Elements of Hindu Iconography v4.c36.s15: दिक्पालाः ।
Elements of Hindu Iconography v4.c36.s15
- Language
- English
Contents
- v4.c36.s15.t1 ईशः । — 11 parts
दिक्पालाः ।
v4.c36.s15.1
दिक्पालाः ।
v4.c36.s15.2
इन्द्रः ।
v4.c36.s15.3
श्यामवर्ण(र्णं) द्विहस्तं च रक्ताम्बरधरं शुभम् । किरीटमकुटोपेतं सर्वाभरणभूषितम् ॥
v4.c36.s15.4
शक्तिदक्षिणहस्ते तु वामहस्तेऽङ्कुशं धृतम् । विशालोदरग्रीवं च वामे शचीसमन्वितम् ॥
v4.c36.s15.5
द्विनेत्रं सौम्यवदनं सिंहासनोपरि स्थितम् । आसीनं वा प्रकर्त्तव्यं गजारूढमथापि वा ॥
v4.c36.s15.6
इन्द्रमेवं समाख्यातमश्विन्यौ च प्रवक्ष्यते ।
v4.c36.s15.7
(अंशुमद्भेदागमे एकोनपञ्चाशत्पटले ॥)
v4.c36.s15.8
इन्द्रमैन्द्रे तु मतिमांस्त्विन्द्रो वज्राङ्कुशधरात्¹ । श्यामाङ्गं तु गजारूढमप्सरोगणसंयुतम् ॥
v4.c36.s15.9
¹ ‘वज्राङ्कुशौ धधत्’ इति पाठान्तरम् ।
v4.c36.s15.10
(सुप्रभेदागमे अष्टचत्वारिंशत्तमपटले ॥)
v4.c36.s15.11
सुरराजं प्रवक्ष्येऽहमैरावतमाश्रितम् । किरीटकुण्डलधरं भुजद्वयसमन्वितम् ॥
v4.c36.s15.12
कुलिशं दक्षिणे पाणौ वामहस्ते तथोत्पलम् ।
दिव्यरत्नविभूषाढ्यं दिव्यचीनांशुकैर्युतम् ॥
चित्रचामरधारिण्यौ स्त्रियौ पार्श्वे प्रकल्पयेत् ।
सिंहासनस्थमथवा लिखेद् गन्धर्वसंयुतम् ॥
इन्द्राणीं वामतस्तस्य लिखेदुत्पलधारिणीम् ।
दिव्यशृङ्गारसंयुक्तामिन्द्रवक्त्रावलोकिनीम् ॥
v4.c36.s15.13
(शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे ॥)
v4.c36.s15.14
शुक्रश्वेतविषाणो द्विपो महेन्द्रस्य वज्रपाणित्वं च ।
तिर्यग्ललाटसंस्थं तृतीयमपि लोचनं चिह्नम् ॥
v4.c36.s15.15
(बृहत्संहितायामष्टापञ्चाशत्तमाध्याये ॥)
v4.c36.s15.16
चतुर्दन्ते गजे सक्तः श्वेतः कार्यस्सुरेश्वरः ।
वामोत्सङ्गगता कार्या तस्य भार्या शची नृप ! ॥
नीलवस्त्रा सुवर्णाभा सर्वाभरणवास्तथा ।
तिर्यग्ललाटकस्ताक्ष्र्यः(स्थाक्षः ?) कर्तव्यश्च विभूषितः ॥
शक्रश्चतुर्भुजः कार्यो द्विभुजा च तथा शशी(ची ?) ।
पद्माङ्कुशौ च कर्तव्यौ वामदक्षिणहस्तयोः ॥
वामं शचीपृष्ठगतं द्वितीयं वज्रसंयुतम् ।
वामे शच्याः करे कार्या रम्या सन्तानमञ्जरी ॥
v4.c36.s15.17
दक्षिणं पृष्ठविन्यस्तं देवराजस्य कारयेत् । (विष्णुधर्मोत्तरे ॥)
v4.c36.s15.18
वज्रपाणिर्महावीरस्सिंहस्कन्धोऽवलीलधृक् । ललाटोरस्थलयामपीवरोरुर्महोदरः ॥ प्रसन्नवदनश्श्यामवर्णो रक्ताम्बरसुखी । किरीटकुण्डली हारकेयूरादिविभूषितः ॥ पृथुशिरोगजारूढो देवराजश्शचीपतिः । शक्रस्याकृतिरेवं तु चण्डेशस्याकृतिं शृणु ॥ (पूर्वकारणागमे त्रयोदशपटले ॥)
v4.c36.s15.19
वरं वराङ्कुशौ चैव कुण्डीं धत्ते करैस्तु यः । गजारूढः सहस्राक्ष इन्द्रः पूर्वदिशाधिपः ॥ (रूपमण्डने ॥)
v4.c36.s15.20
वह्निः । वह्मीह वह्निरूपं तु रक्तवर्णं चतुर्भुजम् । वरदाभयहस्तं च . . . . . ॥ शक्तिस्यादपरे वामे दक्षिणे तु स्रुचं धरम् । एकाननं त्रिनेत्रं च रक्तकेशोर्ध्वमेव च ॥ वह्निरूपं समाख्यातमेवं धामनि विन्यसेत् । (सुप्रभेदागमे एकचत्वारिंशत्तमपटले ॥)
v4.c36.s15.21
कृत्वा चाग्रिमजारूढं रक्ताभं रक्तलोचनम् । शिखाभिरूर्ध्वगाभिश्च युक्ति(क्तं?)शक्तिसुवं धरम् ॥ (सुप्रभेदागमे अष्टचत्वारिंशत्तमपटले ॥)
v4.c36.s15.22
वहेस्वरूपं वक्ष्यामि शुद्धकाञ्चनसुप्रभम् । अर्धचन्द्रासनगतं रक्तवस्त्रविराजितम् ॥ लोहितं वा प्रकुर्वीत बालार्कसमतेजसम् । युक्तं यज्ञोपवीतेन लम्बकूर्चेन शोभितम् ॥ मेषपृष्ठस्थितं देवं भुजद्वयसमन्वितम् । दक्षिणे चाक्षसूत्रं स्यात् करे वामे कमण्डलुः ॥ स्वाहादेवी कृता पार्श्वे कुङ्कुमेन विलेपिता । अरुणैरम्बरैर्भिव्या लेख्या मात्र (?) विभूषिता ॥ कुण्डस्थो वा प्रकर्तव्यो हव्यवाहो विचक्षणैः । ज्वालाभिस्सप्तशीर्षेण शोभमानो महाद्युतिः ॥ (शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे)
v4.c36.s15.23
रक्तं जटाधरं वह्निं कारयेद्धूमवाससम् । ज्वालामालाकुलं सौम्यं त्रिनेत्रं इमश्रुधारिम् ॥ चतुर्बाहुं चतुर्दंष्ट्रं देवेशं वायुसारथिम् । चतुर्भिञ्च शुकैर्युक्ते धूमाचिह्ररथे स्थितम् ॥
v4.c36.s15.24
वामोत्सङ्गगता स्वाहा शक्रस्येव शची भवेत् । रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः ॥ ज्वालात्रिशूले कर्तव्ये त्वक्षमाल्यं च वामके । (विष्णुधर्मोत्तरे ॥)
v4.c36.s15.25
अर्धचन्द्रासनो ब्रह्ररूपो हुताशनः । प्रज्वलत्काञ्चनज्योतिः पिङ्गलः पिङ्गलोचनः ॥ हेमकूर्चाग्रसदृशस्वरूपं च शिरोरुहम् । तरुणादित्यसंकाशं तद्वस्त्रमुपवीतकम् ॥ अक्षमाला च शक्तिश्च दक्षिणेऽदक्षिणेऽपि च । ज्वालामालाकुलं तीव्रं पार्श्वस्थान्य(स्थं हं?)शुभमण्डलम् ॥ मेषारूढं च कुण्डस्थो योगपट्टेन वेष्टितम् । दक्षिणे तु स्थिता स्वाहा रत्नकुण्डलमाण्डता ॥ अग्रेराकृतिरेवं स्याच्छृणु वैवस्वताकृतिम् । (पूर्वकारणागमे चतुर्दशपटले ॥)
v4.c36.s15.26
वरदः शक्तिहस्तश्च समृणालकमण्डलुः । ज्वालापुञ्जनिभो देवो मेषारूढो हुताशनः ॥ (रूपमण्डने ॥)
v4.c36.s15.27
वैवस्वतः । द्विभुजः कृष्णवर्णस्तु खड्गखेटधारिणी । करालदंष्ट्रवदनो रक्तमाल्यानुलेपनः ॥
v4.c36.s15.28
रक्तवस्त्रधरोयश्च किरीटमकुटान्वितः । दीप्ताग्निसदृशाक्षश्च महामहिषवाहनः ॥
v4.c36.s15.29
यमस्त्वेवं हि पार्श्वस्थौ तामिस्रौ चोग्रवक्त्रकौ । चित्रगुप्तः कलिश्चैव द्वारपार्श्वे तु संस्थतौ ॥
v4.c36.s15.30
कृष्णश्यामनिभौ तौ च रक्तवस्त्रसिता(धरा ?) बुभौ । पीठपार्श्वस्थितौ मृत्युसहितादु(संहितौ व्यु ?)प्रतेजसौ ॥
v4.c36.s15.31
नीललोहितसङ्काशौ द्वौ चामरधृते स्त्रियौ । पुरतः संस्थतौ विप्रौ धर्माधर्म समाह्वयौ १ ॥
v4.c36.s15.32
यमस्सिहासनासीनो महिषारोहितस्तु वा । यमलक्षणमाख्यातं रोहिणीलक्षणं शृणु ॥
v4.c36.s15.33
(अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)
v4.c36.s15.34
यमं सुदण्डहस्तं तु महिषासनसंस्थितम् । करालं कालवर्णं च फलपल्लवपाणिनम् ॥
v4.c36.s15.35
(सुप्रभेदागमे अष्टचत्वारिंशत्तमपटले ॥)
v4.c36.s15.36
पितृराजं प्रवक्ष्यामि नीलाञ्जनसमच्छविम् । दण्डं पाशं धनुर्दोर्भ्यां प्रदीप्ताग्निविलोचनम् ॥
v4.c36.s15.37
महामहिषमारूढं सिंहासनमथापि वा । मृत्युना चित्रगुप्तेन पार्श्वयोरुपशोभितम् ॥
v4.c36.s15.38
१ ‘धर्मशर्म समाह्वया’ विति पाठान्तरम् ।
v4.c36.s15.39
करालैः किंकरैश्चैव सुरासुरगणैस्तथा । धर्मीभिः पापिभिश्चैव सेव्यमानं निरन्तरम् ॥ (शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे ॥)
v4.c36.s15.40
सजलाम्बुदसच्छायस्तप्तचामीकराम्बरः । माहिषस्थश्च कर्तव्यस्सर्वाभरणवान् यमः ॥
v4.c36.s15.41
नीलोत्पलाभां धूम्रर्णा(धूमूर्णा?) वामोत्सङ्गे च कारयेत् । धूम्रर्णा(धूमूर्णा?) द्विभुजा कार्या यमः कार्यश्चतुर्भुजः ॥
v4.c36.s15.42
दण्डखड्गावुभौ कार्यों यमदक्षिणहस्तयोः । ज्वाला त्रिशूला कर्तव्या त्वक्षमाला च वामके ॥
v4.c36.s15.43
दण्डोपरि मुखं कार्यं ज्वालामालाविभूषणम् । धूम्रर्णा(धूमूर्णा?) दक्षिणो हस्तो यमपृष्ठगतो भवेत् ॥
v4.c36.s15.44
वामे तस्याः करे कार्यं मातुलुङ्गं सुदर्शनम् । पार्श्वे तु दक्षिणे तस्य चित्रगुप्तं तु कारयेत् ॥
v4.c36.s15.45
आपीच्यवेषं स्वाकारं द्विभुजं सौम्यदर्शनम् । दक्षिणे लेखनी तस्य वामे पत्रं तु कारयेत् ॥
v4.c36.s15.46
वामे पाशधरः कार्यः कालो विकटदर्शनः । (विष्णुधर्मोत्तरे ॥)
v4.c36.s15.47
दण्डपाणिर्महादीप्तः कालाञ्जनसमच्छविः । महामहिषिकारूढो दीप्ताग्निसमलोचनः ॥ (पूर्वकारणागमे चतुर्दशपटले ॥)
v4.c36.s15.48
लेखनीं पुस्तकं धत्ते कुक्कुटं दण्डमेव च । महामहिषमारूढो यमः कृष्णाङ्ग ईरितः ॥
v4.c36.s15.49
(रूपमण्डने ॥)
v4.c36.s15.50
निर्र्ऋतिः ।
v4.c36.s15.51
निर्र्ऋतिर्नीलवर्णस्तु द्विभुजश्च महातनुः । खड्गं दक्षिणहस्तेन वामहस्तेन खेटकम् ॥
v4.c36.s15.52
पीतवस्त्रधरं रौद्रं करालास्यं च दंष्ट्रिणम् । सर्वाभरणसंयुक्तं नानापुष्पैरलङ्कृतम् ॥
v4.c36.s15.53
दुकूलवसनासर्वाः पीनोरुजघनस्तनाः । मध्यक्षमातिसौम्याश्च किञ्चित्प्रहसिताननाः ॥
v4.c36.s15.54
नानागन्धालुलिताङ्गा भद्रपीठोपरि स्थिताः । समभङ्गसमायुक्तास्सप्तसङ्ख्याप्सरास्मृताः ॥
v4.c36.s15.55
अप्सरैश्च समायुक्तो निर्र्ऋतिश्च विशेषतः । निर्र्ऋतिस्त्वेवमाख्यातं वरुणस्त्वथ वक्ष्यते ॥
v4.c36.s15.56
(अंशुमद्भेदागमे एकोनपञ्चाशत्पटले ॥)
v4.c36.s15.57
खड्गखेटकसंयुक्तं निर्र्ऋतिश्यामवर्णकम् । करालं विकृताकारं सिंहारूढं द्विनेत्रकम् ॥
v4.c36.s15.58
राक्षसं संप्रवक्ष्यामि नैर्ऋते स्थितम् । नरयानसमारूढं रक्षि(क्षो ?)भिर्बहुमिश्रितम् ॥ कालमेघसमाभासं खड्गखेटकधारिणम् । पीतवस्त्रपरीधानं स्वर्णभूषाविभूषितम् ॥ (शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे ॥)
v4.c36.s15.59
विरूपाक्षो विवृत्ता(वृता ?)स्यः प्राशु(प्रांशु ?)दंष्ट्रोज्वलताननः । ऊर्ध्वकेशी खरस्थश्च द्विबाहुर्भीषणाननः ॥ कर्णेन कृष्णरक्ताङ्गः कृष्णाम्बरधरस्तथा । सर्वाभरणवान् दंष्ट्रास्रैर्दण्डधरस्तथा ॥ भार्यास्तत्रः कर्तव्या देवी च नैर्ऋतिस्तथा । कृष्णाङ्गी कृष्णवदना पाशहस्ता तु वामतः ॥ (विष्णुधर्मोत्तरे ॥)
v4.c36.s15.60
राक्षसेशो विशालाक्षः पीतवस्त्रश्चवासनः । नैर्ऋतिस्सुस्थितासीनः खड्गहस्तो महोज्वलः ॥ नैर्ऋतेराकृतिर्येवं वरुणस्याकृतिं शृणु । (पूर्वकारणागमे चतुर्दशपटले ॥)
v4.c36.s15.61
खड्गं च खेटकं हस्तैः कर्त्तिकां वैरिस्तकम । दंष्ट्राकरालवदनं श्वानारूढश्च राक्षसः ॥
v4.c36.s15.62
वरुणः ।
v4.c36.s15.63
वरुणश्चशुक्लवर्णस्तु द्विभुजः पाशहस्तकः । सर्वाभरणसंयुक्तः करण्डमकुटान्वितः ॥
v4.c36.s15.64
पीतवस्त्रधरशान्तो महाबलसमन्वितः । यज्ञसूत्रसमायुक्तो मकरस्थानकासनः ॥
v4.c36.s15.65
(अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)
v4.c36.s15.66
वरुणं पाशहस्तं तु शुक्लवर्णसमप्रभम् । अन्यहस्तेन वरदं सर्वाभरणभूषितम् ॥
v4.c36.s15.67
(सुप्रभेदागमे अष्टचत्वारिंशत्तमपटले ॥)
v4.c36.s15.68
सप्तहंसे रथे कार्यो वरुणो यादसां पतिः । स्निग्धवैदूर्यसंकाशः श्वेताम्बरधरस्तथा ॥
v4.c36.s15.69
किञ्चित्प्रलम्बजठरो मुक्ताहारविभूषितः । सर्वाभरणवान् राजन् ! महादेवश्चतुर्भुजः ॥
v4.c36.s15.70
वामभागगतं केतुं मकरं तस्य कारयेत् । छत्रं तु सुसितं मूर्ध्नि भार्या सर्वाङ्गसुन्दरी ॥
v4.c36.s15.71
वामोत्सङ्गगता कार्या मध्ये तु द्विभुजा नृप ! । उत्पलं कारयेद्वामे दक्षिणे(णं ?) देवपृष्ठगम् ॥
v4.c36.s15.72
पद्मपाशौ करे कार्यौ देवदक्षिणहस्तयोः । शङ्खं च रत्नपात्रं च वामयोस्तस्य कारयेत् ॥
v4.c36.s15.73
भागे तु दक्षिणे गङ्गा मकरस्था सचामरा । देवी पद्मकरा कार्या चन्द्रगौरी वरानना ॥ वामे तु यमुना कार्या कूर्मसंस्था सचामरा । नीलोत्पलकरा सौम्या नीलनीरजसन्निभा ॥ (विष्णुधर्मोत्तरे ॥)
v4.c36.s15.74
शङ्खकुन्देन्दुधवलः पाशहस्तो महाबलः । केयूरकुण्डली हारी पीतवासास्सुशोभनः ॥ आसीनो वा स्थितो वापि मकरे वरुणस्मृतः । (पूर्वकारणागमे चतुर्दशपटले ॥)
v4.c36.s15.75
वरं पाशौ व्यलं कुण्डी हस्तैर्बिभ्रत्क्रमाच्च यः । नक्रारूढः स कर्तव्यो वरुणः पश्चिमाश्रितः ॥ (रूपमण्डने ॥)
v4.c36.s15.76
वायुः । द्विभुजस्तु महीवीर्यस्ताम्राक्षो धूम्रसन्निभः । ध्वजं वै दक्षिणे हस्ते वामहस्ते तु दण्डधृक् ॥ कुञ्चितभ्रूयुतो वायुः श्वेताम्बरविभूषितः । नानाभरणसंयुक्तः केशाढ्यः केशैस्तु सुविकर्णकः ॥ सिंहासनपरिष्ठात्तु शीघ्रयात्रोत्सुकः स्थितः । वायुरेवं समाख्यातो रुद्रलक्षणमुच्यते ॥
v4.c36.s15.77
अनिलं धूम्रवर्णं तु मृगारूढं ध्रवं (धृत?)ध्वजम् । सव्येऽङ्कुशधरं श्यामं चात्मानं विधिवद् गतम् ॥ (सुप्रभेदागमे अष्टाचत्वारिंशत्तमपटले ॥)
v4.c36.s15.78
समीरणं प्रवक्ष्यामि सूत्रहरिणवाहनम् । पीताम्बरधरं देवं चित्ररत्नविभूषितम् ॥ वरदं दक्षिणं हस्तं वामहस्तं पताकयम्(या?) । बिभ्राणं कुण्डलोपेतं किरीटवरधारिणम् ॥ (शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे ॥)
v4.c36.s15.79
वायुरम्बरवर्णस्तु तदाकाराम्बरो भवेत् । काष्ठपूरितचक्रस्तु द्विभुजो रूपसंयुतः ॥ गमनेच्छुश्शिवा भार्या तस्य कार्या च वामतः । कार्यौ गृहीतचक्राङ्कः कराभ्यां पवनो द्विजः ॥ तथैव देवी कर्तव्या शिवा परमसुन्दरी । व्यावृतास्त्यतथा कार्यो देवो व्याकुलमूर्धजः ॥ (विष्णुधर्मोत्तरे ॥)
v4.c36.s15.80
कुञ्चितभ्रूर्युवा वायुस्ताम्रदृग् धूम्रसन्निभः । अङ्कुशेन करो वीर्यश्शम्बराम्बरसंयुतः ॥ मृगारूढो विधातव्यस्सर्वार्भरणभूषितः । एवं सदागतिस्सर्वव्यापकोऽयं समीरणः ॥ (पूर्वकारणागमे चतुर्दशपटले ॥)
v4.c36.s15.81
वरं ध्वजं पताका च कमण्डुलकरैर्दधत् । मृगारूढो हरिद्रम्म(र्ण:?) पवनो वायुदिक्पतिः ॥ (रूपमण्डने ॥)
v4.c36.s15.82
धनदः ।
v4.c36.s15.83
धनदस्सर्वयक्षस्सर्वाभरणभूषितः । तप्तकाञ्चनसङ्काशो हस्तद्वयसमन्वितः ॥
v4.c36.s15.84
वरदाभयहस्तश्च गदां वै वामहस्तके । करण्डमकुटोपेतस्सितवासोत्तरीयकः ॥
v4.c36.s15.85
दक्षभागे शङ्खनिधिर्वामे पद्मनिधिस्तथा । धनदस्य तु वामे तु देवीं कुर्यात्सलक्षणाम् ॥
v4.c36.s15.86
पद्मपीठोपरिष्ठात्तु द्विनेत्रो मेषवाहनः । रक्ताम्बरधरस्सौम्यश्शङ्खपद्मनिधियुतः ॥
v4.c36.s15.87
शङ्खपद्मनिधी द्वौ च भूताकारौ महाबलौ । आसीनौ पद्मपीठे तु पद्महस्तौ द्विजोत्तम ! ॥
v4.c36.s15.88
करण्डमकुटोपेतौ सितावासोत्तरीयकौ । धनदं ह्येवमाख्यातं प्राग्वद्रुद्रांश्च कल्पयेत् ॥ (अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)
v4.c36.s15.89
यक्षेशं तु गदाहस्तं श्यामरूपं भयावहम् । द्विबाहुं रक्तवस्त्राढ्यं रक्ताक्षं रक्तपाणिनम् ॥
v4.c36.s15.90
हरिमित्रं प्रवक्ष्यामि द्रव्यहारविभूषितम् । किरीटकुण्डलयुतं श्वेताम्बरविराजितम् ॥ नरयुक्तविमानस्थं गदापाणिं वरप्रदम् । महोदरं महाबाहुं गौरवर्णं मनोहरम् ॥ अष्टभिर्निधिभिर्युक्तं द्रविणव्यग्रपाणिभिः । समन्ताद् गुह्यकैर्युक्तं चित्रकर्मणि लेखयेत् ॥ (शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे ॥)
v4.c36.s15.91
कर्तव्यः पद्मपत्राभो वरदो नरवाहनः । चामीकराभो वरदस्सर्वाभरणभूषितः ॥ लम्बोदरश्चतुर्बाहुर्वामपिङ्गललोचनः । आपीच्यवेषः कवची हारभारी मनोहरः ॥ द्वे च दंष्ट्रे मुखे तस्य कर्तव्ये इमश्रुधारिणः । वामेन विभवा कार्या मौलिस्तस्यारिमर्दन ! ॥ वामोत्सङ्गगता कार्या वृद्धिर्देवी वरप्रदा । देवपृष्ठगतं पाणिं द्विभुजायास्तु दक्षिणम् ॥ रत्नपात्रधरं कुर्याद्वामं रिपुनिषूदन ! । गदाशक्ती च कर्तव्ये तस्य दक्षिणहस्तयोः ॥ सिंहार्कलक्षणं केतुं शिविकामपि पादयोः (?) । शङ्खपद्मनिधी कार्यौ सरूपौ निधिसंस्थितौ ॥
v4.c36.s15.92
शङ्खपद्माञ्जिक्रान्तं वदनं तस्य पार्श्वयोः (?) । (विष्णुधर्मोत्तरे ॥)
v4.c36.s15.93
मकुटी कुण्डली हारी केयूरी नरवाहनः । यक्षराजः कुबेरोऽयं तप्तकाञ्चनसन्निभः ॥
v4.c36.s15.94
शङ्खपद्मनिधियुक्तो गदाहस्तो निधीश्वरः । (पूर्वकारणागमे चतुर्दशपटले ॥)
v4.c36.s15.95
गदानिधीबीजपूरकमण्डलुधरः करैः । गजारूढः प्रकर्त्तव्यः सौम्ययो (?)नरवाहनः ॥ (रूपमण्डने ॥)
ईशः ।
v4.c36.s15.t1.1
ईशो वै द्विभुजशान्तस्सर्वाभरणभूषितः । जटामकुटसंयुक्तश्शुक्लवस्त्रयुतिः स्थितः ॥
v4.c36.s15.t1.2
शुक्लज्ञोपवीतश्च शुक्लपद्मोपरि स्थितः । शूलं दक्षिणहस्ते तु कपालं वामहस्तके ॥
v4.c36.s15.t1.3
ईशानमेवमाख्यातं ततो वै भास्कराकृतिः । (अंशुमद्भेदागमे एकोनपञ्चाशपटले ॥)
v4.c36.s15.t1.4
ईशानं तु चतुर्बाहुं त्रिनेत्रं तु जटाधरम् । शूलपाणिं वृषारूढं वरदाभयपाणिनम् ॥
v4.c36.s15.t1.5
ईशानं संप्रवक्ष्यामि शारदेन्दुसमप्रभम् । शुभ्रं वृषभमारूढं बालेन्दुकृतशेखरम् ॥
v4.c36.s15.t1.6
जटामण्डलभूषाढ्यं लोचनत्रयभूषितम् । त्रिशूलपाणिं वरदं व्याघ्रचर्माम्बरावृतम् ॥
v4.c36.s15.t1.7
मणिकुण्डलभूषाढ्यं नागयज्ञोपवीतिनम् । लिखेदेवंविधं देवं चित्रकं चित्रकोविदः ॥
v4.c36.s15.t1.8
(शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे ॥)
v4.c36.s15.t1.9
वृषारूढो महाराजो धवलः पिङ्गलेक्षणः । त्रिशूलपाणीशानस्त्रिनेत्रो लोकशङ्करः ॥
v4.c36.s15.t1.10
(पूर्वकारणागमे चतुर्दशपटले ॥)
v4.c36.s15.t1.11
वरं तथा त्रिशूलं च भागेद्र(?)बीजपूरकम् । बिभ्राणो वृषमारूढ ईशानो धवलद्युतिः ॥
Cites (7)
- Suprabhedāgama — Sanskrit
- Kāśyapaśilpa — Sanskrit
- Bṛhatsaṃhitā — Varāhamihira, Sanskrit
- Kāraṇāgama — Sanskrit
- Viṣṇudharmottarapurāṇa — Sanskrit
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit
- Rūpamaṇḍana — Maṇḍana, Sanskrit