Pramāṇa · Search · About · API

Elements of Hindu Iconography v4.c36.s12: नन्द्यादयः ।

Elements of Hindu Iconography v4.c36.s12

Language
English

नन्द्यादयः ।

v4.c36.s12.1

नन्दी । नन्दी कार्यस्त्रिनेत्रस्तु चतुर्बाहुर्महाभुजः । सिन्दूरारुणसङ्काशो व्याघ्रचर्मपरिच्छदः ॥ त्रिशूलभिन्दिपालौ च करयोस्तस्य कारयेत् । शिरोगतं तृतीयं तु तर्जयन्तं तथापरम् ॥ आलोकयानं कर्तव्यं दूरागामिनं जनम् । (विष्णुधर्मोत्तरे ॥)

v4.c36.s12.2

बिभ्राणं परशुं मृगं करतले ईशप्रमाणाञ्जलिं भस्मोद्धूलितपाण्डुरं शशिकलागंगाकपर्दोर्ज्वलं । परियायत्रिपुरान्तकं प्रथमतः श्रेष्ठं गणैर्वन्दितं ब्रह्मेन्द्राच्युतपूजिताङ्घ्रिकमलं श्रीनन्दिकेशं भजे ॥

v4.c36.s12.3

चण्डेशः । चण्डेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् । परस्वतन्त्रभेदेन द्विविधं तच्च संमतम् ॥ पुरादौ मध्यमे वाष्टदिक्षु चण्डेश्वरालयः । धामेशानेऽथ सौम्ये वा सोमेश्र्वरान्तरेऽथवा ॥

v4.c36.s12.4

अन्तमण्डलदेशे १ऽन्तर्हारायां वेष्टशालके । अथैकादित्रयस्त्रिंशद्धस्तविस्तारसंयुतः ॥ धामलक्षणसंसिद्धधामेनापि समन्वितः । एकादिसप्तभ्यन्तं भूमिभागसमन्वितः ॥ धामोक्ताकारसंयुक्तो दिक्षु चण्डेश्वरान्वितः । इष्टदेवान्वितो वा स्यात्केवलो वा वृषान्वितः ॥ प्रागुक्तविधिनानीतगर्भग्येष्टकया युतः । मूर्धेष्टकासमायुक्तः स्थूपिस्थापनसंयुतः ॥ दक्षिणद्वारसंयुक्तः पराङ्श्चेन्मुनीश्वराः ! । स्वतन्त्रस्थापने दक्षपूर्वपश्चिमदिङ्मुखः ॥ दिङ्न्यस्तामरविन्यस्तमध्यकुम्भयुतेन च । धामसंस्थापनेनाढ्यः प्रागुक्तविधिना सह ॥ प्रागुक्तगर्भमानाद्यं सर्वमत्र प्रयोज्यताम् । प्राकारमण्डपोपेतः परितः परिवारयुक् ॥ रुद्रभक्तस्ततो रुद्रचण्डश्चण्डप एव च । महाबलस्तथाविर्य(वीर्य ?)ष्टङ्कपाणीशसेवकौ२ ॥ रुद्रकोपज इत्यष्टमूर्तेयः परिवारगाः । एते श्वेता महाकायाः कृताञ्जलिपुटान्विताः ॥

v4.c36.s12.5

¹ ‘अन्तमण्डलदशे’ इति पाठान्तरम् ।

v4.c36.s12.6

² ‘महाबलास्तथा विप्रा’ इति पाठान्तरम् ।

v4.c36.s12.7

सटङ्कास्तद्विहीना वा वीरासनसंस्थिताः । कृत्तिवासोऽन्विता वाथ चण्डरूपधरास्तु वा ॥ इन्द्राद्या वा तदध्र्(थं?)तु पीठं वा पूर्वतो वृषः । बलिपीठादिपीठान्तं पूर्ववत्कल्पयेत्तु वा ॥ द्वारस्थौ द्वारपौ कार्यौ द्विकरौ दण्डधारकौ । चण्डानुगश्चण्डभूत्यौ१(मृत्यो?) नेष्टौ वा देशिकाग्रजाः ! ॥ द्रव्यैःशिलादिभिः कार्यः पूर्ववलक्षणान्वितः । मध्येन दशतालेन दशतालाधमेन वा ॥ प्रतिमालक्षणप्रोक्तमानेनादिसंयुतः२ । बद्धपद्मासनश्चण्डनाथो दुर्दर्शभीषणः ॥ व्यालयज्ञोपवीती च मुखोद्गीर्णमहानलः । करालकलजाभासो जटिलश्चन्द्रशेखरः ॥ चतुर्वक्त्रश्चतुर्बाहुश्चाक्षमालात्रिशूलवान् । टङ्कं कमण्डलुं वामे भानुरक्तार्कलोचनः ॥ अथवा शङ्खवर्णाभश्चतुर्बाहुस्त्रिलोचनः । चन्द्रार्धमण्डितः कृत्तिवासा वीरासनस्थितः ॥ पिनाकामोघबाणाभ्यां व्यग्रपाणितलद्वयः । वराभयप्रदानाभ्यामन्यत्र परिमण्डितः ॥

v4.c36.s12.8

१ ‘चण्डभृत्यो’ इति पाठान्तरम् । २ ‘मानेनादिसंयुतः’ इति पाठान्तरम् ।

v4.c36.s12.9

अथवा द्विभुजश्शुक्लवस्त्रत्र्यक्षोऽञ्जनप्रभः । जटामकुटयुक्तो वा तुलसीकृतमूर्धजः(?) ॥

v4.c36.s12.10

स्थानको वासनस्थो वा शयितासव्यपात्तलः । सलम्बसव्यपादस्तु वामहस्तभु(स्तु?)जानुगः ॥

v4.c36.s12.11

वरहस्तोऽथवा स स्यादितरष्टङ्कसंयुतः । वामेतरकरङ्कयुक्तोऽञ्जलिपुटोऽथवा ॥

v4.c36.s12.12

शङ्करेक्षणसंपन्नश्शोकनम्रशिरास्तु वा । उत्कुटासनयुक शान्तो जटिलष्टङ्कधृक्करः ॥

v4.c36.s12.13

एवं वा चण्डनाथस्तु कार्यस्विद्यसनान्वितः । अथवाभयटङ्काभ्यां पाशशूलद्वयेन तु ॥

v4.c36.s12.14

चतुर्भुजस्तु वा कार्यश्शङ्कराज्ञानुपालकः । विशेषस्सिंहले देशे कश्चिद्वत्राभिधीयते ॥

v4.c36.s12.15

क्रेताया(कृतेऽय?)मष्टहस्तस्यात्रेतायां१ षड्भुजो मतः । द्वापरे च चतुर्हस्तः कलौ तु द्विकरो मतः ॥

v4.c36.s12.16

अन्यदेशे तु सर्वत्र विभागो नायमीरितः । अथवा चण्डनाथस्तु देव्या तु सहितो न वा ॥

v4.c36.s12.17

सा देवी श्यामला हस्तद्वयाखिलविभूषिता । धर्मनीत्याख्यया ख्याता धृतनीलोत्पला वरा ॥

v4.c36.s12.18

¹ ‘कृतयामि’ति पाठान्तरम् ।

v4.c36.s12.19

एवमापाद्य बेरं तु मनुभिस्थापनं नयेत् ।

v4.c36.s12.20

(उत्तरकामिकागमे पञ्चषष्टिमपटले ॥)

v4.c36.s12.21

अथातस्संप्रवक्ष्यामि चण्डेशस्थापनं परम् । उद्भवं प्रथमं तस्य द्वितीयं स्थापनं क्रमात् ॥ रुद्रस्यैव तु रुद्रांशं तत्सर्वं चण्डनामतः । गणेशावरणे स्थित्वा दशांशेनायुतेन तु ॥ प्रचण्डादिविनिष्कान्ता पञ्चमूर्तिविधानतः । प्रचण्डचण्डः प्रथमं ततो विक्रान्तचण्डकः ॥ तृतीयो विभुचण्डस्तु वीरचण्डश्चतुर्थकः । एवं वै पञ्चचण्डेशाः पञ्चब्रह्मसमुद्भवाः ॥ कृतयुगाधिपत्यं तु प्रचण्डमिदमुच्यते । विक्रान्तचण्डनामा तु त्रेतायामधिपस्मृतः ॥ द्वापरे चाधिपत्यं हि विभुश्चण्डेश उच्यते । कलौ तु वीरचण्डेशस्वा(स्या?)धिपत्यं प्रकीर्तितम् ॥ एवं [वै*] पञ्चभेदेन चण्डनाम विधीयते । आलयस्यैदग्भागे विमानं पूर्ववत्क्रमात् ॥ त्रिनेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा । भीमं जटासमायुक्तं सर्वाभरणभूषितम् ॥

v4.c36.s12.22

अभयं शान्तदेहं(?) च पाशं वै परशुं तथा ।
द्विभुजं यदि कर्तुं चेच्छान्त(?)टङ्कयुतं तथा ॥
शुक्लयज्ञोपवीतं च शुक्लाम्बरधरं तथा ।
स्थानकं चासनं प्रोक्तं पूर्वोक्तविधिना ततः ॥
(सुप्रभेदागमे सप्तचत्वारिंशत्पटले ॥)

v4.c36.s12.23

चण्डश्च चण्डेश्वरो रक्तश्वेतमिश्रश्च विस्तरः ।
द्विबाहुस्सजटाजूटशेखरः कर्णकुण्डलः ॥
धृतयज्ञोपवीतश्च शुक्लाम्बरधरशुचिः ।
सर्वभूषणसंभूष्यङ्कपाणिरापि वा ॥
अर्धचन्द्रासनासीनः पुष्पमालावलम्बितः ।
चण्डेशस्याकृतिर्येवं क्षेत्रपालाकृतिं शृणु ॥
(पूर्वकारणागमे त्रयोदशपटले ॥)

Cites (4)