Pramāṇa · Search · About · API

Elements of Hindu Iconography v4.c36.s13: शिवभक्ताः ।

Elements of Hindu Iconography v4.c36.s13

Language
English

शिवभक्ताः ।

v4.c36.s13.1

वक्ष्यामि शिवभक्तानां प्रतिष्ठां भोगमोक्षदाम् ।
ब्राह्मणा क्षत्रिया वैश्याश्शूद्रा वा ह्यन्तरालजाः ॥
स्त्रियो वा गुरवश्चैवाभिषिक्तो नृपोऽथवा ।
शिवभक्तिसमोपेता जीवन्तो वा मृतास्तु वा ॥
तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाप्य समर्चयेत् ।
स्वप्रधानं पराङ्गं च द्विविधं स्थापनं मतम् ॥

v4.c36.s13.2

ग्रामादौ वा नदीतीरे पुष्करिण्यास्तटेऽपि वा । वने चोपवने वापि पर्वते वा मनोरमे ॥

v4.c36.s13.3

स्थानेऽन्यत्र च कर्तव्यं स्वप्रधानस्य मन्दिरम् । देवालयान्तस्सालादौ तत्र कल्पितमन्दिरे ॥

v4.c36.s13.4

परिवारसमोपेतं स्वप्रधानं प्रकीर्तितम् । देवालयादौ सर्वत्र मालिका मण्डपादिषु ॥

v4.c36.s13.5

परिवारविहीनं यत्कल्पितं त्वङ्गमियते । तदर्थं शिवलिङ्गं वा प्रतिमा वा शिवस्य तु ॥

v4.c36.s13.6

स्कन्दनन्द्यादिरूपं वा मृतप्रतिकृतिं तु वा । कुर्यादायादिसंयुक्तं शिलाद्यैरुक्तवस्तुभिः ॥

v4.c36.s13.7

शैलं लोहं तथा वार्क्षं मृन्मयं मणिजं तु वा । अर्धचित्रमथाभासं पटादिपरिकल्पितम् ॥

v4.c36.s13.8

लिङ्गं चेत्तद्विधानोक्त्या प्रतिमा च तथैव च । तदुक्ततालभेदेन१ कर्तव्यं स्याद् द्विजोत्तमाः ! ॥

v4.c36.s13.9

मृतप्रतिकृतिं चोक्तामष्टतालेन कारयेत् । आसीनं स्थानकं वापि वाहनारूढमेव वा ॥

v4.c36.s13.10

आसने स्थानके वाथ पद्मासनं तु वा । अधस्तात्कल्पयेद्विद्वानुभयं वा विधीयताम् ॥

v4.c36.s13.11

यथेष्टासनयुक्तं वा समाश्रं वा यथाश्रकम् । आसनोन्मानविस्तारायामं तद्वदलं कृतिम् ॥

v4.c36.s13.12

प्रतिमोक्तप्रकारेण प्रागुक्तविधिना नयेत् । शिखी वा बद्धकेशी वा मुण्डितो जटिलोऽथवा ॥

v4.c36.s13.13

अभिषिक्तो नृपश्चितु किरीटमुकुटान्वितः । यथेष्टायुधयुक्तो वा नमस्कारयुतोऽथवा ॥

v4.c36.s13.14

सर्वलक्षणसंपन्नस्सर्वाभरणभूषितः । गायका नृत्तयुक्ता वा पूजका वा यथेष्टकाः ॥

v4.c36.s13.15

स्त्रियश्चेत्तस्यानुरूपेण१ भूषणैरुपभूषिताः । एवं लक्षणमाख्यातं प्रतिष्ठायां निगद्यते ॥

v4.c36.s13.16

(उत्तरकामिकागमे षट्षष्टिमपटले ॥)

v4.c36.s13.17

आर्य्यः ।

v4.c36.s13.18

आर्य्यश्चतुर्भुजशान्तस्त्रिनेत्रः पद्मसंस्थितः । हिरण्यसदृशप्रख्यो दुकूलवसनान्वितः ॥

v4.c36.s13.19

अभयवरदोपेतः खड्गखेटकधारितः । सुस्थितः पद्मपीठे तु आर्य्यमेवं प्रकल्पयेत् ॥

v4.c36.s13.20

(अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)

v4.c36.s13.21

¹ स्त्रियश्चेत्यर्धमादर्शान्तरे नास्ति ।

v4.c36.s13.22

अथातस्संप्रवक्ष्यामि शास्त्रस्थापनमुत्तमम् । शास्ता सर्वस्य लोकस्य तस्माच्छास्तेति चोच्यते ॥

v4.c36.s13.23

समुद्रमथने काले परिगृह्यामृतं तथा । हरिर्भूव स्त्रीरूपा मोहिनीनाम नामतः ॥

v4.c36.s13.24

तां मोहिनीमहं दृष्ट्वा संगतोऽस्मि कदाचन । जातस्तदा महाशास्ता मेध्याहामवतीधराः ॥

v4.c36.s13.25

द्विनेत्रं द्विभुजं कृत्वा सर्वाभरणभूषितम् । श्यामवर्णयुतं तेषां शुक्लज्ञोपवीतिनम् ॥

v4.c36.s13.26

श्वानकुक्कुटमेषाद्यैः क्रीडन्तं सर्वसिद्धिदम् । मदनावर्णनीदेवौ१(व्यौ?) पीतौरस(नोरस?)समन्वितौ(ते?) ॥

v4.c36.s13.27

सर्वाभरणसंयुक्तौ(क्ते?) पार्श्वयोर्विन्यसेत्ततः । वामे दमनकं२ न्यस्त्वा तद्वेषं विकृतं स्मृतम् ॥

v4.c36.s13.28

द्विभुजं दक्षिणे हस्ते चक्रदण्डमथेश्वरम् । फलपल्लवहस्तं च कुञ्चिताङ्घ्रिद्वयम् ॥

v4.c36.s13.29

भूताकारं बृहत्कुक्षिं नीलालकविभूषितम् । शास्तुश्च लक्षणं प्रोक्तं स्थापनं शृणु तत्वतः ॥

v4.c36.s13.30

(सुप्रभेदागमे विपञ्चाशत्तमपटले ॥)

v4.c36.s13.31

१ ‘पनकापार्णनौ देव्यै’ इति पाठान्तरम् । २ ‘वामधे मनकं न्यस्ता’ इति पाठान्तरम् ।

v4.c36.s13.32

मोहिनीतनयशान्तो द्विबाहुश्यामसन्निभः । पीठालम्बितशायितौ वामदक्षिणपादकौ ॥

v4.c36.s13.33

वामाङ्घ्रिजानुकोर्ध्वं तु वामहस्तं स्थितं कुरु । मण्डलीभूतदण्डाग्रो वज्रदण्डधरो युवा ॥

v4.c36.s13.34

स्निग्धनीलाजनाकीर्णकुन्दलीभूतभूर्ध्वजः (न्तलीभूतसूर्धजः?) । गजवाहनकेतुस्याद्विलासी सविलासिनी ॥

v4.c36.s13.35

नीलश्वेताश्ववृषवाहनो वा चतुर्भुजः । रक्तचूडध्वजो वापि सर्वत्र परिकीर्तितः ॥

v4.c36.s13.36

ज्ञानी योगासनासीनो वेदाध्यायी पवित्रकः । सोभयांसोपवीतस्तस्यान्यूनावीरासनास्थितः ॥

v4.c36.s13.37

लीलाविगीतभावी स्यात्सुर(ख?)भावी सुखासनः । वामोरूपारि विन्यस्त(स्ता?)वामपादतलेक्षणः ॥

v4.c36.s13.38

आर्यस्याकृतिरेवं तु शक्रस्याकृतिरुच्यते ।

v4.c36.s13.39

(पूर्वकारणागमे त्रयोदशपटले ॥)

Cites (3)