Pramāṇa · Search · About · API

Elements of Hindu Iconography v4.c36.s3.t2: सोमास्कन्दः ।

Elements of Hindu Iconography v4.c36.s3.t2

Language
English

सोमास्कन्दः ।

v4.c36.s3.t2.1

वक्ष्यामि सोमोमास्कन्दसुखस्थापनं परम् । तल्लक्षणसमायुक्तं तच्चेदानीं प्रकथ्यते ॥ चतुर्भुजस्त्रिनेत्रश्च जटामकुटमण्डितः । सर्वाभरणसंयुक्तो वरदाभयहस्तकः ॥ कृष्णापरशुयुक्तोर्ध्ववामेतरकरान्वितः । असव्यसव्यकर्णस्थपत्रिकानक्रकुण्डलः ॥ सोपवीतः प्रसन्नात्मा शयितासव्यपात्तलः । सालम्बदक्षपादेन वामे गौर्या च संयुतः ॥ सर्वलक्षणसंयुक्तस्सर्वाभरणभूषितः । वामे देव्या समायुक्तस्तध्यायप्रसिद्धया ॥ ससोमस्सोम एव स्यात्सोमास्कन्दविधिर्भवेत् । देवेश्चदशभागैकभागेनाथ द्विभागतः ॥ त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः । द्विनेत्रस्द्विबाहुश्च करण्डमकुटान्वितः ॥

v4.c36.s3.t2.2

कर्णयोर्नक्रपिण्डेन सर्वाभरणभूषितः । दक्षभागकरस्थाब्जः प्रसारितकरोऽपरः ॥ द्विहस्तपङ्कजो वाथ नृत्तरूपयुतोऽथवा । देव्यूरसंस্থিতो वापि निष्पङ्कजकरोऽथवा ॥ आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः । स्कन्दमारहितस्त्वेव स्यात्तु सुखासनः ॥ सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ।

v4.c36.s3.t2.3

(उत्तरकामिकागमे सप्तचत्वारिंशत्तमपटले ॥)

v4.c36.s3.t2.4

सहासने हुमादेवीं सुसौम्यवदनोज्ज्वलाम् । द्विभुजां पद्महस्तां तु मकुटाभरणान्विताम् ॥ कटकाख्यधरां वामे प्रसारितमथापि वा । उमाबाहस्तनान्तं वा मानं वै षण्मुखस्य तु ॥ कण्ठे शूलसमायुक्तं छन्नवीरसमायुतम् । उमाशङ्करयोर्मध्ये स्कन्दं वै बालरूपिणम् ॥ आसनं स्थानकं वापि वरदं कटकान्वितम् । कृत्वा सुखासनं यद्वत् पूर्ववत्परमेश्वरम् ॥ देवस्य मुखमन्वीक्ष्य किञ्चिद् गौरीं तु कारयेत् ।

v4.c36.s3.t2.5

(सुप्रभेदागमे चतुर्विंशत्तमपटले ॥)

v4.c36.s3.t2.6

अथ वक्ष्ये विशेषेण सोमास्कन्देश्वरं परम् । सुखासनं यथा प्रोक्तं तथा देवो विधीयते ॥

v4.c36.s3.t2.7

देवस्य वामपार्श्वे तु पार्वती च सहासने । शाययेदक्षिणं पादं वामपादं प्रलम्बयेत् ॥

v4.c36.s3.t2.8

वरदं वामहस्ते तु दक्षिणे चोत्पलं करे । दूर्वाश्यामनिभा देवी सर्वाभरणभूषिता ॥

v4.c36.s3.t2.9

रक्ताम्बरधरा हारमकुटोज्वलन्विता । वामोरुबाह्ये पीठे तु वामहस्ततलं न्यसेत् ॥

v4.c36.s3.t2.10

प्रहृदुत्पलसंयुक्तमन्यमेवं करोतु वा । देवीदेवेशयोर्मध्ये स्थापयेत्स्कन्दमूर्तिमन् ॥

v4.c36.s3.t2.11

केशान्ते वापिकोपेतं करण्डमकुटोज्वलम् । उभयोर्हस्तयोः पुष्पं वामे वरदमेव वा ॥

v4.c36.s3.t2.12

कटकं वाथ तद्धस्ते सिंहकर्णमथापि वा । अथवा पुस्तकं दक्षहस्ते वामे उक्तवत् ॥

v4.c36.s3.t2.13

कटिसूत्रयुतं नग्नं बाहुभूषणभूषितम् । आसीनं वा स्थितं वाथ नृत्तं वा स्कन्दमाचरेत् ॥

v4.c36.s3.t2.14

नृत्तं चेत् फलवद्वामहस्तमन्यत्र सूचिकम् । अथवा वामहस्तं तु फलं त्यक्त्वा प्रसारयेत् ॥

v4.c36.s3.t2.15

वक्ष्यमाणविधानेन स्कन्दवृत्तं समाचरेत् ।

v4.c36.s3.t2.16

चतुर्भुजं त्रिनेत्रं च जटामुकुटसंयुतम् । सर्वाभरणसंयुक्तं वरदाभयहस्तकम् ॥

v4.c36.s3.t2.17

कृष्णापरशुसंयुक्तं दक्षिणे वामकेऽपि च । पत्रं तु वामकर्णे तु दक्षिणे कुण्डलं भवेत् ॥

v4.c36.s3.t2.18

उपवीतधरं चैव शयनं वामपादकम् । लम्बितं दक्षिणं पादं वामे गौरीसमायुतम् ॥

v4.c36.s3.t2.19

तयोर्मध्ये स्थितस्कन्दस्सर्वलक्षणसंयुतः । ब्रह्मविष्णू द्विपार्श्वाभ्यां देवीभ्यां युक्तभोगदम् ॥

v4.c36.s3.t2.20

देवस्य बाहुसीमान्तं देव्यास्तवायाममुच्यते । द्विबाहुका द्विनेत्री च करण्डमकुटान्विता ।

v4.c36.s3.t2.21

सर्वाभरणसंयुक्ता दुकूलवसनान्विता । शयनं दक्षिणं पादं वामपादं तु लम्बितम् ॥

v4.c36.s3.t2.22

कटकं दक्षिणं हस्तं वरदं वामहस्तकम् । बेरायामं तु विभजेदष्टधा चैव भागिकम् ॥

v4.c36.s3.t2.23

द्विभागं वा गुहायामं बाहु(ल?)रूपेण कल्पयेत् । द्विभुजश्च द्विनेत्रश्च सर्वाभरणभूषितः ॥

v4.c36.s3.t2.24

कटकं दक्षिणे हस्ते वामहस्तं प्रलम्बितम् । आसीनो वा स्थितो वापि कारयेत्तु गुहं ततः ॥

v4.c36.s3.t2.25

पद्मपीठोर्ध्वके वापि केवलं पीठोपरि । भवानीसहितं ह्येवं वृषवाहनमुच्यते ॥ (पूर्वकारणागमे एकादशपटले ॥)

v4.c36.s3.t2.26

उमामहेश्वरौ ।

v4.c36.s3.t2.27

युग्मं स्त्रीपुरुषं कार्यमुमेशौ दिव्यरूपिणौ । अष्टवक्त्रं तु देवेशं जटाचन्द्रार्धभूषितम् ॥ द्विपाणिं द्विभुजां देवीं सुमध्यiं सुपयोधराम् । वामपाणिं तु देवस्य देव्यास्कन्धे नियोजयेत् ॥ दक्षिणं तु करं शम्भोरुत्पलेन विभूषितम् । देव्यास्तु दक्षिणं पाणिं स्कन्धे देवस्य कल्पयेत् ॥ वामपाणौ तथा देव्या दर्पणं दापयेच्छुभम् । (विष्णुधर्मोत्तरे ॥)

v4.c36.s3.t2.28

उमामहेश्वरं वक्ष्ये उमया सह शङ्करम् । मातुलिङ्गं त्रिशूलं च धत्ते दक्षिणे करे ॥ आलिङ्गन्वामहस्तेन नागेन्द्रं द्वितीये करे । हरस्कन्धे उमाहस्तो दर्पणं द्वितीये करे ॥ अधस्ताद्वृषभं कुर्यात्कुमारं च गणेश्वरम् । भृङ्गिरिटिं तथा कुर्यान्निमां सं नृत्यसंस्थितम् ।

v4.c36.s3.t2.29

सपरिवारोमामेश्वरः ।

v4.c36.s3.t2.30

वामे शैलसुता पुरस्तु वृषभः पश्चात्सुरेन्द्रादयो दैत्यारिश्च विधिश्च पार्श्वदलयोर्वाव्यादिकोणेषु च । भृङ्गी नारदबाणभैरवगजास्यस्कन्दवीरेश्वरा मध्ये शुभ्रसरोजकोमलरुचं शम्भुं भजे पाण्डुरम् ॥

v4.c36.s3.t2.31

(श्रीतत्वनिधौ)

v4.c36.s3.t2.32

संहारमूर्तयः ।

Cites (3)