Pramāṇa · Search · About · API

Elements of Hindu Iconography v3.c22.s9.t2: चण्डिका ।

Elements of Hindu Iconography v3.c22.s9.t2

Language
English

चण्डिका ।

v3.c22.s9.t2.1

निगद्यते ह्यथो चण्डी हेमाभा सा सुरूपिणी । त्रिनेत्रा यौवनस्था च क्रुद्धा चोर्ध्वस्थिता मता ॥

v3.c22.s9.t2.2

कृशमध्या विशालाक्षी चारुपीनपयोधरा । एकवक्त्रा तु सुग्रीवा बाहुविंशतिसंयुता ॥

v3.c22.s9.t2.3

शूलासिशङ्खचक्राणि बाणशक्तिपवीनपि । अभयं डमरुं चैव छत्रिकां दक्षिणे करे ॥

v3.c22.s9.t2.4

ऊर्ध्वादिक्रमयोगेन बिभ्रती सा सदा शुभा । नागं पाशं तथा खेटं कुठाराङ्कुशकार्मुकम् ॥

v3.c22.s9.t2.5

घण्टाध्वजदादर्शं मुद्गरं वाम एव च । तदधो महिषश्छिन्नमूर्धा पतितमस्तकः ॥

v3.c22.s9.t2.6

शस्त्रोद्यतकरस्तब्धस्तद्ग्रीवासंभवः पुमान् । शूलभिन्नो वमद्रक्तो रक्तभूमूर्धजेक्षणः ॥

v3.c22.s9.t2.7

सिंहेन खाद्यमानश्च पाशबद्धो गले भृशम् । याम्याङ्घ्याक्रान्तसिंहा च सव्याङ्घ्यालीढगासुरे ॥

v3.c22.s9.t2.8

चण्डी चोद्यतशस्त्रेयं चाशेषरिपुनाशिनी ।

v3.c22.s9.t2.9

चण्डिका श्वेतवर्णा सा शिवरूपा च सिंहगा१ । जटिला वर्त्तुलत्र्यक्षा वरदा शूलधारिणी ॥

v3.c22.s9.t2.10

कर्त्रिकां बिभ्रती दक्षे पाशपात्राभयान्विता२ ।

v3.c22.s9.t2.11

(नृसिंहप्रासादे ॥)

v3.c22.s9.t2.12

गोधासनाद्वेद्गौरी लीलया (?) हंसवाहना । सिंहारूढा भवेद्दुर्गा मातरस्त्वस्ववाहनाः ॥

v3.c22.s9.t2.13

चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । रक्ताक्षी भग्ननेत्रा च निर्मांसा विकृतानना ॥

v3.c22.s9.t2.14

व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता । कपालमालिनी कृष्णा शवारूढा भयावहा ॥

v3.c22.s9.t2.15

त्रिशूलं खेटकं खङ्गं धनुः पाशाङ्कुशे शरः । कुठरो३ दर्पणं घण्टा शङ्खचक्रं गदा पविः ॥

v3.c22.s9.t2.16

दण्डो मुद्ग्रह४ इत्येतैर्यथास्थानायुधैर्युता । बाहुषोडशसंयुक्ता चण्डमुण्डविघातिनी ॥

v3.c22.s9.t2.17

१. ‘स्याच्छवारूढा च षड्भुजे’ ति विष्णुधर्मोत्तरपाठः । २. ‘वर्णिकां बिभ्रती दक्षे पानपात्राभयान्वतः’ इति विष्णुधर्मोत्तरपाठः । ३. कुठार इति स्यात् । ४. मुद्गर इति स्यात् ।

v3.c22.s9.t2.18

चण्डिकाप्रतीहाराः ।

v3.c22.s9.t2.19

चण्डिकायाः प्रतीहारान्कथयिष्याम्यनुक्रमात् । वेतालः करटश्चैव पिङ्गाक्षो भुकुटस्तथा ॥

v3.c22.s9.t2.20

धूम्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः । दंष्ट्रानविकटास्यास्सफुरदशनोद्धुलाः ॥

v3.c22.s9.t2.21

बर्बरा कृष्णदेहाश्च रक्ताश्च सु महाबलाः । तर्जनी चैव खट्वाङ्गमुर्ध्वं डमरुदण्डकौ ॥

v3.c22.s9.t2.22

वेतालस्तु समाख्यातोऽपसव्ये करटः पुनः । अभयं खड्गखेटं च दण्डं पिङ्गललोचनः ॥

v3.c22.s9.t2.23

वामापसव्ययोगेन भवेद्भुकुटिनामके । तर्जनी वज्राङ्कुशे च दण्डं धूम्रक ईरितः ॥

v3.c22.s9.t2.24

सव्यापसव्ययोगेदं भवेत्कङ्कदनामकः । तर्जनी च त्रिशूलं च खट्वाङ्गं दण्ड एव च ॥

v3.c22.s9.t2.25

रक्ताक्षो नामभेदेन वामे दक्षे त्रिलोचनः(?) । दिग्द्वारपक्षयुग्मे च प्रशस्ता विघ्ननाशकाः ॥

v3.c22.s9.t2.26

(रूपमण्डने ॥)

v3.c22.s9.t2.27

नव दुर्गाः ।

v3.c22.s9.t2.28

नवपद्मान्विते स्थाने पूज्या दुर्गास्वमूर्तितः । आदौ मध्ये तथेन्द्रादौ नवतत्त्वाक्षरैः क्रमात् ॥

v3.c22.s9.t2.29

अष्टादशभुजैका तु पीनवक्षोरुहोरुहा १ । सर्वालङ्कारसंयुक्ता सर्वसिद्धिप्रदायिनी ॥

v3.c22.s9.t2.30

मूर्धजं खेटकं घण्टामादर्शं तर्जनीं धनुः । ध्वजं डमरुकं पाशं बिभ्रती वामपाणिभिः ॥

v3.c22.s9.t2.31

शक्तिमुद्गरशूलानि वज्रं शङ्खमथाङ्कुशम् २ । शलाकां मार्गणं चक्रं दधाना दक्षिणैः करैः ॥

v3.c22.s9.t2.32

जयमिच्छद्भिरित्येताः पूजनीया महात्मभिः । शेषाषोडशहस्ताश्च शलाकां मार्गणं विना ३ ॥

v3.c22.s9.t2.33

रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥

v3.c22.s9.t2.34

नवमी चोग्रचण्डा च मध्यस्था वह्निसन्निभा । रोचनाभारुणा कृष्णा नीला शुक्ला च धूम्रिका ॥

v3.c22.s9.t2.35

पीता च पाण्डुरा ज्ञेया आलीढस्था हरिस्थिता ४ । महिषस्था सशस्त्रीका दैत्यमूर्धजमुष्टिका ॥

v3.c22.s9.t2.36

पद्माकृतिरवस्थाप्या इत्युक्तं स्कन्दयामले ।

v3.c22.s9.t2.37

(भविष्यपुराणे ॥)

v3.c22.s9.t2.38

¹ ‘वक्षोभुजोरुके’ति कारणागमपाठः ।

v3.c22.s9.t2.39

² ‘शङ्खमथाम्बुज’ मिति कारणागमपाठः ।

v3.c22.s9.t2.40

³ ‘शरं डमरुकं विने’ति कारणागमपाठः ।

v3.c22.s9.t2.41

⁴ ‘हरिद्वता’ इति कारणागमपाठः ।

Cites (3)