ।
v3.c22.s7.10
कल्पयेदायधं विद्वान्स्वर्गोक्तमार्गताः । तेषां मूर्न्यायुधं कार्यमथवा मकुटोपरि ॥
v3.c22.s7.11
हस्तयोरन्तरे वापि वामेतरकरेऽपि वा । परित्यज्याङ्कुशं यद्वा तत्स्थाने कल्पयेद्ध्वजम् ॥ (उत्तरकामिकागमे अष्टषष्टिमपटले ॥)
v3.c22.s7.12
शक्तिस्तु योषिदाकारा लोहिताङ्गी वृकाश्रिता । दण्डोऽपि पुरुषः कृष्णो घोरो लोहितलोचनः ॥ खड्गश्च पुरुषश्यामशरीरः कुद्धलोचनः । पाशस्तत्फणसर्पपुरुषः पुच्छसंयुतः ॥ ध्वजस्तु पुरुषः पीतो व्यावृतास्यो महाबलः । गदा पीतप्रभा कन्या सुपीनजघनस्थला ॥ त्रिशूलं पुरुषो दिव्यस्सुभ्रश्याम कलेबरः । शङ्खोऽपि पुरुषो दिव्यश्शुक्लाङ्गश्शुभलोचनः ॥ हेतिर्बहुतिथी(?) सा स्त्री भिन्दिश्श्यामतनुः पुमान् । शरस्त्यात्पुरुषो दिव्यो रक्ताङ्गो दिव्यलोचनः ॥ धनुस्त्री पद्मरक्ताभा मूर्ध्नि पूरितचापभृत् । एवमस्त्राणि पूतानि जानीयात्परमेश्वरे ॥ उक्तानां चैव सर्वेषां मूर्ध्नि स्वायुधलाञ्छनम् । भुजौ द्वौ तु प्रकर्तव्यौ स्कन्द्लग्नौ१ सदा बुधैः ॥ (विष्णुधर्मोत्तरे ॥)
v3.c22.s7.13
¹ स्कन्धलग्नमिति भवितव्यम् ।
v3.c22.s7.14
वज्रं शक्तिं१ च दण्डं च खड्गं पाशं तथाङ्कुशम् । गदा त्रिशूलं चक्रं च पद्मं चेति दशायुधम् ॥ द्विभुजाश्च द्विनेत्राश्च सर्वाभरणसंयुताः । कृताञ्जलिपुटोपेताः करण्डमकुटान्विताः ॥ तत्तद्वक्त्रप्रमाणेन अस्त्रमूर्तिसमन्विताः । नानावर्णसमायुक्तं नीलजीमूतवर्णकम् ॥ नीलकं पद्मरागं च तुषारं चेन्द्रनीलकम् । शारदाभ्रं च रक्तं च वज्रादीनां तु वर्णकम् ॥ जाया२ शक्तिगदा विद्यात्पाशपद्मे नपुंसके । शेषाः पुमानिति ख्याताः कीर्तितास्त्वस्त्रमूर्तयः ॥
v3.c22.s7.15
(पूर्वकारणागमे चतुर्दशपटले ॥)
v3.c22.s7.16
सुदर्शनपुरुषः ।
v3.c22.s7.17
चक्रं शङ्खं च चापं परशुमसिमिषुं शूलपाशाङ्कुशाग्निं बिभ्राणं खड्गखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् । ज्वालाकेशं त्रिनेत्रं कनक मयलसद्गात्रमत्युग्ररूपं वन्दे षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥
v3.c22.s7.18
(शिल्परत्ने ॥)
v3.c22.s7.19
१. शक्तिश्चेति भवितव्यम् । २. जाये शक्तिगदे इति भवितव्यम् ।
v3.c22.s7.20
ज्योतिश्चूडामौलित्रिनयनवदनषोडशोत्तुङ्गबाहुः प्रत्यालीढेन तिष्ठन्प्रणवशधराधारषट्कोणवर्ती । निस्सीमेन स्वभूम्ना निखिलमपि जगत्क्षेमवन्निर्मामाणे भूयात्सौदर्शनो वः प्रतिभटपरुषः पूरुषः पौरुषाय ॥ ७५ ॥
v3.c22.s7.21
उग्रंप्रश्याक्षमुद्यद्भुकुटि समकुटं कुण्डलि स्पष्टदंष्ट्रं चण्डास्त्रैर्बाहूदण्डैर्लसदनलसमक्षौमलक्ष्योरुकाण्डम् । प्रत्यालीढस्थपादं प्रथयतु भवतां पालनव्यग्रमग्रे चक्रेशोऽकालकालेरितभटविकटाटोपलोपाय रूपम् ॥ ७९ ॥
v3.c22.s7.22
चक्रं कुन्तं कृपाणं परशुहुतवहावङ्कुशं दण्डशक्ती शङ्खं कोदण्डपाशौ हलमुसलगदा वज्रशूलांश्च हेतीन् । दोर्भिस्सं व्यापसव्यैर्दधदतुलबलस्तम्भितारातिदर्पै- र्व्यूहस्तेजोऽभिमानी नरकविजयिनो जृम्भतां संपदे वः ॥८०॥
v3.c22.s7.23
(सुदर्शनशतके ॥)
Cites (3)
- Viṣṇudharmottarapurāṇa — Sanskrit
- Sudarśanaśataka — Kūranārāyaṇa, Sanskrit
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit