Pramāṇa · Search · About · API

Elements of Hindu Iconography v4.c36.s14: क्षेत्रपालः ।

Elements of Hindu Iconography v4.c36.s14

Language
English

क्षेत्रपालः ।

v4.c36.s14.1

त्रिविधः क्षेत्रपालस्तु सात्विको राजसस्तमः । श्वेतं रक्तमथो कृष्णं सात्विकादिगुणं भवेत् ॥

v4.c36.s14.2

द्विभुजं वा चतुर्बाहु शान्तं सात्विकमुच्यते । षड्बाहु चोग्रवदनमुग्रं स्याद्राजसं स्मृतम् ॥

v4.c36.s14.3

तामसं चाष्टबाहुं च एते वै समपादकाः ।
स्थानकं पद्मपीठे तु भद्रपीठे तु वा यथा ॥
शूलं दक्षिणहस्ते तु कपालमितरे धृतम् ।
द्विभुजं ह्येवमाख्यातं चतुर्हस्तमथोच्यते ॥
परहस्ते तु सव्ये तु खड्गं घण्टां तदन्यके ।
अथवा पूर्वहस्ते तु अभयं वरदान्वितौ ॥
पूर्ववत्परहस्तौ द्वौ घण्टां वा वामहस्तके ।
सात्त्विकं ह्येवमाख्यातं राजसं शृणु सुव्रत ! ॥
शूलं खड्गं च घण्टां च दक्षिणे [तु*] करतये ।
खेटकं च कपालं च नागं वा पाशवामके ॥
तामसे तु धनुर्बाणं दक्षिणेऽदक्षिणे धृतम् ।
शेषं राजसवत्ख्यातं रक्तकेशोर्ध्वमण्डलम् ॥
उग्रदृष्टिसमायुक्तं नानानागविभूषितम् ।
त्रिनेत्रं नग्नरूपं च क्षेत्रपालं प्रकल्पयेत् ॥

v4.c36.s14.4

(अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)

v4.c36.s14.5

अथातसंप्रवक्ष्यामि क्षेत्रशस्य विधिक्रमम् । ईश्वरस्यायुतांशेन क्ष(क्षे ?)त्रपालोद्भवं तथा ॥ ग्रामादवैशदिभागे लोकरक्षार्थकारणम् । प्रासादं प्रतिमां तत्र पूर्वोक्तविधिना तथा ॥

v4.c36.s14.6

द्वारं तु पश्चिमे मुख्यं दक्षिणे मध्यमं स्मृतम् । कन्यसं चेन्द्रदिग्द्वारं प्रतिमालक्षणं ततः ॥

v4.c36.s14.7

चतुर्भुजं त्रिनेत्रं वा षड्भुजं चाष्टहस्तकम् । सुदष्ट्रं भैरवाकारं कृष्णवर्णं दिगम्बरम् ॥

v4.c36.s14.8

सर्पयज्ञोपवीतं च शिरोमालाकरोटिकम् । ऊर्ध्वकेशं सुवृत्ताक्षं नागाभरणभूषितम् ॥

v4.c36.s14.9

त्रिशूलं दक्षिणे हस्ते वामहस्ते कपालकम् । खड्गं च दक्षिणे हस्ते वामहस्ते तु खेटकम् ॥

v4.c36.s14.10

एवं चतुर्भुजं विद्धि षड्भुजं च ततः शृणु । नागं च दक्षिणे पाणौ तोमरं वामहस्तके ॥

v4.c36.s14.11

प्रागुक्तायुधसंयुक्तं षड्भुजं त्विति कीर्तितम् । शूलं डमरुखट्वाङ्गं दक्षिणे वामहस्तके ॥

v4.c36.s14.12

एवमष्टभुजं प्रोक्तं षड्भुजायुधसन्निभम् ।

v4.c36.s14.13

(सुप्रभेदागमे पञ्चाशत्तमपटले ॥)

v4.c36.s14.14

रक्तोग्रेक्षणः कालमेघवर्णो वापि महाबली । द्विबाहुर्वा चतुर्बाहुरष्टबाहुरथापि वा ॥

v4.c36.s14.15

कपालशूलो द्विभुजो घण्टापाशसमायुतः । चतुर्बाहुः क्रमात्क्षेत्रपालो वामे च दक्षिणे ॥

v4.c36.s14.16

अग्निटङ्कौ च खट्वाङ्गं भयमष्टभुजे क्रमात् । रक्तपद्मासनारूढः श्यामवर्णोऽग्ररूपकः ॥

v4.c36.s14.17

विसृतोर्ध्वो(र्ध्व ?) रक्तकेशः कुञ्चितभ्रूसविभ्रमः । नम्ररूप(प ?)शिरोमालाभूषितस्तीक्ष्णदंष्ट्रकः ॥

v4.c36.s14.18

(पूर्वकारणागमे त्रयोदशपटले ॥)

v4.c36.s14.19

ब्रह्मा ।

v4.c36.s14.20

चतुर्भुजश्चतुर्वक्त्रो हरितालसमप्रभः । जटामकुटसंयुक्तः पिङ्गाक्षस्सर्वभूषणः ॥

v4.c36.s14.21

कृष्णाजिनोत्तरीयश्च यज्ञसूत्रसमन्वितः । शुक्लवस्त्रधरश्शान्तः कटिसूत्रसमन्वितः ॥

v4.c36.s14.22

शुक्लमल्यानुलेपश्च कर्णकुण्डलमाण्डतः । दक्षिणे चाक्षमाला च कूर्चं चैव तु धारयेत् ॥

v4.c36.s14.23

कमण्डलुकुश(शं ?) वामे दक्षिणे सुक्स्रुवौ तलः (?) । आज्यस्थालीं कुशांश्चैव(श्वैव ?) वामहस्ते तु धारयेत् ॥

v4.c36.s14.24

अभयवरदौपेतौ पूर्वहस्तौ द्विजोत्तम ! । आसने तूभयाङ्घ्रिश्च शाययेत्तु ततः परम् ॥

v4.c36.s14.25

मेढ्रमूलोपरिष्ठात्तु वामहस्तोध्ववक्रकम् । सव्यहस्तं च तस्योर्ध्वं तदन्यास्त्यं च कारयेत् ॥

v4.c36.s14.26

दक्षिणे चाक्षमालां च वामहस्ते कमण्डलुम् । सरस्वती दक्षभागे सावित्री वामभागके ॥

v4.c36.s14.27

आसीनो वा स्थितो वापि पद्मपीठोपरि स्थितः ।

v4.c36.s14.28

(अंशुभेदगमे एकोनपञ्चाशपटले ॥)

v4.c36.s14.29

चतुर्मुखं चतुर्बाहुं कमण्डल्वक्षधारिणम् । रक्तवर्णजटायुक्तं कृत्वा ब्रह्माणमुज्ज्वलम् ॥

v4.c36.s14.30

सावित्रीं वामपार्श्वे तु सर्वालङ्कारसंयुताम् । एवं चतुर्मुखं कुर्याज्जगत्सृष्टिकरां शुभम् ॥

v4.c36.s14.31

(सुप्रभेदागमे चतुस्त्रिंशत्तमपटले ॥)

v4.c36.s14.32

लिखेच्चतुर्मुखं देवं चतुर्बाहुं शुभेक्षणम् । रत्नकुण्डलसंयुक्तं लम्बकूर्चोपरि स्थितम् ॥

v4.c36.s14.33

कृष्णाजिनधरं गौरं शुक्लाम्बरविराजितम् । दक्षिणं वरदं हस्तं तत्रान्यांशुभ (न्यंस्त्रुव?) धारिणम् ॥

v4.c36.s14.34

कमण्डलुधरं वामं तथान्यं संयुतं शु(स्रु?)चा । बिभ्राणं चतुरो वेदान् पुरतश्चास्य विन्यसेत् ॥

v4.c36.s14.35

वामे पार्श्वे तु सावित्रीं दक्षिणे तु सरस्वतीम् । आज्यस्थालीं पुरोभागे महर्षीश्च(महर्षींश्च ?) समन्ततः ॥

v4.c36.s14.36

हंसारूढं लिखेत्कापि कचिच्च कमलासनम् । स्रष्टारं सर्वलोकानां ब्रह्माणं परिकल्पयेत् ॥ (शिल्परत्ने पञ्चविंशपटले ॥)

v4.c36.s14.37

ब्रह्मा कमण्डलुकरश्चतुर्मुखः पङ्कजासनस्थश्च । (बृहत्संहितायामष्टापञ्चाशत्तमाध्याये ॥)

v4.c36.s14.38

ब्रह्माणं कारयेद्विद्वान् देवं सौम्यं चतुर्भुजम् । बद्धपद्मासनं तुष्टं तथा कृष्णाजिनाम्बरम् ॥ जटाधरं चतुर्बाहुं सहंसरथस्थितम् । वामे न्यस्तेतरकरं तयैकं दोर्युगं भवेत् ॥ एत(क?)स्मिन् दक्षिणे पाणावक्षमाला तथा शुभा । कमण्डलुं द्वितीये च सर्वाभरणधारिणम् ॥ सर्वलक्षणयुक्तस्य शान्तिरूपस्य पार्थिव ! । पद्मपत्रदलाग्राभं ध्यानसंमीलितेक्षणम् ॥ अर्चायां कारयेदेवं चित्रे वा वास्तुकर्मणि । (विष्णुपुराणे ॥)

v4.c36.s14.39

पद्मपासनस्थश्च ब्रह्मा कार्यश्चतुर्मुखः । सावित्री तस्य कर्तव्या वामोत्सङ्गगता तथा ॥ (आदित्यपुराणे ॥)

v4.c36.s14.40

ऋग्वेदादि प्रभेदेन कृतादियुगभेदतः । विप्रादिवर्णभेदेन चतुर्वक्त्रं चतुर्भुजं ॥ दक्षिणाधः करात्स्त्रष्टा जपमालां तथा स्रुचम् । पुस्तं कमण्डलुं धत्ते सकूर्चःकमलासनः ॥ अक्षसूत्रं पुस्तकं च धत्ते पद्मं कमण्डलुम् । चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे हिता ॥

v4.c36.s14.41

(रूपमण्डने ॥)

v4.c36.s14.42

जटिलाः इमश्रुलाः शान्ता आसीना ध्यानतत्पराः । कमण्डल्वक्षसूत्राभ्यां संयुक्ता ऋषयस्मृताः ॥ विश्वकर्मा चतुर्बाहुरक्षमालां च पुस्तकम् । कं वा(बुं?) कमण्डलुं धत्ते त्रिनेत्रो हंसवाहनः ॥ आग्नेय्यां तु गणेशस्यान्मातृस्थानं च दक्षिणे । नैऋत्ये तु सहस्राक्षं वारुण्यां जलशायिनम् ॥ वायव्ये पार्वतीरुद्रौ ग्रहैश्चोत्तरे न्यसेत् । ऐशान्ये कमलादेवीं प्राच्यां तु धरणीधरम् ॥ इति ब्रह्मायतनम् ।

v4.c36.s14.43

ब्रह्मप्रतीहाराः । ब्रह्मणोऽष्टौ प्रतीहारान् कथयिष्याम्यनुक्रमात् । पु(प?)रुषाकारगम्भीराः सकूर्चा मकुटोज्वलाः ॥

v4.c36.s14.44

पद्मं स्रुक्पुस्तकं दण्डं सत्यो वामेऽथ दक्षिणे । सव्यापसव्ये करके शेषं प्राग्वत्सधर्मकः ॥

v4.c36.s14.45

अक्षं पद्मागमौ दण्डं करैर्धत्ते प्रियोद्भवः । दण्डागमस्रुक्फलकैर्ज्ञः स्यादायुरैः शुभैः ॥

v4.c36.s14.46

अक्षसूत्रगदाखेटदण्डैर्विजयनामकः । अधोहस्तापसव्येन खेटकं यज्ञभद्रकः ॥

v4.c36.s14.47

अक्षः पाशाङ्कुशौ दण्डो भवे स्यात्सार्वकामिकः । दण्डाङ्कुशपाशपद्मैर्भवस्सर्वशान्तिदः ॥

v4.c36.s14.48

इति ब्रह्मप्रतीहाराः ।

Cites (7)