Pramāṇa · Search · About · API

Elements of Hindu Iconography v4.c36.s8: कङ्कालमूर्तिभिक्षाटनमूर्ती ।

Elements of Hindu Iconography v4.c36.s8

Language
English

Contents

कङ्कालमूर्तिभिक्षाटनमूर्ती ।

v4.c36.s8.1

कङ्कालमूर्तिभिक्षाटनमूर्ती ।

कङ्कालमूर्तिः ।

v4.c36.s8.t1.1

अथ कङ्कालमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना । पादौ तु पादुकोपेतौ वामपादं तु सुस्थितम् ॥

v4.c36.s8.t1.2

गमनापेक्षया सव्यपादमीषत्समुद्धतम् । शुद्धश्वेतनिभं वर्णं सर्वाभरणभूषितम् ॥

v4.c36.s8.t1.3

रक्तकञ्चुकबद्धाङ्गं जटामकुटमण्डितम् । धुस्तूरपुष्पनागं च वामे सव्येन्दुशेखरम् ॥

v4.c36.s8.t1.4

हसितं वक्त्रसन्धार्य्य सुगेयगणसेवितम् । किञ्चित्प्रकाशितान्तस्थदशनांशुविलासितम् ॥

v4.c36.s8.t1.5

गेयश्रृङ्गारसंयुक्तमास्यमेवं प्रकल्पयेत् । कर्णौ कुण्डलसंयुक्तौ वामे शङ्खदलं तु वा ॥

v4.c36.s8.t1.6

पूर्वहस्तद्वयोर्वामे डंक(ढक्का?)कसव्ये प्रहारकम् । दक्षिणं हिमं वक्रव्यात(हरिणीवक्त्रे व्यापितं?) सिंहकर्णवत् ॥

v4.c36.s8.t1.7

वामहस्ते तु पिञ्छं च कङ्कालास्थि च धारयेत् । तदस्याकृति निर्मासं द्विपादं द्विकरान्वितम् ॥

v4.c36.s8.t1.8

कृष्णश्यामनिभाकारमरे(मपाने?) दण्डवेशनम् । दण्डे कङ्कालपादौ द्वौ रज्जुना बन्धयेद्बुधः ॥ केतुकिकिङ्किणेत्राभ्यां निष्क्रान्तरुधिरं तु वा । एतत्कङ्कालनाम्ना तु वामस्कन्धोपरि न्यसेत् ॥ अनेकभूतर्जायाभिरसेवितं त्वादरान्वितैः । बलिपात्रधृतं भूतं वामेऽग्रे गमनान्वितम् ॥ दर्वी त्वन्नं तु तत्पात्रे निधायाकृतिजायया । किञ्चित्प्रकाशितं योनिंसयुक्तानतवाससा ॥ संभ्रान्तमनसोपेता जायासर्वास्त्वनेकशः । व्याघ्रचर्माम्बरोपेतं दुकूलवसनान्वितम् ॥ दक्षिणे कटिपार्श्वे तु छुरिकां चैव बन्धयेत् । उभयोः पार्श्वयोर्हस्तं नानानागविभूषितम् ॥ ऋषिभिर्देवगन्धर्वसिद्धविद्याधरादिभिः । हृदयेऽञ्जलिसंयुक्तैस्संभ्रान्तमसान्वितैः ॥ आमानीतस्वमानान्तं सेवितं तैः सुपूजितम् । वीधी(थी?)स्संमार्जयेद्वायुः पर्जन्यो जलसेचनम् ॥ पुष्पवृष्टिकृतो देवा ऋषयः स्तोत्रपाठकाः । ऋग्यजुस्सामाथर्वश्च स्तुति कुर्यात्पदेपदे ॥ चर्मबन्धं च कंसं च कदम्बं सुषिरं तथा । ध्वनिसमायुक्तं पञ्चशब्दा महारवे ॥

v4.c36.s8.t1.9

तुम्बुरुनारदादेश्च गेयकर्म सलक्षणम् । छत्रं धृत्वा रविश्चन्द्रश्चामरान्दिव्ययोषितः ॥ (अंशुमद्भेदागमे द्विसप्ततितमपटले ॥)

v4.c36.s8.t1.10

पादे पादुक्संयुक्तं चतुर्दोर्भिस्समन्वितम् । सयज्ञसूत्रं शान्तं च गमनोन्मुखमीश्वरम् ॥

v4.c36.s8.t1.11

आबद्धक्षुरिकं सौम्यं कपर्दमुकुटोज्वलम् । क्षौमाम्बरं सितं कुर्यात्सुन्दरं तं विभूषणम् ॥

v4.c36.s8.t1.12

सशङ्खपात्रिका वामे दक्षिणे नक्रकुण्डलम् । दक्षिणं कुञ्चितं पादं वामपादं तु सुस्थितम् ॥

v4.c36.s8.t1.13

समभङ्गयुतं वापि कान्तियुक्तनिजाङ्गकम् । प्रहरं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः ॥

v4.c36.s8.t1.14

सव्यमध्याङ्गुलाग्रं तु कृष्णाजिह्वाग्रं भवेत् । वामे करे परे पिञ्छदण्डकं कालदण्डकम् ॥

v4.c36.s8.t1.15

उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरि स्थितम् । नानागणसमायुक्तं नानाभूतसमाकुलम् ॥

v4.c36.s8.t1.16

स्वसव्ये भूतमूर्धस्थबलिपात्रेण संयुतम् । नानारूपधरैर्भूतैरनेकैः परिवारितम् ॥

v4.c36.s8.t1.17

भेरिकाकाहळाद्यैर्गाननृत्तरवाकुलैः । योषितश्चानवद्याङ्ग्यो मत्रेक्षावशमोहिताः ॥

v4.c36.s8.t1.18

स्रस्तभूषणवस्त्राद्या बलिदानसमुन्मुखाः । आशीर्वादान्विताः काश्चित् काश्चिदालिङ्गनोनमुखाः ॥ योषितो देववक्षायस्तननाभ्यन्तसीमकाः । (उत्तरकामिकागमे द्विपञ्चाशत्तमपटले ॥)

v4.c36.s8.t1.19

कङ्कालमूर्तिनं वक्ष्ये पादयोः पादुकान्वितम् । सुस्थितं वामपादं तु गमनापेक्षयापरम् ॥ पादमीत्समुद्धृत्य करोत्वाधिकसुन्दरम् । शुद्धश्वेतनिभं चारु सर्वाभरणभूषितम् ॥ रत्नकञ्चुकबद्धाङ्गं जटामकुटमण्डितम् । धुस्तूरपुष्पं नागं च वामे दक्षेन्दुशेखरम् ॥ किञ्चित्प्रकाशितान्तस्थदशनांशुविराजितम् । दक्षिणं हरिणीवक्त्रे व्यापितं सिंहकर्णवत् ॥ वामहस्ते च दण्डं तु कङ्कालस्थि च धारयेत् । तदस्यस्यातु(स्थ्याकृति?) निर्मासं द्विपदं द्विकरन्वितम् ॥ कृष्णयामानिभाकारमपाने दण्डवेशनम् । दण्डे कङ्कालपादौ द्वौ रज्जुना बन्धयेद्बुधः ॥ केतुदण्डेन नेत्राभ्यां निष्क्रान्तं रुधिरं तु वा । एवं कङ्कालदण्डं तु वामस्कन्धोपरि न्यसेत् ॥ बलिपात्रधृतं भूतं वामेऽग्रे गमनान्वितम् । दक्षिणेऽन्नं तु तत्पार्श्वे निधाय कृतजायया ॥

v4.c36.s8.t1.20

किञ्चित्प्रकाशितं योनिसंयुतातवाससा । संभ्रान्तमनसोपेतं जायास्सर्वास्त्वनेकशः ॥ व्याघ्रचर्माम्बरोपेतं दुकूलवसनान्वितम् । दक्षिणे कटिपार्श्वे तु क्षुरिकाश्चैव बन्धयेत् ॥ क्षुरिका हैमसंकाशा रूपबंधसमन्विता । यक्षकिन्नरसिद्धाद्यैस्सेवितं पूजितं नुतुम् ॥ चामरैरर्कचन्द्राभ्यां वीजितं रत्नभूषितैः । अण्डानां सुस्थितार्थं तु सर्वलोकोपकारकम् ॥ कङ्कालमोचनार्थं तु स्यात् कङ्काभाभिधः । (शिल्परत्ने द्वाविंशपटले ॥)

v4.c36.s8.t1.21

चतुर्भुजं त्रिनेत्रं च कपर्दमुकुटान्वितम् । पादे पादुक्संयुक्तं किंचिद्धै गमनोन्मुखम् ॥ सर्वाभरणसंयुक्तं यज्ञसूत्रोपशोभितम् । शङ्खं तु वामकर्णे तु दक्षिणे च कुण्डलम् ॥ क्षौमवस्त्रधरं कुर्याद्दक्षिणे क्षुरिकायुधम् । डमरुं बामहस्ते तु प्रहरं दक्षिणे करे ॥ कङ्कालदण्डमूलं तु पिञ्छदण्डस्य मूलकम् । वामे त्वपरहस्तेन सङ्गृहीतं तु कल्पयेत् ॥ उभयोर्दण्डकाग्रं तु अंसोपरि विन्यसेत् । कृष्णामुखगतं हस्तं दक्षिणेऽपरहस्तकम् ॥

v4.c36.s8.t1.22

नानानागसमायुक्तं किंचित्प्रहासितननम् । बलिपात्रधरं भूतदेवं वामे तु कारयेत् ॥ भिक्षादानोन्मुखस्त्रीभिर्मोहिताभिस्र्तसमाकुलम् । नानाभूतसमायुक्तं नानालीलासमान्वितम् ॥ ढक्कासंयुक्तहस्तं तु वरदं चेति कीर्तितम् । हरिणीजिह्वया हस्तस्याग्रमालेपितं कुरु ॥ कङ्कालधारिणं हस्तं कटकं चेति कीर्तितम् । कक्षतुल्यं तु तस्याग्रं यमं दोर्मणिबन्धयोः ॥ बिम्बस्य त्रिमुखं वापि सार्धत्रिमुखमेव वा । कारयेद्रूपाणि पञ्चतालेन बुद्धिमान् ॥ देवस्तनसमोच्चं वा कक्षोच्चं वा विशेषतः । नारीसंकल्पयेद्मानुभयोः पार्श्वयोरपि ॥

v4.c36.s8.t1.23

(पूर्वकारणागमे एकादशपटले ॥)

v4.c36.s8.t1.24

भिक्षाटनमूर्तिः ।

v4.c36.s8.t1.25

अथ वक्ष्ये विशेषेण भिक्षाटनमहेश्वरम् । पादौ पादुकासंयुक्तौ वामपादं तु सुस्थितम् ॥ ईषदुद्धृत्य सव्यं तु पादं तु गमनोत्सुकम् । ललाटमध्यमासव्ये नवाष्टौ वा यवान्तरे ॥

v4.c36.s8.t1.26

पादौ पादुकसंयुक्तौ पादुकारहितौ तु वा । सुविकीर्णजटाभारं जटामण्डलमेव वा ॥

v4.c36.s8.t1.27

वृत्तबन्धजटा वाथ नग्नरूपं नताननम् । ललाटपट्टसंयुक्तं करेधृत्वे(रोत्वर्धे ?)न्दुशेखरम् ॥

v4.c36.s8.t1.28

सर्वाभरणसंयुक्तं कटिसूत्रविवर्जितम् । शुद्धश्वेतनिभं वर्णं नानानागविभूषितम् ॥

v4.c36.s8.t1.29

दक्षिणे पूर्वहस्तं तु मृगस्यास्यान्तिकं भवेत् । वामे तु पूर्वहस्तं तु वरदं स्यात्कपालधृक् ॥

v4.c36.s8.t1.30

दक्षिणे परहस्ते च डमरुं च धरेद्विज ! । वामे तु शिखिपिञ्छं च कर्तव्यं त्वतिशीतलम् ॥

v4.c36.s8.t1.31

सितवस्त्रोत्तरीयं च नागेन कटिवेष्टितम् । श्वेतयज्ञोपवीतं तु नीलकण्ठं त्रिपुण्ड्रधृक् ॥

v4.c36.s8.t1.32

पद्मपीठपरिष्ठात्तु शेषं कङ्कालरूपवत् । (अंशुमद्भेदागमे चतुस्सप्ततितमपटले ॥)

v4.c36.s8.t1.33

एष एव परो दवो नग्नः कङ्कालवर्जितः । विकीर्णोभयपार्श्वस्थजटालकविभूषितः ॥

v4.c36.s8.t1.34

कटिदेशे प्रकर्तव्यः फणिसूत्रेण वेष्टितः । सत्कपालं च वरदं वामहस्तं तु कल्पयेत् ॥

v4.c36.s8.t1.35

दिव्यढक्कासमायुक्तं वामस्थमपरं करम् । शिखिपिञ्छधरं कुर्यात्सवव्यस्थमपरं करम् ॥

v4.c36.s8.t1.36

व्यालपार्श्वस्थितः कार्यः पूर्वसन्यो मृगास्त्यगः । सव्यं कोणसमायुक्तमथवा परिकल्पयेत् ॥ कपालहस्तपृष्ठं तु नाभिदध्नं प्रकल्पयेत् । डमरूच्चं तु कर्णान्तं तद्धस्तमणिबन्धनात् ॥ कर्णान्तं षोडशैर्मात्रैः शेषं कङ्कालवद्भवेत् । भिक्षाटनो हरः प्रोक्तः पृथग्विष्णुयुतो न वा ॥ (उत्तरकामिकागमे द्विपञ्चाशत्तमपटले ॥)

v4.c36.s8.t1.37

सृष्टिमूर्तेः कपालं तु स्थितिमूर्तेः कलेबरम् । डमरुकसमोपेतं भस्मसपैरलङ्कृतम् ॥ कण्ठे(स्कन्धे ?) शूलसमायुक्तं छन्नवीरसमायुतम् । पादुकोपारि पादौ च सर्वभूतसमावृतम् ॥ एवं भिक्षाटनं वत्स ! कामनाशमथ शृणु । (सुप्रभेदागमे चतुस्त्रिंशत्तमपटले ॥)

v4.c36.s8.t1.38

अथ भिक्षाटनं वक्ष्ये पादौ पादुकासंयुक्तौ । सुस्थितं वामपादं तु गन्तुं दक्षिणमुद्धृतम् ॥ सुविकীর্ণजटाभारं जटामण्डलमेव वा । विवृथ(वृत्त ?)बन्धजटा वाथ उपानरहितं तु वा ॥ ललाटपट्टसंयुक्तं करोत्वर्धेन्दुशेखरम् । सर्वाभरणसंयुक्तं को(क ?)टिसूत्रविवर्जितम् ॥

v4.c36.s8.t1.39

शुद्धश्वेतनिभं प्रोक्तं नानानागविभूषितम् ।
दक्षिणं पूर्वहस्तं तु मृगस्यान्तिकं भवेत् ॥
वामे तु पूर्वहस्तं तु वरदं तु कपालधृक् ।
दक्षिणे परहस्ते तु डमरुं चर्मघटितम् ॥
वामे तु शिखिपिञ्छं तु सितवस्त्रोत्तरीयकम् ।
श्वेतयज्ञोपवीतं तु कटौ नागेन वेष्टितम् ॥
नीलकण्ठं त्रिपुण्ड्राढ्यं पद्मपीठोपरि स्थितम् ।
कङ्कालमूर्त्तिवच्छेषं सर्वमत्र विशेषतः ॥
(शिल्परत्ने द्वाविंशपटले ॥)

v4.c36.s8.t1.40

त्रिनेत्रं चतुर्भुजं नग्नरूपं किञ्चित्स्मिताननम् ।
आवृतालङ्कृताभङ्गी पादे पादुक्संयुतम् ॥
दक्षिणे तु कराग्रं तु हरिणास्यानुगं भवेत् ।
दक्षिणापरहस्तं तु डमरुकयुतं भवेत् ॥
वामे कपालहस्तं तु अपरं पिञ्छधारिणम् ।
कुञ्चितं दक्षिणं पादं वामपादं तु स्वास्तिकम् (सुस्थितम् ?) ॥
सभङ्गस्थानकं कुर्याद् गमनोन्मुखरूपकम् ।
कपालोपेतहस्तस्य पृष्ठं नाभिसमं भवेत् ॥
शेषं सर्वं विशेषेण कङ्कालस्योक्तवद्भवेत् ।
(कारणागमे एकादशपटले ॥)

Linked texts (4)