Elements of Hindu Iconography v4.c36.s7: दक्षिणामूर्तिभेदाः ।
Elements of Hindu Iconography v4.c36.s7
- Language
- English
Contents
- v4.c36.s7.t1 वीणाधरदक्षिणामूर्तिः ॥ — 6 parts
दक्षिणामूर्तिभेदाः ।
v4.c36.s7.1
दक्षिणामूर्तिभेदाः
v4.c36.s7.2
व्याख्यानदक्षिणामूर्तिः । अथ वक्ष्ये विशेषेण दक्षिणामूर्तिलक्षणम् । लम्बयेद्दक्षिणं पादं वामाङ्गेर्नलकाग्रकम् ॥
v4.c36.s7.3
सव्योर्बग्रे निधातव्यं वामपादं तु शाययेत् । नतमध्यधर्मात्रं स्याच्चतुर्भुजसमन्वितम् ॥
v4.c36.s7.4
दक्षिणे पूर्वहस्तं तु ज्ञानमुद्रां तु धारयेत् । दक्षिणे परहस्तं तु अक्षमालाधरं परम् ॥
v4.c36.s7.5
वरदं वामहस्तं स्याद्दण्डहस्तमथापि वा । वामजानूपरिष्ठात्तु वरदे तलपृष्ठकम् ॥
v4.c36.s7.6
वामजानूपरिष्ठात्तु दण्डं चेत्कूर्परं न्यसेत् । वामे तु परहस्ते तु वह्निं वा व्यालमेव वा ॥
v4.c36.s7.7
अर्धार्जवक्रं१ सर्वाङ्गमार्जवं स्फटिकोपमम् । विकीर्णमूर्धजं वापि जटामण्डलमेव वा ॥
v4.c36.s7.8
¹ ‘अर्धार्जवक्त्र’ मित्यर्थस्य ‘अर्धेन्द्रवक्त्रसर्वाङ्गमदा स्फटिकोपमम्’ इति पाठान्तरम् ।
v4.c36.s7.9
......बद्धमूर्ध्नि वा जटामुकुटमेव वा ।
चतुर्भुजस्त्रिनेत्रस्तु कुन्देन्दुधवलप्रभः ॥
श्वेतविद्रुमहेमाभश्यामाभो वा प्रकीर्तितः ।
व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा ॥
उत्तरीयसमोपेतश्शुक्लज्ञोपवीतकः ।
विकीर्णमूर्धजो वापि जटामुकुट एव वा ॥
पट्टिकाबन्धनो वापि सत्करोटिकया युतः ।
धुस्तूरगर्वधैर्नगपत्रैश्चन्द्रेण मण्डितः ॥
पद्ममुद्रासमोपेतो गङ्गाकिङ्किणिसंयुतः ।
अधस्ताद्वटवृक्षस्य शैलाधूर्ध्व श्रितः पुनः ॥
व्याघ्रचर्मपरिधत्तु स्थितो वीरासनोऽथवा ।
लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् ॥
वामाङ्घ्रिलनकं कुर्यात्सन्यहस्तं तु मुद्रया ।
सन्दर्शसंज्ञोपेतौ वामहस्तस्थपुस्तकः ॥
अथवा नागसंयुक्तो वामहस्तस्समिरितः ।
वरदं तं विजानीयाज्जानुस्थमणिबन्धकः ॥
दण्डहस्तो यदा स स्यात्प्रकोष्ठं¹ जानुसंस्थितम् ।
विकसत्पद्मसङ्काशस्त्वधस्ताद्विस्तृताङ्गुलिः ॥
v4.c36.s7.10
¹ 'दण्डहस्ते यदा स स्याद्' इति पाठान्तरम् ।
v4.c36.s7.11
परहस्तद्वये चाक्षमालाज्वालासमन्वितः । पद्मं वा चोत्पलं वापि व्यालं वामे तु कल्पयेत् ॥
v4.c36.s7.12
कटको तौ प्रकर्तव्यौ प्रसन्नसलोचनः । नासाग्रदृष्टियुग्वामहस्तो वा स्यात्सुपुस्तकः ॥
v4.c36.s7.13
सजटामकुटा देवच्युकास्यगलान्तकाः । तत्तत्कलासमोपेताश्शुक्रयज्ञोपवीतिनः ॥
v4.c36.s7.14
शुक्लाम्बरसंयुक्ता भस्मरुद्राक्षसंयुताः । कौशिकः काश्यपश्श्यामस्त्वरौ पीतवर्णकौ ॥
v4.c36.s7.15
रक्तवर्णो भरद्वाजो धूमाभावत्रिगौतमौ । एषामेकद्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् ॥
v4.c36.s7.16
व्याख्यानमूर्तिरेवं स्याद्देयमूर्तिस्ततो मतः ।
v4.c36.s7.17
(उत्तरकामिकागमे एकपञ्चाशत्तमपटले ॥)
v4.c36.s7.18
दक्षिणामूर्तिमीशानं कुर्याद्वटतरोरधः । लम्बयेद्दक्षिणं पादं वामाङ्घ्रेलकाग्रकम् ॥
v4.c36.s7.19
सममेवं विधातव्यं वामपादं तु शाययेत् । दक्षिणे पूर्वहस्ते तु ज्ञानमुद्रां तु धारयेत् ॥
v4.c36.s7.20
दक्षिणे परहस्ते तु कारयेदक्षमालिकाम् । वरदं वामहस्ते तु दण्डं वा परिकीर्तितम् ॥
v4.c36.s7.21
वामजानूपरिष्ठात्तु दण्डं चेत्कूर्परं न्यसेत् । वामे परकरे तत्र वह्निं वा मृगमेव वा ॥
v4.c36.s7.22
विकीर्णमूर्धजं वापि जटामण्डलसंयुतम् । जटाभिर्बद्धमूर्तिर्वा जटामुकुटशोभितम् ॥ शुद्धस्फटिकसङ्काशं . . . . . । वामे धुर्धूर(धुस्तूर?)पुष्पं च नागं च शिरसि स्मृतम् ॥ दक्षिणेन्दुकलायुक्तं सर्वाभरणभूषितम् । सितवस्त्रोत्तरीयं च सितयज्ञोपवीतिनम् ॥ व्याघ्रचर्माम्बरोपेतं त्रिनेत्रं क्लेशवर्जितम् । रुद्राक्षं कण्ठमालां च हृन्मालां च विधापयेत् ॥ नारदो जमदग्निश्च वसिष्ठो दक्षपार्श्वके । भारद्वाजश्च शुकस्त्वगस्त्यो वामपार्श्वके ॥ वन्दितैः किन्नरैस्तु सेवितं भक्तिसंयुतैः । अपस्मारोपरिष्ठात्तु लम्बपादतलं न्यसेत् ॥ धर्मव्याख्यानमूर्तिः स्यादेवं सर्वशुभावहम् । (शिल्परत्ने द्वाविंशपटले ॥)
v4.c36.s7.23
दक्षेण मुद्रां प्रतिपादयन्तं सिताक्षसूत्रं च तथोर्ध्वभागे । वामे च पुस्तामखिलागमाद्यां बिभ्राणमूर्ध्वेन सुधाधरं च ॥ सिताम्बुजस्थं सितवर्णमीशं सिताम्बरालेपनमिन्दुमौलिम् । ज्ञानं मुनिभ्यः प्रतिपादयन्तं तं दक्षिणामूर्तिमुदाहरन्ति ॥
v4.c36.s7.24
चतुर्भुजं त्रिनेत्रं च द्वीपिचर्माम्बरान्वितम् । आवृतालङ्कृता भङ्गी शश्यर्ककुसुमान्वितम् ॥
v4.c36.s7.25
सद(न्दं?)शं दक्षिणं हस्तं पुस्तकं वामहस्तके । सव्यके चाक्षमालां च व्यालं वै वामहस्तके ॥
v4.c36.s7.26
पादाग्रे दष्टिपातं तु किंचिद्भङ्गसमायुतम् । लम्बितं दक्षिणं पादं तस्योर्वग्रस्य चोपरि ॥
v4.c36.s7.27
वामपादस्य नलकं संयुक्तं कारयेत्सुधीः । हिक्कामध्यं समारभ्य कटके मणिबन्धकात् ॥
v4.c36.s7.28
व्यन्तरं त्रियवं प्रोक्तमृषिसङ्घैस्समावृतम् । अगस्त्यश्च पुलस्त्यश्च विश्वामितोऽङ्गिरास्तथा ॥
v4.c36.s7.29
एवं व्याख्यानमूर्तिं तु गेयमूर्तिं शृणुष्वथ । (पूर्वकारणागमे एकादशपटले ॥)
v4.c36.s7.30
ज्ञानदक्षिणामूर्तिः ।
v4.c36.s7.31
तदेव वीणाहीनं तु ज्ञानमुद्रामयान्वितम् । वामं प्रसारितं हस्तं वामजानूरूपरम् ॥
v4.c36.s7.32
दक्षिणे त्वपरे चाक्षमाला वामेऽब्जमुत्पलम् । शुद्धश्वेतनिभं वर्णं शेषं पूर्वदाचरेत् ॥
v4.c36.s7.33
ज्ञानमूर्तिरिति ख्यातं सर्वकारणकारणम् । (अंशुमद्भेदागमे पञ्चसप्ततितमपटले ॥)
v4.c36.s7.34
अथवा पूर्वहस्ताभ्यां जानुमुद्राभयौ धृतौ । वामं प्रसारितं वाथ वामजानूर्ध्वकूर्परे ॥
v4.c36.s7.35
अपरे दक्षिणे त्वक्षमालामुत्पलमन्यतः । ज्ञानमूर्तिरिति ख्यातं सर्वकारणकारणम् ॥
v4.c36.s7.36
(शिल्परत्ने द्वाविंशपटले ॥)
v4.c36.s7.37
योगदक्षिणामूर्तिः ।
v4.c36.s7.38
अन्योन्याश्लिष्टतलं विप्र ! स्फिक्पिण्डाधः प्रकल्पयेत् । ज्ञानमुद्रां हृदि स्थाने त्वभ्यन्तरमुखं करम् ॥
v4.c36.s7.39
वरदं वामहस्तं तु मेढ्रपीठोपरि न्यसेत् । अपरे दक्षिणे चाक्षमालाब्जं वामहस्तके ॥
v4.c36.s7.40
नासाग्रं तु समीक्ष्याक्षमार्जवं सूत्रदेहकौ । अपरे तु जटालम्ब्य ऋषिभिस्सेवितं परम् ॥
v4.c36.s7.41
योगमूर्तिरिति ख्यातं ध्याने दुःखनिवृत्तिदम् । लम्बयेद्दक्षिणं पादं वामुत्कुटिका(त्कुटुका?)सनम् ॥
v4.c36.s7.42
योगपट्टिकयाबध्य देहं चोत्कुटिका(त्कुटुका?)ङ्किकम् । प्रसार्य वामहस्तं तु वामजानूपरि द्विज ! ॥
v4.c36.s7.43
प्रागिवैव कृतं शेषं सोऽप्यवं योगमूर्ति वै । ऊरूमूर्धनि समाश्रित्य अन्योन्यं पादपार्ष्णिकौ ॥
v4.c36.s7.44
योगपट्टिकयोपेतं जङ्घामध्ये द्विजोत्तम ! । प्रसार्य पूर्वहस्तौ द्वौ जानूपरि निधापितौ ॥
v4.c36.s7.45
अपरे दक्षिणे चाक्षमाला वामे कमण्डलुम् । जटामण्डलसंयुक्तं ततश्चन्द्रशेखरम् ॥
v4.c36.s7.46
नीलग्रीवासमायुक्तं शङ्खकुन्देन्दुसन्निभम् । अपरे शाययेदुक्षं नानासर्पविभूषितम् ॥
v4.c36.s7.47
हन्मा . . . . . रुद्राक्षैस्तु १ । एवं त्वनेकभेदेन दक्षिणामूर्तिरुच्यते ॥
v4.c36.s7.48
(अंशुमद्भेदागमे पञ्चसप्ततितमपटले ॥)
v4.c36.s7.49
व्याख्यानसहितस्त्वेव सन्दर्शस्य समास्ययुक् । तत्राक्षिपतयोगेन सदाकुञ्चितलोचनः ॥
v4.c36.s7.50
प्रसृतो वामहस्तस्याद्योगमूर्तिरयं मतः । अथ कुञ्चितवामाङ्घ्रियुग्मस्फिग्गतपार्ष्णिकः ॥
v4.c36.s7.51
उद्धृतं तस्य जान्वग्रं दण्डकूर्परकान्तयुक् । सदंस(सन्दर्श?)दृष्टिपातश्च आभङ्गं चैव पूर्ववत् ॥
v4.c36.s7.52
नानामृगैस्तु संकीर्णं नानाव्यालैस्तु संयुतः । नानामुनिगणैस्सार्धं सिद्धविद्याधरैरपि ॥
v4.c36.s7.53
¹ ‘अपरचायये वृक्षो नानासर्पविभूषितः । हन्माला कर्णमालाध्या दूर्ववृक्षै विराजितम् ॥’ इति पाठान्तरम् ।
v4.c36.s7.54
भूतैश्च किन्नरैर्वैः पुष्पवृक्षैश्च मण्डितम् । शैलं कुर्यात्तु तत्पार्श्वे वटवृक्षस्तु शाद्वलः ॥ फलशाखोपाशाखाढ्यो नानापक्षिसमायुतः । तन्मूले दक्षिणे छायानिषण्णः कू(कृ?)पया युतः ॥ रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे । आसीनो मुनिभिस्सम्यक् कौशिकादिभिरादरात् ॥ शिवद्विजकुलस्यादिभूतैस्तु परितस्थितैः । आगमाहितचेतोभिः परमेशेन दीक्षितैः ॥ एवं तु दक्षिणामूर्तिमूर्तिभेदा उदाहृताः । आसीनो वा स्थितो वापि ऋषिभिस्सं वृतो न वा ॥ वटवृक्षविहीनो वा भूताद्यावृत एव वा । भूतस्थलम्बपादो वा दक्षिणे शस्समिरितः ॥
v4.c36.s7.55
(उत्तरकामिकागमे एकपञ्चाशत्तमपटले ॥)
v4.c36.s7.56
अनयोन्याङ्घ्रितलं सम्यक् स्फिक्पिण्डाधः प्रकल्पयेत् । ज्ञानमुद्रां हृदि स्थाने त्वभ्यन्तरमुखं करम् ॥ वरदं वामहस्तं तु मेढ्रपीठोपरि न्यसेत् । अपरे चोत्पलं चाक्षमालां पूर्ववदाचरेत् ॥ नासाग्रं स्वं समीक्ष्य स्वमार्जवं देहमाचरेत् । सुविकीणर्जटायुक्तं योगमूर्त्तिरिति स्मृतम् ॥
v4.c36.s7.57
लम्बयेदक्षिणं पादं वाममुत्कुटि(क्टु ?)कासनम् । संबद्धय योगपट्टेन देहोत्कुटि(क्टु ?)काङ्क्षकौ ॥ प्रसार्य वामहस्तं तु वामजानूपरि स्थितम् । एतच्च योगमूर्तिस्त्याच्छेषं पूर्ववदाचरेत् ॥ ऊरूमूलं समाश्रित्य अन्योन्याबद्धपार्ष्णिकम् । योगपट्टिकयोपेतं जङ्घामध्ये विशेषतः ॥ प्रसार्य पूर्वहस्तौ द्वौ जानूपरि निधापितौ । अपरे दक्षिणे वाक्षमालां वाम(मे ?)कमण्डलुम् ॥ जटामण्डलसंयुक्तं करोर्ध्वेन्दुशेखरम् । नीलग्रीवासमायुक्तं शङ्खकुन्देन्दुसन्निभम् ॥ योगमूर्तिविशेषारख्यं शेषं प्रागिव कारयेत् ।
v4.c36.s7.58
(शिल्परत्ने द्वाविंशपटले ॥)
वीणाधरदक्षिणामूर्तिः ॥
v4.c36.s7.t1.1
तदेव वामपादेनोत्कुटि(क्टु ?)कासनसंयुतम् । पूर्वहस्तद्वयोर्वीणाधृतं युक्त्या द्विजोत्तम ! ॥ शेषं प्रागिव कर्तव्यमेतद्वीणाधरं भवेत् ।
v4.c36.s7.t1.2
(अंशुमद्भेदागमे पञ्चसप्ततितमपटले ॥)
v4.c36.s7.t1.3
ऊर्ध्वाधोमध्यकटकौ तस्यां सर्पकरावुभौ । वीणा तु दक्षिणे वाग्रे(दक्षिणोर्वग्रे ?)ऽदक्षिणे कटक(के ?)स्थितः॥
v4.c36.s7.t1.4
दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् । (उत्तरकामिकागमे एकपञ्चाशत्तमपटले ॥)
v4.c36.s7.t1.5
तदेव वामपादेनोत्कुटिकासनसंयुतम् । पूर्वहस्तद्वये वीणा चेत्तद्वीणाधरं स्मृतम् ॥ (शिल्परत्ने द्वाविंशपटले ॥)
v4.c36.s7.t1.6
कटकं दक्षिणं हस्तमधोमुखं तदुच्यते । वामहस्तं तु कटकसूर्ध्ववक्त्रं तदुच्यते ॥ तन्वीं निवेशयेदूरुकाग्रे दक्षिणपादके । वामहस्तस्य कटके सव्यहस्तं तथोपरि ॥ ऊरुबाह्यं त्रिमात्रं तु कटकोर्ध्वे युगाङ्गुलम् । दण्डायमामिति प्रोक्तं विस्तारं तु द्विमात्रकम् ॥ वा(ला?)बुवक्त्रं तु षण्मात्रमुत्सेधं तु तदर्थकम् । एतदेव विशेषं तु शेषं पूर्वोक्तवद्भवेत् ॥ दक्षिणामूर्तिरेवं स्याच्छृणु मन्मथनिग्रहम् ।
Cites (2)
- Kāśyapaśilpa — Sanskrit
- Śilparatna — Śrīkumāra (Śilparatna) 1500, Sanskrit