Elements of Hindu Iconography v4.c36.s2: लिङ्गोद्भवादिचतुर्मूर्तयः ।
Elements of Hindu Iconography v4.c36.s2
- Language
- English
Contents
- v4.c36.s2.t1 पाशुपतास्त्रमूर्तिः ॥ — 2 parts
लिङ्गोद्भवादिचतुर्मूर्तयः ।
v4.c36.s2.1
लिङ्गोद्वादिचतुर्मूर्तयः ।
v4.c36.s2.2
लिङ्गोद्भवमूर्तिः ।
v4.c36.s2.3
अथ वक्ष्ये विशेषेण लिङ्गोद्भवविधिं शृणु । लिङ्गाकारस्य मध्ये तु चन्द्रशेखरमूर्तितवत् ॥ नळकात्तलपर्यन्तं लिङ्गे शूलसमन्वितम् । ब्रह्मापि हंसरूपेण ऊर्ध्वै वै वामपार्श्वके ॥ विष्णुर्राहरूपेण दक्षिणेंऽशे त्वधोगतः । विष्णुर्दक्षिणपार्श्वे तु वामपार्श्वे पितामहः ॥ हृदयेऽञ्जलिसंयुक्तौ स्थितौ लिङ्गं समीक्ष्य च । रक्तश्यामहिरण्याभा ईशविष्णुपितामहाः ॥ एवं लिङ्गोद्भवं ख्यातं वृक्षसङ्ग्रहणं ततः । (अंशुमद्भेदागमे षट्सप्ततितमपटले ॥)
v4.c36.s2.4
पूर्ववत्कारयेत्सभ्यक् चन्द्रशेखरमूर्तितनम् । लिङ्गाधः शर्वजान्वन्तभागं नेन्द्रियगोचरम् ॥ लिङ्गोर्ध्वाधःप्रदेशे तु हंससूकरमाचरेत् । बिम्बस्याननमानेन कारयेद्वसमादरात् ॥
v4.c36.s2.5
बिम्बद्विमुखमानेन भूकृष्टास्यं तु सूकरम् । ब्रह्मविष्णू द्विपार्श्वस्थौ नतौ तस्यानुकूलकौ ॥
v4.c36.s2.6
तिर्यग्गतसुपादौ तौ सर्वावयवसुन्दरौ । लिङ्गोद्भवस्त्विति ख्यातो ब्रह्मविष्णुभिनन्दितः ॥
v4.c36.s2.7
ब्रह्मविष्णुविहीनो वा हंससूकरसंयुतः ।
v4.c36.s2.8
(उत्तरकामिकागमे पञ्चाशत्तमपटले ॥)
v4.c36.s2.9
लिङ्गं कृत्त्वोर्ध्वतो ब्रह्मा हंसरूपं तथैव च । विष्णुं वराहवक्त्रं तु लिङ्गस्याधः प्रकल्पयेत् ॥
v4.c36.s2.10
हृदयेऽञ्जलिसंयुक्तौ ब्रह्मविष्णू च पार्श्वयोः । लिङ्गमध्ये तु कर्तव्यं पूर्ववच्चन्द्रशेखरम् ॥
v4.c36.s2.11
अदृश्या तस्य पादाब्जौ तथैव मुकुटं यथा ।
v4.c36.s2.12
(सुप्रभेदागमे चतुस्त्रिंशत्तमपटले ॥)
v4.c36.s2.13
अथ लिङ्गोद्भवं वक्ष्ये लिङ्गाकारस्य मध्यतः । नलकात् पादस्य तलं लिङ्गे शूलसमायुतम् ॥
v4.c36.s2.14
चन्द्रशेखरवत्सर्वं कारयेत्सुन्दराकृतिम् । ब्रह्मा तु हंसरूपेण ऊर्ध्वगो वामपार्श्वतः ॥
v4.c36.s2.15
विष्णुर्वराहरूपेण दक्षिणांशे त्वधोगतः । हृदयेऽञ्जलिसंयुक्तौ रक्तश्यामनिभौ परम् ॥
v4.c36.s2.16
वीक्षमाणौ परं लिङ्गमिदं लिङ्गोद्भवं स्मृतम् ।
v4.c36.s2.17
(शिल्परत्ने द्वाविंशपटले ॥)
v4.c36.s2.18
आयामं यत्तु लिङ्गस्य भूतांऽशं विभजेत्ततः । ऊर्ध्वे व्योमांऽशं त्यक्त्वा मूले चैव तथा भवेत् ॥ तन्मध्ये कारयेद्वीमांश्चन्द्रशेखरमूर्त्तिताम् । अजविष्णू द्विपार्श्वे द्वौ नमस्कृत्वानुकूलकौ ॥ धर्मांशं विभजेल्लिङ्गं शरांऽसमुदयान्तयोः । लिङ्गोर्ध्वे कारयेद्वंसमधस्तात्सूकराननम् ॥ विष्णुं सङ्कल्पयेदुर्वीमाननेनैव कर्षितम् । बिम्बस्य द्विमुखेनैव हंसरूपं तु कारयेत् ॥ ऋज्वागतिस्थितिं वामादरदाभयहस्तकम् । कृष्णापरशुसंयुक्तं कारयेदिन्दुशेखरम् ॥ अधोभागे तु भागेन जान्वन्तं तु न दृश्यकम । एवं लिङ्गोद्भवं कुर्याच्चन्द्रशेखरमुच्यते ॥
v4.c36.s2.19
(कारणागमे एकादशपटले ॥)
v4.c36.s2.20
लिङ्गाकारस्य मध्ये तु चन्द्रशेखरवत्स्थितम् । नलकाधस्थितं पादं लिङ्गोद्भवसमन्वितम् ॥ विरिश्चिहंसरूपेण चोर्ध्वगो वामपार्श्वके । दक्षे वराहरूपस्य रूपेणाधोगतो हरिः ॥
v4.c36.s2.21
वामदक्षिणपार्श्वस्थौ कृताञ्जलिसमन्वितौ । स्वरूपेण द्विपादस्थावविष्णू विभोः परे ॥ एवं लिङ्गावतारां तु सर्वशान्तिकरं सदा । तुङ्गाङ्गविस्तृतितनांसकलम्बमानैस्संपन्नचिह्नभुजभूषणवर्णभेदैः । शोभान्वितं शुभकरं सकलप्रजानामैश्वर्यसद्धपरिद्धिकरं विदध्यात् ॥ (श्रीतत्त्वनिधौ ॥)
v4.c36.s2.22
चन्द्रशेखरमूर्तिः ।
v4.c36.s2.23
इन्दुमौलिप्रतिष्ठां तु वक्ष्ये लक्षणपूर्विकां । आपाद्य च शिलादीनि तैः कुर्यात्प्रतिमां गुरुः ॥ चतुर्भुजस्त्रिनेत्रश्च समपास्थानके स्थितः । वराभयसमायुक्तपूर्वस्थकरपल्लवः ॥ वरदं वामहस्ते स्यादभयं दक्षिणे करे । वरदं यदि तं कुर्याद्धान्यास्सिंहकर्णिकः ॥ ऊरुस्पृष्टकरो वापि कटको वा विधीयते । मृगङ्ककरावन्वयौ दोस्सीमान्तं व्यवस्थितौ ॥ मृगङ्कौ तु कर्णान्तौ कर्त्तरीसंव्यवस्थितौ । पराङ्मुखोऽभिमुखो वा मृगङ्कः पराङ्मुखः ॥ रत्नपत्रिकया वापि शङ्खपत्रिकयापि वा । पद्मपत्रिकया वापि शोभितं वामकर्णकम् ॥
v4.c36.s2.24
सव्यं मकरसिंहाख्यपत्रकुण्डलकैर्युतम् । पृष्ठतः कर्णपर्यन्तं केशवर्तिविलम्बनम् ॥ पार्श्वयोर्बाहूमूलात्तु जटाग्राणां विलम्बनम् । हारयुग्रीवसंयुक्तं तथा कर्णिकयान्वितम् ॥ वक्षस्थलं प्रकर्तव्यं भुजाः केयूरसंयुताः । सुपत्रवलयोपेतास्सर्वरत्नोपशोभिताः ॥ मुक्तादामविलम्बाश्च तदग्रं मणिभूषणम् । कराग्रं कटकोपेतमङ्गुल्यो मुद्रिकान्विताः ॥ छन्नवीरोत्तरीयोपवीतैस्र्तोदरबन्धनः । समस्तरत्नपाशाढ्यकृविमानदामभिः ॥ संयुक्तकटिसूत्रोऽन्तः पादजालकसंयुतः । चन्द्रशेखर एवं स्याद्देव्या च सहितो न वा ॥ सापीहाभिन्नपीठा वा देवेनालिङ्गिताथवा । तयालिङ्गितदेवो वा अन्योन्यालिङ्गितस्तु वा ॥ आलिङ्गनयुतो वा स्यान्निरालिङ्गोऽथवा मतः ।
v4.c36.s2.25
(उत्तरकामिकागमे अष्टाचत्वारिंशत्तमपटले ॥)
v4.c36.s2.26
ऋज्वागतं तु तं देवं मृगं परशुधारिणम् । कृत्त्यम्बरधरं देवं कर्तव्यं चन्द्रशेखरम् ॥
v4.c36.s2.27
(सुभेदागमे चतुर्विंशत्तमपटले ॥)
v4.c36.s2.28
लिङ्गं च विष्णुरूपं च विन्दिशेखरम् । (पूर्वकारणागमे एकादशपटले ॥)
v4.c36.s2.29
अभयवरहस्तं सौम्यशृङ्गारभावं विपुलवदननेत्रं चन्द्रबिम्बांशमौलिम् । ऋजुतनुसमपादस्थानकं विद्रुमाभं हरिणपरशुपाणिं पद्मपीठोपरिस्थम् ॥
v4.c36.s2.30
एतत्पार्श्वस्थगौरी ।
v4.c36.s2.31
श्यामां त्रिनेत्रां द्विभुजां त्रिभङ्गीं सव्यापसव्यस्थितकुञ्चिताङ्घ्रिम् । सव्ये तु नीलोत्पलचारुहस्तां देवस्य वामस्थितपद्मपीठाम् ॥ (श्रीतत्वनिधौ ॥)
v4.c36.s2.32
केवलमूर्तिः ।
v4.c36.s2.33
अभयं दक्षिणं हस्तं वरदं वाममुच्यते । वरदं वामहस्तं तु अधोमुखं प्रकल्पयेत् ॥ तलमूलं कटिपृष्ठं मेढ्रान्तं तु तत्करे । ऊर्ध्ववक्तं तु वरदं पृष्ठं नाभिसमोद्धृतम् ॥ आर्जवं राजसं भावं कल्पयेद्विजसत्तम ! । कर्तरी परहस्ते द्वौ टङ्कं वै दक्षिणे करे ॥ हरिणी च बाह्यवक्तं आभ्यन्तरमुखं तु वा । जटामकुटसंयुक्तं दक्षिणार्धेन्दुसंयुतम् ॥
v4.c36.s2.34
वामेन्दुशेखरं वाथ प्रवालसदृशप्रभम् । त्रिनेत्रं सौम्यवदनं सर्वाभरणभूषणम् ॥ पीताम्बरं तथा देवं वस्त्राग्रौ नलकान्तगौ । उभयोः पार्श्वयोरेवमम्बरं तूरुमध्यगम् ॥ (अंशुमद्भेदागमे त्रिषष्टिमपटले ॥)
v4.c36.s2.35
केवलं गौरिसहितमालिङ्गं च त्रिधा भवेत् । केवलं समपादं तु स्थान [कं परि*] कल्पयेत् ॥ अभयं दक्षिणं हस्तं वरदं वाममुच्यते । हरिणी वामहस्ते तु टङ्कं वै दक्षिणे करे ॥ जटामुकुटसंयुक्तं दक्षिणेर्धेन्दुशेखरम् । वामेन्दुशेखरं वाथ प्रवालसदृशप्रभम् ॥ त्रिनेत्रं सौम्यवदनं सर्वाभरणभूषितम् । पीताम्बरधरं देवं वस्त्राग्रै नलकान्तगौ ॥ उभयोः पार्श्वयोरेवं मध्यतश्चोरुमध्यगम् । (शिल्परत्ने द्वाविंशपटले ॥)
v4.c36.s2.36
पाशुपतमूर्तिः ।
v4.c36.s2.37
अथ वक्ष्ये विशेषेण पाशुपतस्य लक्षणम् । समपादं स्थानकं स्याच्चन्द्रशेखरमूर्तितत् ॥
v4.c36.s2.38
त्रिनेत्रं चतुर्भुजं सौम्यमूर्ध्वकेशं महातनुम् ।
अभयं शूलहस्तं च दक्षिणे तु करद्वयम् ॥
वरदं चाक्षमालां च वामपार्श्वे करद्वयम् ।
प्रवालसदृशप्रख्यं सौम्यनेत्रातिशीतलम् ॥
सर्वाभरणसंयुक्तं किञ्चित्प्रहासाननम् ।
नित्योत्सवाय बिम्बं तत्स्थानकं वासनं तु वा ॥
v4.c36.s2.39
(अंशुमद्भेदागमे एकसप्ततितमपटले ॥)
v4.c36.s2.40
अथ पाशुपतं वक्ष्ये चन्द्रशेखरवस्थितम् ।
चतुर्भुजं त्रिनेत्रं चाप्यूर्ध्वकेशं महातनुम् ॥
दक्षिणेऽभयकं शूलं कपालं वरदं परे ।
प्रवालसदृशप्रख्यं सर्वाभरणभूषितम् ॥
v4.c36.s2.41
(शिल्परत्ने द्वाविंशपटले ॥)
v4.c36.s2.42
बलिभर्तुः प्रतिष्ठां तु वक्ष्ये तल्लक्षणं तु वै ।
नित्योत्सवे तु कथितं सूत्राद्यं चेन्दुमौ लिवत् ॥
प्रायाश्चित्तादिके वाथ सर्वकामप्रसिद्धये ।
नित्योत्सवेऽपि तच्छ्रेष्ठं तं मन्त्रैश्च विशेषतः ॥
v4.c36.s2.43
(उत्तरकामिकागमे त्रिपञ्चाशत्तमपटले ॥)
v4.c36.s2.44
रौद्रपाशुपतमूर्तिः ।
v4.c36.s2.45
तदेवाग्निसमं वर्णं रक्ताक्षं कुटिलभ्रुवम् । तीक्ष्णदंष्ट्रसमायुक्तं व्यालयज्ञोपवीतिनम् ॥ ज्वालानलशिखाकारमतिरक्तकवस्त्रधृ । शूलं त्वधोमुखं धृत्वा कपालं वरदोद्धृतम् ॥ अथवाभयं विना शूलमूलं धृत्वा तु तत्करे । शूलाग्रं वरदेनैव गृह्य तिर्य्यगतोद्धृतम् ॥ दक्षिणे त्वपरे हस्ते टङ्कं खड्गं च वामके । रौद्रं पाशुपतं ह्येतद्विलिलिङ्गे तु पूजितम् ॥ एतन्मूर्तिं सकृद् ध्यायेत्सर्वशत्रुविनाशनम् । एतत्तु रौद्रमूर्तिं तु प्रतिमां तु न कारयेत् ॥
v4.c36.s2.46
(अंशुमद्भेदागमे एकसप्ततितमपटले ॥)
v4.c36.s2.47
अथातस्संप्रवक्ष्यामि अस्त्रराजस्य पूजनम् । चतुर्भुजं त्रिनेत्रं च शिखाकूटसमुज्ज्वलम् ॥ वामसव्ये च शूलं तु वरदाभयहस्तकम् । रौद्रपाशुपतं ह्येवं बलिबिम्बं तथोच्यते ॥
v4.c36.s2.48
(सुप्रभेदागमे द्विपञ्चाशत्तमपटले ॥)
पाशुपतास्त्रमूर्तिः ॥
v4.c36.s2.t1.1
चतुर्वक्त्रं चतुर्बाहुं सूर्यकोटिसमप्रभम् ।
संहाराभं सुसूर्धानं प्रतिवक्त्रं त्रिलोचनम् ॥
दीप्तदन्ताम्रकेशभ्रश्मश्रुभीमं महाबलम् ।
शक्तिमुद्गरशङ्खासीन्दधानं सोमसूत्रिणम् ॥
साङ्गं पाशुपतं शस्त्रं भजे पद्मासने स्थितम् ।
v4.c36.s2.t1.2
सुखासनादिमूर्तयः ।
Linked texts (5)
- Suprabhedāgama — Sanskrit
- Kāśyapaśilpa — Sanskrit
- Kāraṇāgama — Sanskrit
- Tattvanidhi — Kṛṣṇadevarāya, Sanskrit
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit