Elements of Hindu Iconography v4.c36.s5: अनुग्रहमूर्तयः ।
Elements of Hindu Iconography v4.c36.s5
- Language
- English
Contents
- v4.c36.s5.t1 चण्डेशानुग्रहमूर्तिः । — 19 parts
- v4.c36.s5.t2 विष्णुवनुग्रहः ॥ — 31 parts
अनुग्रहमूर्तयः ।
चण्डेशानुग्रहमूर्तिः ।
v4.c36.s5.t1.1
अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं परम् । उमासहितवत्सर्वं वामे किंचिन्नताननम् ॥
v4.c36.s5.t1.2
दक्षिणे त्वभयं वर्ज्य तद्धस्तं वरदं भवेत् । वामे तु कटकं वर्ज्य तं न्यस्तवा चण्डमूर्धनि ॥
v4.c36.s5.t1.3
हृदयेऽञ्जिलिसंयुक्तश्चण्डेशो भक्तिसंयुतः । आसीनः पद्मपीठे तु चण्डेशस्वर्णसन्निभः ॥
v4.c36.s5.t1.4
देवीदेवेशयोर्मध्ये स्कन्दमूर्तिं विना बुधाः ! । चण्डेशानुग्रहं ख्यातं दक्षिणामूर्तिरुच्यते ॥
v4.c36.s5.t1.5
(अंशुमद्भेदागमे पञ्चसप्ततितमपटले ॥)
v4.c36.s5.t1.6
उमया सहितस्याथ चन्द्रशेखरमूर्त्तिनः । वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ॥
v4.c36.s5.t1.7
एवं(देवं ?) जानूरनाभ्यन्तस्तनवक्षोगलास्यगम् । सुखासीनं स्थितं वापि कृताञ्जलिपुटान्वितम् ॥
v4.c36.s5.t1.8
देवेक्षणसमोपेतं मल्लक्तं चण्डनायकम् । सर्वाङ्गसुन्दरं कुर्यात्कनिष्ठदशतालतः ॥
v4.c36.s5.t1.9
मालाग्रं देववरदे कटकेनेतरेण तु । देवशिरसि चण्डस्य मालया परिवेष्टयेत् ॥
v4.c36.s5.t1.10
(उत्तरकामिकागमे पञ्चपञ्चाशत्तमपटले ॥)
v4.c36.s5.t1.11
चण्डेशानुग्रहं देवमुमास्कन्दवदाचरेत् । वाम(मे?) किञ्चिन्नतं चास्यं दक्षिणे त्वभयं विना ॥
v4.c36.s5.t1.12
तद्धस्ते वरदं कार्यं वामे तु कुटं(कटकं?) विना । चण्डेशमूर्ध्नि विन्यस्य तद्धस्तं करुणान्वितम् ॥
v4.c36.s5.t1.13
हृदयेऽञ्जलिसंयुक्तश्चण्डेशो भक्तिसंयुतः । आसनाधस्तु(?)पासीनो भक्तिमान् स्वर्णसन्निभः ॥
v4.c36.s5.t1.14
(शिल्परत्ने द्वाविंशपटले ॥)
v4.c36.s5.t1.15
उमासहितवत्सर्वं स्कन्देनैव विना कुरु । किञ्चिदस्मिन् विशेषोऽस्ति तं विशेषं शृणु द्विजाः! ॥
v4.c36.s5.t1.16
कटकं दक्षिणे हस्तं वरदं वामहस्तके । देवस्य पुरभागं तु चण्डेशं तु प्रकल्पयेत् ॥
v4.c36.s5.t1.17
देवस्य बाहुमात्रेण चण्डेशायाममुच्यते । कृताञ्जलिपुटोपेतं चासीनं प्रतिवक्त्रकम् ॥
v4.c36.s5.t1.18
देवाशिरसि चण्डस्य मालया परिभूषयन् । चण्डेशानुग्रहं प्रोक्तं मुखलिङ्गं पुरोक्तवत् ॥
v4.c36.s5.t1.19
(पूर्वकारणागमे एकादशपटले ॥)
विष्णुवनुग्रहः ॥
v4.c36.s5.t2.1
नन्दीशानुग्रहस्त्वेवं तद्वद्विष्णुप्रसादकृत् । हित्वा नन्दीश्वरं तस्मिन्विष्णुं तल्लक्षणान्वितम् ॥ सचक्राञ्जलिहस्तं च शङ्खाब्जापरहस्तकम् । कारयेदेव एष स्याच्चक्रदो विष्णुमूर्त्तिनः ॥ कारयेदेवमेवान्यप्रसादाभिमुखं शिवम् ।
v4.c36.s5.t2.2
(उत्तरकामिकागमे पञ्चपञ्चाशत्तमपटले ॥)
v4.c36.s5.t2.3
विष्णुस्त्वीशपुरःस्थितोऽञ्जलिकरो देवस्य पादाब्जयो- स्संस्थाप्याक्षिलसत्सुमाल्यमनिशं पीताम्बरं कौस्तुभम् । यस्तस्मै दयया परं पशुपतिं पद्माक्ष इत्याख्यया टङ्कं कृष्णमृगं वरं च दधतं चक्रप्रदं तं भजे ॥ एकवक्तं त्रिनेत्रं च जटामकुटसंयुतम् । दधमेणं च परशुं वरं च चैव वामके ॥
v4.c36.s5.t2.4
दक्षिणे चक्रसंयुक्तं दातृरूपमिहोच्यते । देवस्य वामभागे तु श्यामरूपं सुसंस्थितम् ॥
v4.c36.s5.t2.5
सर्वाभरणसंयुक्तं पीतवस्त्रोत्तरीय कम् । शङ्खचक्रसमायुक्तमुत्तरे चाञ्जलिं न्यसेत् ॥
v4.c36.s5.t2.6
एवं लक्षणसंयुक्तं विष्णुरूपमिहोच्यते ।
v4.c36.s5.t2.7
(श्रीतत्त्वनिधौ ॥)
v4.c36.s5.t2.8
अथातस्संप्रवक्ष्यामि सर्वभूतहिताय च । चक्रदानस्वरूपं तु शृणु (ष्व) शरवणोद्भव ! ॥
v4.c36.s5.t2.9
त्रिनेत्रं चतुर्भुजं शान्तं जटामुकुटमण्डितम् । वामपादं तु शयनं लम्बितं सव्यपादकम् ॥
v4.c36.s5.t2.10
टङ्कं रथाङ्गं सव्ये च वर(दं) कृष्णमृगं तथा । वामे विष्णुसमायुक्तं कृताञ्जलिपुटान्वितम् ॥
v4.c36.s5.t2.11
वामे गौरीसमायुक्तमुत्तरे परमेष्ठिनम् । सर्वावयवसंयुक्तं सर्वलक्षणसंयुक्तम् ॥
v4.c36.s5.t2.12
पद्मपुष्पं समभ्यर्च्य हरिणा नेत्रपूजितम् । प्रभामण्डलमध्यस्थं शिरश्चक्रसमायुतम् ॥
v4.c36.s5.t2.13
एवं कल्प्य विशेषेण प्रतिष्ठां शृणु षण्मुख ! ।
v4.c36.s5.t2.14
नन्दीशानुग्रहः ।
v4.c36.s5.t2.15
नन्दीश्वरप्रसादे तु विशेषः कश्चिदिष्यते । द्विनेत्रं द्विभुजं शान्तं कृताञ्जलिपुटान्वितम् ॥
v4.c36.s5.t2.16
सुविकीर्णजटोपेतं जटामुकुटकान्वितम् । आभङ्गसहितं कुर्य्यादागमश्रवणोन्मुखम् ॥
v4.c36.s5.t2.17
नन्दीश्वरप्रसन्नं तु कारयेत्पूर्वमानतः ।
v4.c36.s5.t2.18
(उत्तरकामिकागमे पञ्चपञ्चाशत्तमपटले ॥)
v4.c36.s5.t2.19
विघ्नेश्वरवरप्रसन्नमूर्तिः ।
v4.c36.s5.t2.20
चतुर्भुजं त्रिनेत्रं च जटामुकुटसंयुतम् । अभयं शिरसि न्यस्य वरदं वामहस्तके ॥
v4.c36.s5.t2.21
कृष्णापरशुसंयुक्तं विघ्नेशो दक्षिणे स्थितः । शयानं दक्षिणं पादं दधं वामं तु लम्बितम् ॥
v4.c36.s5.t2.22
सर्वाभरणसंयुक्तं श्यामवर्णं सुशोभितम् । देवस्य वामपार्श्वे तु देवीं प्रहसिताननाम् ॥
v4.c36.s5.t2.23
सर्वालङ्कारयुक्तां सव्ये तूलपधारिणीम् । वामे वरदयुक्तां द्विभुजां च त्रिनेत्रकाम् ॥
v4.c36.s5.t2.24
दक्षिणे शयितं पादं दधं वामे तु लम्बितम् । एकपीठस्थितां देवीमुमास्कन्दोक्तवत्कुरु ॥
v4.c36.s5.t2.25
विघ्नशं रक्तवर्णं च किरीटमकुटान्वितम् । नमस्काराञ्जलिकरं पाशाङ्कुशसमन्वितम् ॥ सर्वलक्षणसंयुक्तं सर्वाभीष्टफलप्रदम् । विघ्नप्रसादमित्युक्तं . . . . . ॥ (श्रीतत्त्वनिधौ ॥)
v4.c36.s5.t2.26
अथातसंप्रवक्ष्यामि विघ्नेशानुग्रहं परम् । सर्वभूतहितं पुण्यं सर्वाभीष्टप्रदायकम् ॥ सर्वविघ्नविनाशार्थं कारयेद्देशिकोत्तमः । त्रिनेत्रं चतुर्भुजं शान्तं कुण्डलाभरणोज्वलम् ॥ बकपुष्पसुकेशं च स्तबकं चूलिकाकृतिम् । बकपत्रसमायुक्तं बकपुष्पसमन्वितम् ॥ आरग्वधस्रजं चैव स्तबकेन परिप्लुतुम् । अङ्कुशं त्वक्षमालां च भसितं वरदं तथा ॥ वामे गौरीसमायुक्तं सव्यभागे गजाननम् । गजाननस्य काले तु भसितं धार्य पाणिना ॥ दिव्यच्छत्रसमायुक्तं सर्वावयवसुन्दरम् । एवं संकल्प्य विधिवत्प्रतिष्ठां कारयेत्ततः ॥
v4.c36.s5.t2.27
किरातार्जनमूर्तिः ।
v4.c36.s5.t2.28
चतुर्भुजं त्रिनेत्रं च जटामकुटसंयुतम् । सर्वाभरणसंयुक्तं दिव्याम्बरसमावृतम् ॥ धनुर्बाणयुतं रक्तं कृष्णापरशुसंयुतम् । उपवीतसमायुक्तं समभङ्गतनुं कुरु ॥ वामे गौरीसमायुक्तं दक्षिणे त्वर्जुनं स्थितम् ।
v4.c36.s5.t2.29
अर्जुनस्वरूपम् ।
v4.c36.s5.t2.30
एकवक्त्रं द्विनयनं जटामकुटसंयुतम् । सर्वाभरणसंयुक्तं कृताञ्जलिपुटं स्थितम् ॥ एवं किराताख्यातम् . . . . . . . . . ।
v4.c36.s5.t2.31
(श्रीतत्वनिधौ ॥)
Cites (5)
- Kāmikāgama — Sanskrit
- Kāśyapaśilpa — Sanskrit
- Kāraṇāgama — Sanskrit
- Tattvanidhi — Kṛṣṇarāja III, Sanskrit
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit