Pramāṇa · Search · About · API

Elements of Hindu Iconography v4.c36.s10: सदाशिवादिमूर्तयः ।

Elements of Hindu Iconography v4.c36.s10

Language
English

Contents

सदाशिवादिमूर्तयः ।

v4.c36.s10.1

सदाशिवादिमूर्तयः ।

v4.c36.s10.2

सदाशिवः ।

v4.c36.s10.3

सदेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् । द्रव्यैःशिलादिभिः कुर्यात्पूर्वोकैस्तं विशेषतः ॥

v4.c36.s10.4

बद्धपद्मासनं श्वेतं स्थितं पञ्चास्यसंयुतम् । पिङ्गलाभजटाचूडं (जूटं ?) दशदोर्दण्डमण्डितम् ॥

v4.c36.s10.5

अभयं च प्रसादं च तथा शक्तिं त्रिशूलकम् । खट्वाङ्गं दक्षभागस्थैर्वहन्तं करपल्लवैः ॥

v4.c36.s10.6

भुजङ्गं चाक्षमालां च डमरुं नीलपङ्कजम् । बीजापूरं(बीजपूरं ?) च वामस्थैर्वहन्तं सुप्रसन्नकम् ॥

v4.c36.s10.7

अर्चनाथायसंसिद्धध्यानान्तरयुतं तु वा । इच्छाज्ञानक्रियाशक्तित्रयसंकृतलोचनम् ॥

v4.c36.s10.8

ज्ञानचन्द्रकलायुक्तं कलावर्षोपलक्षितम् । ब्रह्मसूत्रादिकं कार्यं सुवेशः प्रतिमोदितम् ॥

v4.c36.s10.9

एवं सदाशिवः कार्यो मनोन्मन्या समन्वितः ।

v4.c36.s10.10

(उत्तरकामिकागमे त्रिचत्वारिंशत्तमपटले ॥)

महासदाशिवमूर्तिः ।

v4.c36.s10.t1.1

प्रसन्नपञ्चविंशत्स्फुटाननं जटाधरं
सुपन्नसप्ततीक्षणं कपोलकुण्डलाङ्कितम् ।
शतार्धहस्तभूषितं वराभयान्वितं सितं
भुजङ्गभूषणं परं भजे महासदाशिवम् ॥
(मानसारे ॥)

ईशानादयः ।

v4.c36.s10.t2.1

ईशतत्पुरुषाघोरवामजात्क्रमेण तु ।
सितपीतकृष्णरक्ताश्चतुर्वर्णाः प्रकीर्तिताः ॥
पञ्चवक्त्रास्मतास्सर्वे दशदोर्दण्डभूषिताः ।
खड्गखेटधनुर्बाणकमण्डल्वक्षसूत्रिणः ॥
वराभयकरोपेताशूलङ्कजपाणयः ।
(विष्णुधर्मोत्तरे ॥)

v4.c36.s10.t2.2

ईशानः ।

v4.c36.s10.t2.3

शुद्धस्फटिकसङ्काशो जटाचन्द्रविभूषितः ।
अक्षत्रिशूलहस्तश्च कपालं वामतोऽभयम् ॥
(रूपमण्डने ॥)

v4.c36.s10.t2.4

वेदाभयेष्टाङ्कुशपाशटङ्ककपालढाक्षकशूलपाणिः ।
सितद्युतिः पञ्चमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाशः ॥
(शैवे कारणागमे ॥)

v4.c36.s10.t2.5

तत्पुरुषः ।

v4.c36.s10.t2.6

पीताम्बरस्तत्पुरुषः पीतयज्ञोपवीतवान् । मातुलिङ्गं करे वामेऽक्षमाला दक्षिणे तथा ॥ (रूपमण्डने ॥)

v4.c36.s10.t2.7

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः । चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्त्रम् ॥ (शैवे कारणागमे ॥)

v4.c36.s10.t2.8

अघोरः ।

v4.c36.s10.t2.9

दंष्ट्रकरालवदनं सर्पशीर्ष त्रिलोचनम् । रुण्डमालाधरं देवं सर्पकुण्डलमाण्डिताम् ॥ भुजङ्गकेयूरधरं सर्पहारोपवीतिनम् । यो वस्ते कटिसूत्रं च गले वृश्चिकमालिकाम् ॥ नीलोत्पलदलश्यामं अतसीपुष्पसन्निभम् । पिङ्गाक्षं पिङ्ग जटिलं शशाङ्ककृतशेखरम् ॥ तक्षकः पुष्टिकश्चैव पादयोस्तस्य नूपुरौ । अघोररूपकं कुर्यात्कालरूपमिवापरम् ॥ महावीर्यं महोत्साहमष्टबाहुं महाबलम् । त्रासयन्तं रिपोस्सद्धं निवेशो यत्र भूतले ॥ खट्वाङ्गं च कपालं च खेटकं पाश एव च । वामहस्तेषु कर्तव्यमिदं शश्वच्चतुष्टयम् ॥

v4.c36.s10.t2.10

त्रिशूलं परशुः खड्गो दण्डश्चैवारिमर्दनः । शस्त्राण्येतानि चत्वारि दक्षिणेषु करेष्षु च ॥ (रूपमण्डने)

v4.c36.s10.t2.11

कुठारखेटङ्कुशपाशशूलपालढक्काक्षगुणान्दधानः । चतुर्मुखो नीलरुचिश्चिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ (शैवे कारणागमे ॥)

v4.c36.s10.t2.12

वामदेवः ।

v4.c36.s10.t2.13

रक्ताम्बरधरं देवं रक्तयज्ञोपवीतिनम् । रक्तोष्णीषं रक्तनेत्रं रक्तमाल्यानुलेपनम् ॥ जटाचन्द्रधरं कुर्यात्त्रिनेत्रं तुङ्गनासिकम् । वामदेवं महाबाहुं खड्गखेटकधारिणम् ॥ सर्वालङ्कारसंयुक्तं रक्तकुण्डलधारिणम् । (रूपमण्डने ॥)

v4.c36.s10.t2.14

वराक्षमालाभयटङ्कहस्तस्सरोजकिञ्जल्कसमानवर्णः । त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥ (शैवे कारणागमे ॥)

v4.c36.s10.t2.15

सद्योजातः ।

v4.c36.s10.t2.16

शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । जटाभारयुतं कुर्याद्वालेन्दुकृतशेखरम् ॥

v4.c36.s10.t2.17

त्रिलोचनं सौम्यमुखं कुण्डलाभ्यामलङ्कृतम् । सद्योजातं महोत्साहं वरदाभयपाणिकम् ॥ (रूपमण्डने)

v4.c36.s10.t2.18

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयङ्कः । त्र्यक्षश्चतुर्वक्त्र उरुप्रभावस्सद्योजिातोऽवतु मां प्रतीच्याम् ॥ (शैवे कारणागमे ॥)

v4.c36.s10.t2.19

महेशः ।

v4.c36.s10.t2.20

पञ्चमूर्ध चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् । चतुरास्यं चतुर्नासी वसुश्रोत्रं चतुर्गळम् ॥

v4.c36.s10.t2.21

तनुरेतद्विपादं हि सायुधं दशबाहुकम् । शुद्धस्फटिकसङ्काशं सूर्यकोटिसमप्रभम् ॥

v4.c36.s10.t2.22

चन्द्रांशुहिमशीतं च सर्वाभरणभूषितम् । शुक्लाम्बरधरं देवं शुक्लज्ञोपवीतिनम् ॥

v4.c36.s10.t2.23

अभयं शूलपरशुं वज्रं खङ्गं च दक्षिणे । खेटकाङ्कुशपाशं च घण्टां वरदवामके ॥

v4.c36.s10.t2.24

कुर्यादेवं महेशं तु शक्तेस्तु लक्षणं शृणु । चतुर्भुजां त्रिनेत्रां च सर्वालङ्कारसंयुताम् ॥

v4.c36.s10.t2.25

नितम्बटविस्तीर्णां मध्यक्षामां स्तनोन्नताम् । दक्षिणे चोत्पलोपेतां वामहस्ते स्रजं धरीम् ॥

v4.c36.s10.t2.26

वरदाभयहस्तां वै दुकूलवसनान्विताम् । करण्डमकुटोपेतामीश्वरस्य तु वामके ॥ पीठे चैकासने युक्तां तत्प्रभामण्डले स्थिताम् । चन्द्रार्काभ्रप्रतीकाशां जगन्मङ्गलकारकाम् ॥ कारयेदीश्वरीमेवं वामादीनां शृणुष्बहि । (सुप्रभेदागमे चतुर्विंशत्तमपटले ॥)

v4.c36.s10.t2.27

रुद्राः ।

v4.c36.s10.t2.28

चतुर्भुजास्त्रिनेत्राश्च जटामुकुटमण्डिताः । शुक्लवस्त्रधरास्सर्वे शुक्लवर्णाः प्रकीर्त्तिताः ॥ सपादस्थानकास्सर्वे पद्मपीठोपरि स्थिताः । सर्वाभरणसंयुक्ताः सर्वपुष्पैरलङ्कृताः ॥ अभयं परशुं सव्ये कृष्णं वरद वामके । महादेवश्शिवो रुद्रः शङ्करो नीललोहितः ॥ ईशानो विजयो भीमो देवदेवो भवोद्भवः । कपालीशश्च विज्ञेया रुद्रा एकादशाः (?) पराः ॥ (अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)

v4.c36.s10.t2.29

अजः ।

v4.c36.s10.t2.30

अथ रुद्रान् प्रवक्ष्यामि बाहुषोडशकान्वितान् । अजनामा महारुद्रो धत्ते शूलमथाङ्कुशम् ॥

v4.c36.s10.t2.31

कपालं डमरुं सर्पं मुद्गरं च सुदर्शनम् । अक्षसूत्रमधो दक्षे तथा वामे कराष्टके ॥

v4.c36.s10.t2.32

तर्जनीमूर्ध्वतस्तत्र खट्वाङ्गं तदधःकरे । गदां च पट्टिशं घण्टां शक्तिपरशुकुण्डिकाः ॥

v4.c36.s10.t2.33

एकपादः ।

v4.c36.s10.t2.34

एकपादाभिधो बिभ्रत् क्ष्वेडादः स्याद्वहन् शरम् । चक्रं डमरुकं शूलं मुद्गरं तदधो वरम् ॥

v4.c36.s10.t2.35

अक्षसूत्रमधो वामे खट्वाङ्गं चोर्ध्वहस्तके । धनुर्घण्टां कपालं च कौमुदीं तर्जनीं घटम् ॥

v4.c36.s10.t2.36

परशुं चक्रमाधत्ते क्रमाद्वाष्टके त्विति । अनेकभोगसंपत्तिं कुरुते यजनात्सदा ॥

v4.c36.s10.t2.37

(विश्वकर्मशास्त्रे ॥)

v4.c36.s10.t2.38

ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं हस्ते टङ्कमृगं वराभयकरं पादैकयुक्तं विभुम् । शंभोर्दक्षिणवामकक्षभुजयोर्ब्रह्माच्युताभ्यां स्थितं तत्तल्लक्षणमायुधैः परिवृतं हस्तद्वयाञ्जलिम् ॥

v4.c36.s10.t2.39

ब्रह्माण्डप्रलये सुसंस्थितपदं ब्रह्माण्डमध्यस्थितं ह्येवं लक्षणसंयुतं पुरहरं पादैकमूर्तिंकृतम् । एकपादमिति ख्यातं सुखासीनम् । रक्तवर्णः । पक्षान्तरे श्वेत- वर्णोऽपि प्रसिद्धः ।

v4.c36.s10.t2.40

अहिर्बुध्नः । अहिर्बुध्नौ गदां चक्रं चासिं डमरुमुद्गरौ । शूलाङ्कुशाक्षमालाश्च दक्षोर्ध्वाधःकरैः क्रमात् ॥ तोमरं पट्टिशं चर्म कपालं तर्जनीं घटम् । शक्ति परशुकं वामे दक्षवद्धारयत्यसिम् ॥

v4.c36.s10.t2.41

विरूपाक्षः । विरूपाक्षस्ततः खङ्गं शूलं डमरुकाङ्कुशौ । सर्पं चक्रं गदामक्षसूत्रं बिभ्रत्कराष्टके ॥ खेटं खट्वाङ्गकं शक्ति परशुं तर्जनीं घटम् । घण्टापालकौ चेति वामोर्ध्वादिकराष्टके ॥

v4.c36.s10.t2.42

रेवतः । रेवतो दक्षिणे चापं खङ्गशूलं गदामहिम् । चक्राङ्कुशाक्षमालास्तु धारयन्न्ऊर्धमादितः ॥ धनु(धनुः ?)खेटं च खट्वाङ्गं घण्टातर्जनीकां ततः । परशुं पट्टिशं पात्रं वामबाह[ष्ट*]केऽर्कवत् ॥ सर्वसंपकरोत्येष (संपत्करो ह्येष ?) जायते वार्चनाद्धृशम् ।

v4.c36.s10.t2.43

हरः । हराख्यो मुद्गरं चैव डमरुं शूलमङ्कुशम् । गदासर्पाक्षसूत्राणि धारयन् दक्षिणोर्ध्वतः ॥ पट्टिशं तोमरं शक्ति परशुं तर्जनीं घटम् । खट्वाङ्गं पट्टिकां चेति वामोर्ध्वादिक्रमेण तु ॥

v4.c36.s10.t2.44

बहुरूपः । बहुरूपो दधदक्षे डमरुं च सुदर्शनम् । सर्पं शूलाङ्कुशौ चैव कौमुदीं जपमालिकाम् ॥ घण्टापालखट्वाङ्गं तर्जनीं कुण्डिकां धनुः । परशुं पट्टिशं चैव वामोर्ध्वादिकराष्टके ॥

v4.c36.s10.t2.45

त्र्यम्बकः । त्र्यम्बकोऽपि दधच्चक्रं डमरुं मुद्गरं शरम् । शूलाङ्कुशाहिजाप्यं च दक्षोर्ध्वादिक्रमेण हि ॥ गदाखट्वाङ्गपात्राणि कार्मुकं तर्जनीघटौ । परशुं पट्टिशं चैव वामोर्ध्वादिकराष्टके ॥

v4.c36.s10.t2.46

सुरेश्वरः । सुरेश्वरो हि डमरुं चक्रं शूलाङ्कुशावपि । शरं च मुद्गरं चापं दक्षबाह्वष्टके त्विति ॥ पङ्कजं परशुं घण्टां पट्टिशं तर्जनीं धनुः । खट्वाङ्गं कारयेत्पालं वामेऽष्टकरपल्लवे ॥

v4.c36.s10.t2.47

जयन्तः । जयन्तो दशमो रुद्रोऽप्यङ्कुशं चक्रमुद्गरौ । शूलाहिडमरुं बाणमक्षसूत्रं यमे त्विति ॥ गदाखट्वाङ्गपरशुं कपालं शक्तिं तर्जनीम् । धनुः कुण्डीमथोर्ध्वादिवामबाह्वष्टके दधत् ॥

v4.c36.s10.t2.48

अपराजितः । अथापराजितो दक्षे तोमरं खड्गमङ्कुशम् । शूलाहिचक्रमरुमक्षमालां दधत्क्रमात् ॥ शक्तिं खेटं गदां पात्रं तर्जनीं पट्टिशं कजम् । घण्टामुत्तरतश्चाथ धारयन्नूर्ध्वमादितः ॥ अजैकपादहिर्बुध्नो विरूपाक्षश्च रेवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः । (विश्वकर्मशास्त्रे ॥)

v4.c36.s10.t2.49

मृत्युञ्जयः । कपालमालिनं श्वेतं शशाङ्ककृतशेखरम् । व्याघ्रचर्मधरं मृत्युञ्जयं नागेन्द्रभूषितम् ॥ त्रिशूलमक्षमाला च दक्षयोः करयोस्मृतः । कपालं कुण्डिकां वामे योगमुद्राकरद्वयः ॥

v4.c36.s10.t2.50

किरणाक्षः । चतुर्भुजो महाबाहुः शुक्लपादाक्षपाणिकः । पुस्तकभयहस्तोऽसौ किरणाक्षस्त्रिलोचनः ॥

v4.c36.s10.t2.51

श्रीकण्ठः । चित्रवस्त्रधरं कुर्याच्चित्रयज्ञोपवीतिनम् । चित्ररूपं महेशानं चित्रैश्वर्यसमन्वितम् ॥ चतुर्बाहुं चैकवक्त्रं सर्वालङ्कारभूषितम् । खङ्गं धनुः शरं खेटं श्रीकण्ठं विभ्रतं भुजैः ॥

v4.c36.s10.t2.52

विद्येश्वराः ।

v4.c36.s10.t2.53

दिग्वर्णा जटिलस्त्यक्षाश्शरत्रिशूलधारिणः । पुटाञ्जलिकरास्सर्वे विद्येशाश्चैकवक्त्रकाः ॥

v4.c36.s10.t2.54

अनन्तश्च त्रिमूर्तिश्च सूक्ष्मः श्रीकण्ठ एव च । शिवशिखण्ड्येकनेत्र एकरुद्रश्च ते क्रमात् ॥

v4.c36.s10.t2.55

(विष्णुधर्मोत्तरे ॥)

v4.c36.s10.t2.56

अनन्तेस्तथा सूक्ष्मशिवोत्तमश्चैकनेत्रकः । एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिनः ॥

v4.c36.s10.t2.57

अष्टविद्येश्वरा ह्येते त्रिनेत्राश्च चतुर्भुजाः । अभयवरदोपेताश्शूलधरास्तथा ॥

v4.c36.s10.t2.58

रक्तकुन्दस्तथा नीलं पीतं कृष्णं च कुङ्कुमम् । अरुणं भिन्नाञ्जनप्रख्यं क्रमाद्विद्येशवर्णकम् ॥

v4.c36.s10.t2.59

जटामुकुटसंयुक्ता उपवीतसमन्विताः । सर्वाभरणसंयुक्ताश्शान्तवक्त्रसमन्विताः ॥

v4.c36.s10.t2.60

विद्येशाकृतिरेवं स्याद् दिक्पालाकृतिरुच्यते ।

v4.c36.s10.t2.61

(पूर्वकारणागमे चतुर्दशपटले ॥)

v4.c36.s10.t2.62

अनन्तः ।

v4.c36.s10.t2.63

अनन्तश्चतुर्भुजस्सौम्यस्सर्वाभरणभूषितः । जपापुष्पनिभाकारः करण्डमकुटान्वितः ॥

v4.c36.s10.t2.64

सितवस्त्रधरः शान्तस्त्रिनेत्रः पद्मसंस्थितः । अभयवरदोपेतो गङ्गा(टङ्क ?)शूलधरशुचिः ॥

त्रिमूर्तिः ।

v4.c36.s10.t3.1

एकरुद्रमिवात्रैव त्रिमूर्तिं चैव कारयेत् । (अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)

v4.c36.s10.t3.2

रक्तवर्णस्त्रिनेत्रश्च वरदाभयहस्तकः । कृष्णापरशुसंयुक्तो जटामकुटमण्डितः ॥

v4.c36.s10.t3.3

ऋज्वागतस्तथैकेन पादेनापि समन्वितः । दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि ॥

v4.c36.s10.t3.4

कटिप्रदेशादूर्ध्वं तु ब्रह्मविष्णूर्ध्वकाययुक् । स्त्रीमानवत्तयोर्मानं ब्रह्मविष्ण्वोस्तु कल्पयेत् ॥

v4.c36.s10.t3.5

कृताञ्जलिपुटावेकपादयुक्तौ च वा मतौ । अथवा शिवलिङ्गस्य पार्श्वयोन्तर्गतौ कृतौ ॥

v4.c36.s10.t3.6

अथवा तौ पृथक् स्थाप्याबेकविष्टरमास्थितौ । अथवा मध्यमे लिङ्गं पृथगालयसंस्थितम् ॥

v4.c36.s10.t3.7

तस्य सव्येऽप्यसव्ये च ब्रह्मविष्णू तथा मतौ । पृथग्धामस्थिता वैकधामस्था वा त्रिमूर्तयः ॥

v4.c36.s10.t3.8

संश्लिष्टधामयुक्ता वा ब्रह्मविष्णुशिवा मताः । पूर्वास्याः पश्चिमास्या वा परिवारदिसंयुताः ॥

v4.c36.s10.t3.9

भिन्नप्राकारगा वापि एकप्राकारसंस्थिताः । वृत्तमूर्त्यादिदेवा वा स्थापनीयास्तु मध्यमे ॥

v4.c36.s10.t3.10

एवं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते ।

v4.c36.s10.t3.11

(उत्तरकामिकागमे एकषष्टिमपटले ॥)

v4.c36.s10.t3.12

सूक्ष्मः ।

v4.c36.s10.t3.13

सूक्ष्मो नीलनिभशान्तो हेमवस्त्रधरः परः । चतुर्भुजस्त्रिनेत्रश्च सर्वाभरणभूषितः ॥

v4.c36.s10.t3.14

अभयवरदोपेतङ्कशूलधरस्तथा ।

v4.c36.s10.t3.15

श्रीकण्ठः ।

v4.c36.s10.t3.16

अभयवरदोपेतङ्कशूलधरः परः । रक्तवस्त्रसमायुक्तः पद्मपीठोपरि स्थितः ॥

v4.c36.s10.t3.17

श्रीकण्ठं ह्येवमाख्यातं नागदेवमथोच्यते ।

v4.c36.s10.t3.18

शिवोत्तमः ।

v4.c36.s10.t3.19

शिवोत्तमः श्वतवर्णश्चतुर्भिस्समन्वितः । सर्वाभरणसंयुक्तश्शुक्वासोपवीतकः ॥

v4.c36.s10.t3.20

नेत्रद्वयसमायुक्तः करण्डमकुटान्वितः । अभयवरदोपेतशूलपाशधरश्शुचिः ॥

v4.c36.s10.t3.21

पद्मपीठपरिष्ठात्तु स्थानकस्समपादकः ।

v4.c36.s10.t3.22

शिखण्डी ।

v4.c36.s10.t3.23

शिखण्डिस्त्वज्ञनाभस्तु चतुर्भुजसमन्वितः । करण्डमकुटोपेतस्सर्वाभरणभूषितः ॥

v4.c36.s10.t3.24

रक्तवस्त्रधरशान्तस्त्वभयवरदान्वितः । खड्गखेटकसंयुक्तः पद्मपीठपरिस्थितः ॥

v4.c36.s10.t3.25

एकनेत्रः ।

v4.c36.s10.t3.26

एकनेत्रश्चतुर्बाहुर्नेत्रत्रयसमन्वितः । क्षौमवस्त्रधरशान्तो........कसप्रभः ॥

v4.c36.s10.t3.27

जटामकुटसंयुक्तस्सर्वाभरणभूषितः । अभयवरदोषेतष्टङ्कशूलसमन्वितः ॥

v4.c36.s10.t3.28

एकरुद्रः ।

v4.c36.s10.t3.29

एकाक्षसदृशं त्वेकरुद्रं कुर्याद्विशेषतः । (अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)

v4.c36.s10.t3.30

मूर्त्यष्टकम् ।

v4.c36.s10.t3.31

शर्वो भीमो महादेवो रुद्रः पशुपतिर्भवः । उग्र ईशान इत्यष्टौ मूर्तयश्शिवसन्निभाः ॥

v4.c36.s10.t3.32

मृगाङ्कचूडामणयो जटामण्डलमण्डिताः । त्रिनेत्रा वरखट्वाङ्गत्रिशूलवरपाणयः ॥

v4.c36.s10.t3.33

भवश्शर्वस्तथेशानपशुपत्युग्रकस्तथा । रुद्रो भीमो महादेवः कीर्तितास्त्वष्टमूर्तयः ॥

v4.c36.s10.t3.34

चतुर्भुजास्त्रिनेत्राश्च जटामकुटधारिणः । अभयंवरदोपेताष्टकृष्णधरास्स्मृताः ॥

v4.c36.s10.t3.35

सर्वाभरणसंयुक्ता रक्तक्षौमधरा इमे । शुक्लं श्यामं च रक्तं च कृष्णं गोक्षीरसन्निभम् ॥

v4.c36.s10.t3.36

काश्मीरं विद्रुमं नीलं भवादीनां तु वर्णकम् । अष्टमूर्त्याकृतिर्येवं वसूनामाकृतिं शृणु ॥

v4.c36.s10.t3.37

(पूर्वकारणागमे चतुर्दशपटले ॥)

v4.c36.s10.t3.38

शर्वः । शर्वश्चतुर्भुजश्शान्तसर्वाभरणभूषितः । जटामकुटसंयुक्तश्शकुन्देन्दुसन्निभः ॥

v4.c36.s10.t3.39

अभयवरदोपेतः खड्गखेटकधारितः । पद्मपीठोपरिष्ठात्तु स्थानकश्शर्व एव हि ॥

v4.c36.s10.t3.40

भीमः । भीमश्चतुर्भुजो रौद्रस्सर्वाभरणभूषितः । जटामकुटसंयुक्तो व्यतिरिक्त(व्यतिरिक्त?)समप्रभः ॥

v4.c36.s10.t3.41

अभयं वरदं चैव शूलं पाशं च धारयेत् । सितवस्त्रधरश्चैव रौद्रदृष्टिसदंष्ट्रकः ॥

v4.c36.s10.t3.42

पशुपतिः ।

v4.c36.s10.t3.43

पशुपतिं शर्ववत्कृत्वा स्थापयेद्देशिकोत्तमः ।

v4.c36.s10.t3.44

भवः ।

v4.c36.s10.t3.45

भवश्चतुर्भुजश्शान्तो जटामकुटमण्डितः । अतिरक्तसमप्रख्यस्सर्वाभरणभूषितः ॥ अभयवरदोपेतः शूलपाशधरो भवः ।

Cites (6)