Pramāṇa · Search · About · API

Elements of Hindu Iconography v4.c36.s9: गङ्गाधरादिमूर्तयः ।

Elements of Hindu Iconography v4.c36.s9

Language
English

Contents

गङ्गाधरादिमूर्तयः ।

v4.c36.s9.1

गङ्गाधरादिमूर्तयः ।

v4.c36.s9.2

गङ्गाधरः ।

v4.c36.s9.3

गङ्गाधरमहं वक्ष्ये संक्षेपाच्छृणु सुव्रत ! । सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ॥

v4.c36.s9.4

दक्षिणे पूर्वहस्तं तु वरं देव्यानमाश्रितम् । वामे तु पूर्वहस्तेन देवीमालङ्घनं कुरु ॥

v4.c36.s9.5

दक्षिणे परहस्तं तु जटाजाह्नविसंयुतम् । उष्णीषान्तं समद्धल्य वामे कृष्णमृगं धृतम् ॥

v4.c36.s9.6

देवस्य वामपार्श्वे तु गौरी विरहितानना । सुस्थितं वामपादं तु कुञ्चितं दक्षिणं भवेत् ॥

v4.c36.s9.7

प्रसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पधृक् । अथवा दक्षिणं हस्तं प्रकोष्ठं तिर्य्यगन्तं भवेत् ॥

v4.c36.s9.8

श्रोण्यधस्तात्तलं लम्ब्य वस्त्रं धृतमिवाकृतिः । भागीरथीं दक्षपार्श्वे ऋषिभिः प्रार्थितेश्वरम् ॥

v4.c36.s9.9

गङ्गाधराकृतिह्येवं ततो वै त्रिपुरान्तकम् ।

v4.c36.s9.10

(अंशुमद्भेदागमे षट्षष्टपटले ॥)

v4.c36.s9.11

गङ्गाधरप्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिनेत्रश्च जटामुकुटमण्डितः ॥

v4.c36.s9.12

दक्षिणाभयहस्तस्थोऽप्यन्यत्र कटकामुखः । तेन हस्तेन धृत्त्वैकां जटां गङ्गासमन्विताम् ॥

v4.c36.s9.13

संस्थितस्तु प्रसन्नात्मा कृष्णापरशुसंयुतः । जटायुक्तकरोचं तु कर्णस्योर्ध्वसमं भवेत् ॥

v4.c36.s9.14

तदन्तरं तु द्विमुखमाभङ्गेन समन्वितम् । इन्दुशेखरवच्छेषं कर्तव्यं मुनिपुङ्गवाः ! ॥

v4.c36.s9.15

देवस्य वामभागे तु देवीं कुर्यात्सलक्षणाम् । कुर्याद् भगीरथं देवं नाभ्यास्थस्यन(स्वस्तन?)सीमगम् ॥

v4.c36.s9.16

गलान्तं वाष्टतालेन विलम्बितजटान्वितम् । वल्कलाम्बरसंयुक्तं ह्नमस्तककृताञ्जलिम् ॥

v4.c36.s9.17

द्विनेत्रं च द्विबाहुं तमेवं गङ्गाधरो भवेत् ।

v4.c36.s9.18

(उत्तरकामिकागमे त्रिषष्टिमपटले ॥)

v4.c36.s9.19

गङ्गाधरमहं वक्ष्ये सर्वलोकसुखावहम् । सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ॥

v4.c36.s9.20

विश्लिष्यं स्याज्जटाबन्धं वामे त्वीषन्नताननम् । दक्षिणे पूर्वहस्ते तु वरदं दक्षिणेन(वामेन ?) तु ॥

v4.c36.s9.21

देवीमुपाश्रितेनैव देवीमालिङ्ग्य कारयेत् । दक्षिणापरहस्तेनोद्धृत्योष्णीषसीमकम ॥

v4.c36.s9.22

स्पृशेज्जटागतां गङ्गां वामेन मृगमुद्धरेत् । देवस्य वामपार्श्वे तु देवी विरहितानना ॥

v4.c36.s9.23

सुस्थितं वामपादं तु कुञ्चितं दक्षिणं भवेत् । प्रसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पधृक् ॥

v4.c36.s9.24

सर्वाभरणसंयुक्तौ सर्वालङ्कारसंयुतौ । भगीरथं दक्षिणे तु पार्श्वे मुनिवरान्वितम् ॥

v4.c36.s9.25

(शिल्परत्ने द्वाविंशपटले ॥)

v4.c36.s9.26

चतुर्भुजं त्रिनेत्रं च कपर्दकुटान्वितम् । अभयं दक्षिणं हस्तं कटकं वामहस्तकम् ॥

v4.c36.s9.27

कपर्दकुटं तेन गृहीतं जाह्नवीयुतम् । वामदक्षिणहस्तौ तु कृष्णापरशुसंयुतम् ॥

v4.c36.s9.28

अभयं पूर्ववत्प्रोक्तं कपर्दौपेतहस्तकम् । तस्य वामे भवानीं तु कारयेल्लक्षणान्विताम् ॥

v4.c36.s9.29

जान्वन्तं वापि नाभ्यन्तं भागीरथ्यास्तु मानकम् । प्रलम्बकजटोपेतमुष्णीषं जल(मुष्णीषाञ्जलि ?)हस्तकम् ॥

v4.c36.s9.30

द्विभुजं च त्रिनेत्रं च वल्कलाम्बरसंयुतम् । एवं गङ्गाधरं प्रोक्तं चण्डेशानुग्रहं शृणु ॥

अर्धनारीश्वरः ।

v4.c36.s9.t1.1

अथअर्धनारीमूर्तिं तु वक्ष्येऽहं शृणु सुव्रत । चतुर्भुजं वा द्विभुजं द्विविधं परिकीर्त्तिंतम् ॥

v4.c36.s9.t1.2

सुस्थितं दक्षिणं पादमितरं कुञ्चितं भवेत् । वामेऽर्धं पार्वतीरूपं दक्षिणेऽर्धं महेश्वरम् ॥

v4.c36.s9.t1.3

अभयं परशुं सव्यहस्तौ तत्तु शिवांशकम् । वृषमूर्ध्नि च विन्यस्तं कूर्परं वामहस्तके ॥

v4.c36.s9.t1.4

तदन्यद्वामहस्तं तु कटकं पुष्पहस्तकम् । द्विभुजे वरदं पूर्वं परहस्तं तु पुष्पधृक् ॥

v4.c36.s9.t1.5

शिवस्याभरणं सव्ये वामे स्त्रीभूषणं मतम् । पुस्तनं दक्षिणे पार्श्वे वामे नारीपयोधरम् ॥

v4.c36.s9.t1.6

अथवा कुञ्चितं सव्यं वामपादं तु सुस्थितम् । सव्यं शूलधरं हस्तं वामं पुष्पधरं करम् ॥

v4.c36.s9.t1.7

वरदं दक्षिणं हस्तं वृषमूर्ध्नि तु कूर्परम्¹ । कपालं दक्षिणे हस्ते वामहस्तं प्रसारितम् ॥

v4.c36.s9.t1.8

¹ ‘वरदं दक्षिणं हस्तमन्योऽक्षिशिरपूर्वक’ मिति पाठान्तरम् ।

v4.c36.s9.t1.9

दक्षिणे रौद्रदृष्टिस्यात् वामपार्श्वे तु शीतलम् । दुकूलं चोरुमध्यस्थं सव्यं गुल्फमन्यकम्² ॥

v4.c36.s9.t1.10

² ‘सव्यं गुल्फन्तमन्यक’ मिति पाठान्तरम् ।

v4.c36.s9.t1.11

एवं समासतः प्रोक्तमर्धनारीश्वरं परम् । (अंशुमद्भेदागमे एकोनसप्ततितमपटले ॥)

v4.c36.s9.t1.12

उमार्थं वामभागं तु हरार्धं दक्षिणं वपुः । सजटामुकुटं दक्षं शश्यर्थाङ्कितमग्रजाः ! ॥ करण्डमुकुटं वाममलकेन समन्वितम् । ललाटं दक्षिणे भागे नयनार्धेन संयुतम् ॥ पत्रं तु वामकर्णे स्याद्वालिकेनापि संयुतम् । सनक्रकुण्डलं सव्ये तं विना वाथ कारयेत् ॥ सव्ये टङ्कामये हस्ते उत्पलं वामगे करे । देव्यध्यायोदितास्त्रं वा दर्पणासक्तलोचनम् ॥ उमाभागं स्तनोपेतं चित्रवस्त्रपरिच्छदम् । व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितमिष्यते ॥ सुस्थितं वामचरणं नूपुरेणाप्यलङ्कृतम् । वामं मरतकाभं स्याद्दक्षिणं मणिसन्निभम् ॥ चन्द्रशेखरवच्छेषं कर्तव्यं हि मुनीश्वराः । (उत्तरकामिकागमे षष्टिमपटले ॥)

v4.c36.s9.t1.13

दक्षिणार्धे हरं चैव वामार्थे पार्वती तथा । दक्षिणं कुञ्चितं पादं वामपादसृजु स्थितम् ॥ हरस्य दक्षिणे हस्ते कूर्परं वृषके स्थितम् । प्रकोष्ठे शुकसंयुक्तं हरं परशुसंयुतम् ॥

v4.c36.s9.t1.14

वामे कटकहस्तं तु दक्षिणे त्वभयं स्मृतम् । श्यामवर्णमुखां देवीं रक्तवर्णं हरं तथा ॥ व्याघ्रचर्माम्बरं देवं पार्वतीं क्षौमधारिणीम् । (सुप्रभेदागमे चतुर्विंशत्पटले ॥)

v4.c36.s9.t1.15

अर्धनारीश्वरं वक्ष्ये सुस्थितं दक्षिणाङ्घ्रिकम् । कुञ्चितं वामपादं तु सर्वाभरणभूषितम् ॥ वामार्थं पार्वतीरूपं दक्षिणार्धं महेश्वरम् । अभयं परशुं दक्षहस्ते वामगतं भुजम् ॥ वृषस्य मूर्धिन विन्यस्तकूर्परं चारु सुन्दरम् । पुष्पधृक्कटकं त्वन्यं चतुर्भुजमिदं स्मृतम् ॥ (शिल्परत्ने द्वाविंशपटले ॥)

v4.c36.s9.t1.16

अर्धनारीश्वरो देवः कथ्यते लक्षणान्वितः । दक्षिणं पुरुषाकारं वामं योषिन्मयं वपुः ॥ त्रिशूलं दक्षिणे हस्ते वामहस्ते च दर्पणम् । उत्पलं वा प्रकुर्वीत केयूरवलयान्विते ॥ कर्णे तु दक्षिणे नागं वामे कर्णे तु कुण्डलम् । जटाभारो दक्षिणे स्यादर्धचन्द्रार्धभूषितः ॥ कुन्तलान् कबरीभारन्वामभागेन विन्यसेत् । ललाटे लोचनस्यार्धं तिलकार्धं प्रकल्पयेत् ॥

v4.c36.s9.t1.17

विशालं दक्षिणं वक्षो वामं पीनपयोधरम् । द्वीपिचर्मपरीधानं दक्षिणं जघनस्थलम् ॥ वामे लम्बपरीधानं कटिसूत्रत्रयान्वितम् । वामस्य दक्षिणं पादं पद्मस्योपरि कल्पयेत् ॥ तस्यार्धं च तथा वामं नूपुरालङ्कृतं लिखेत् । (शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे ॥)

v4.c36.s9.t1.18

अर्ध देवस्य नारी तु कर्तव्या शुभलक्षणा । अर्ध तु पुरुषः कार्यस्सर्वलक्षणभूषितः ॥ ईश्वरार्धे जटाजूटं कर्तव्यं चन्द्रभूषितम् । उमार्धे तिलकं कुर्यात् सीमन्तमलकं तथा ॥ भस्मोद्धूलितमर्ध तु अर्ध कुङ्कुमभूषितम् । नागोपवीतिनं चार्धमर्ध हारविभूषितम् ॥ वामार्धे तु स्तनं कुर्यात् घनं पीनं सुवर्तुलम् । उमार्धे तु प्रकर्तव्यं सुवस्त्रेण च वेष्टितम् ॥ मेखलां दापयेत्तत्र वज्रवैदूर्यभूषिताम् । ऊर्ध्वलिङ्गं महेशार्धं सर्पमेखलमण्डितम् ॥ पादं च देवदेवस्य समपद्मोपरि स्थितम् । सालक्तकं स्मृतं वाममञ्जनेन(मञ्जीरेण?) विभूषितम् ॥

v4.c36.s9.t1.19

त्रिशूलमक्षसूत्रं च भुजयोस्सव्ययोस्मृतम् । दर्पणं चोत्पलं कार्यं भुजयोरपसव्ययोः ॥

v4.c36.s9.t1.20

(विष्णुधर्मोत्तरे ॥)

v4.c36.s9.t1.21

सबालेन्दुजटाभारमैशमर्धं तु दक्षिणम् । उमार्धं वामभागे तु सीमन्ततिलकालकम् ॥

v4.c36.s9.t1.22

नयनार्धं ललाटे तु संयुक्तं दक्षिणांशके । दक्षिणे कुण्डलं कर्णे वामकर्णे तु पत्रकम् ॥

v4.c36.s9.t1.23

कुटिलं पालिकां वामे टङ्काभयौ च दक्षिणे । उत्पलं वामहस्ते तु केयूरकटकान्वितम् ॥

v4.c36.s9.t1.24

उमांशे तु स्तनं कुर्यात् वह(बहा?)कारधरं तु वा । श्रोण्यर्धं दक्षिणे शम्भोर्व्याघ्रचर्मकृताम्बरम् ॥

v4.c36.s9.t1.25

उमार्धं कटिसूत्रान्तं चित्रवस्त्रपरिच्छदम् । नूपुरालङ्कृतं वामे सव्यपादं तु कुञ्चितम् ॥

v4.c36.s9.t1.26

आभङ्गेन तथा कुर्यात्सार्धनारीश्वरं वपुः ।

v4.c36.s9.t1.27

(पूर्वकारणागमे एकादशपटले ॥)

v4.c36.s9.t1.28

हर्यर्धमूर्तिः ॥

v4.c36.s9.t1.29

अर्धनारीश्वरो ह्येवं हर्यर्धं शृणुत द्विजाः ! । प्राग्वत्कृत्वा महेशार्धं विष्णुवर्धमितरत्र च ॥

v4.c36.s9.t1.30

भुजद्वयुतं शङ्खकटस्तत्र संमतः ।
पीताम्बरसमोपेतं सर्वाभरणसंयुतम् ॥

v4.c36.s9.t1.31

हर्यर्धमेवं ब्रह्मादिभागं चैवं समाचरेत् ।

v4.c36.s9.t1.32

(उत्तरकामिकागमे षष्टिमपटले ॥)

v4.c36.s9.t1.33

पीताम्बरधरं विष्णुं व्याघ्रचर्माम्बरं हरम् ।
विष्णुं किरीटसंयुक्तं शङ्करं तु जटान्वितम् ॥
श्यामवर्णं हरिं चैव शङ्करं युक्तरूपिणम् ।
हरिरर्धमिदं प्रोक्तं भिक्षाटनमतः परम् ॥

v4.c36.s9.t1.34

(सुप्रभेदागमे चतुर्विंशत्तमपटले ॥)

v4.c36.s9.t1.35

अथ वक्ष्ये हरिहरं सुस्थितं समपादकम् ।
दक्षिणे त्वभयं वामे कटकं तूरुसंयुतम् ॥
परशुं दक्षिणे वामे शङ्खं तु परहस्तके ।
वाममर्धं हरिं कुर्याद्धरमन्यार्धमाचरेत् ॥
क्रमाच्छ्यामप्रवालाभमुभयोचितभूषणम् ।
दक्षिणे व्युग्रदृष्टिस्याद्वामे शीतलनेत्रकम् ॥
किञ्चित्प्रकाशितोर्धाक्षं दक्षिणार्धे ललाटके ।
शिरश्चक्रसमायुक्तं तस्य लक्षणमुच्यते ॥
रुद्राङ्गुलविशालं तु तद्वानांशे गतं नम् (?) ।
सुवृत्तं चक्रवत्तन्तु पद्माकृतिरथापि वा ॥

v4.c36.s9.t1.36

शिरश्चक्रविशालस्य सप्तभागैकभागिकम् । शिरश्चक्रस्य नालस्य विस्तारं परिकीर्तितम् ॥ चक्रतारत्रिभागैकं चक्रादाशिरसोऽन्तरम् । अग्राल्लाटपट्टस्य शिरश्चक्रस्य नालकम् ॥ गुणाङ्गले तु कम्बूर्ध्वे चक्रनालस्थितिर्भवेत् । चक्राद् गुणांशमालम्ब्य पुष्पमाला तु मध्यमात् ॥ सर्वेषामपि देवानां देवीनामेवमाचरेत् । (शिल्परत्ने द्वाविंशपटले ॥)

v4.c36.s9.t1.37

देवं हरिहरं वक्ष्ये सर्वपातकनाशनम् । दक्षिणे शङ्करस्यार्धमर्धं विष्णोश्च वामतः ॥ बालेन्दुभूषितः कार्यो जटाभारस्तु दक्षिणे । नानारत्नमयं द्रव्यं किरीटं वामभागतः ॥ दक्षिणं सर्पराजेन भूषितं कर्णमालिखेत् । मकराकारकं दिव्यं कुण्डलं वामकर्णतः ॥ वरदो दक्षिणो हस्तो द्वितीयश्शूलभृत्तदा । कर्तव्यौ वामभागे तु शङ्खचक्रगदाधरौ ॥ दक्षिणे वसनं कार्यं द्वीपिचर्ममयं शुभम् । पीताम्बरमयं भव्यं जघनं सव्यमालिखेत् ॥ वामपादः प्रकर्तव्यो नानारत्नविभूषितः । दक्षिणाङ्घ्रिः प्रकर्तव्यो भुजगेन्द्रविभूषितः ॥

v4.c36.s9.t1.38

शीतांशुधवलः कार्यशिवभागो विचक्षणैः । अतसीपुष्पसंकाशो विष्णोर्भागो विरच्यते ॥ (शिल्परत्नसंयोजिते कस्मिंश्चिद् ग्रन्थे ॥)

v4.c36.s9.t1.39

कार्यं हरिहरस्यापि दक्षिणार्धं सदाशिवः । वाममर्ध हृषीकेशश्वेतनीलाकृतिः क्रमात् ॥ वरत्रिशूलचक्राब्जधारिणो बाहवः क्रमात् । दक्षिणे वृषभः पार्श्वे वामभागे विहङ्गराट् ॥ (विष्णुधर्मोत्तरे ॥)

v4.c36.s9.t1.40

ईशार्धं पूर्ववत्प्रोक्तं विष्ण्वर्धे मकुटं नयेत् । वामे तु द्विभुजोपेतं केयूरकटकोज्वलम् ॥ स्यान्नक्रकुण्डलं कर्णे कटकं शङ्खहस्तकम् । अर्धपीताम्बरोपेतं भूषणैर्भूषणार्हकैः ॥ ऋज्वागतं तथा सर्वं चन्द्रशेखरवत्कुरु । हरिरर्धमिदं प्रोक्तं सुखासनमथ शृणु ॥ (पूर्वकारणागमे एकादशपटले ॥)

v4.c36.s9.t1.41

कल्याणसुन्दरः ।

v4.c36.s9.t1.42

अथ वक्ष्ये विशेषेण कल्याणसुन्दरं ततः । सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥

v4.c36.s9.t1.43

दक्षिणं पूर्वहस्तं तु गौरीदक्षिणहस्तधृक् ।
वरदं वामहस्तं तु परहस्तद्वयोस्ततः ॥

दक्षिणे परशुं वामे धृतं कृष्णमृगं परम् ।
जटामुकुटसंयुक्तं सर्वाभरणभूषितम् ॥

देहं प्रवालवर्णाभं देवेशस्य विशेषतः ।
सव्ये श्यामन,भा देवी प्राग्वन्मानादिसंयुता ॥

उत्पलं वामहस्ते तु धृतं दक्षिणहस्तकम् ।
शम्भोर्हस्तेन संग्राह्यं लज्जालम्बाननान्विता ॥

पार्वत्यनुगता श्रीभूसर्वाभरणभूषिते ।
हस्ताभ्यां संस्पृशेदेते गौर्यायास्तु कटीं द्विज ! ॥

देवाग्रे कारयेत्कुण्डे होमकर्म प्रजापतिः ।
शम्भोर्वै स्तनसीमान्तं प्रजेशस्योदयं भवेत् ॥

चतुर्भुजं चतुर्वक्त्रं सर्वाभरणभूषितम् ।
कुण्डिका चाक्षमाला च वामदक्षिणतः परे ॥

सुक्स्रवौ पूर्वहस्तौ द्वौ धृतौ वामेतरौ क्रमात् ।
उत्तराभिमुखासीनः पद्मपीठे प्रजापतिः ॥

प्रागग्रौ देविदेवेशौ देवी देवस्य दक्षिणे ।
दक्षिणाभिमुखो विष्णुर्होमस्योत्तरतस्थितः ॥

v4.c36.s9.t1.44

शम्भोर्वै नासिसीमांतं श्रेष्ठं अ......स्तनान्तकम्१ । श्यामवर्णं समभङ्गं शङ्खचक्रं परे करे ॥ हिरण्यकरकेणापः पूर्वहस्तद्वयोरपि । सङ्ग्राह्य वरदे हस्ते दयादुकपूर्वकम् ॥ अनादिगोत्रसम्भूतस्स शिवः परमेश्वरः । आदिगोत्रमिमां गौरीं तवैवास्माद्दाम्यहम् ॥ इत्युक्त्वा वरदे हस्ते दद्याद्वक्त्योदकं हरिः । अष्टविद्येशलोकेशास्सिद्धयक्षगणादयः ॥ ऋषयश्चैव गन्धर्वा मातरश्चान्यदेवताः । तत्तच्छक्तिसमोपेता हृदयेऽञ्जलिसंयुताः ॥ सम्श्रान्तमनसोपेतास्संव्वीक्ष्य परितस्थिताः । एवं कल्याणमूर्तिस्तु अर्धनारीश्वरं ततः ॥ (अंशुमद्भेदागमेऽष्टषष्टपटले ॥)

v4.c36.s9.t1.45

जटामकुटसंयुक्तश्चन्द्रार्धकृतशेखरः । विद्वक् चतुर्भुजश्चैव नवयौवनगष्टः२ ॥ समभङ्गयुतो देवः स्थानकस्थः प्रकीर्तितः । सकुञ्चत्सव्यपादस्थितसव्यतराङ्घ्रिकः ॥

v4.c36.s9.t1.46

¹ ‘शम्भोर्वै नासिसीमांतं श्रेष्ठायामं स्तनान्तक’ मिति पाठान्तरम् । एतदनन्तरं ‘ययोर्मध्येऽष्टवाभाज्य नवधात् केशवोदयम्’ इत्यादशान्तरे वर्तते ।

v4.c36.s9.t1.47

² ‘नवयौवनगर्वित’ इति पाठान्तरम् ।

v4.c36.s9.t1.48

इन्दुशेखरहस्ताम्परहस्तद्वयान्वितः । जलसङ्ग्रहणे योग्यवरवामकरान्वितः ॥

v4.c36.s9.t1.49

स्वदक्षिणगृहीतो वा दक्षहस्तः प्रसन्नधीः । पूर्ववत्कथितं देव्या मानं विप्रोत्तमास्त्विह ॥

v4.c36.s9.t1.50

देवीद्गास्यचिबुककक्षचूचुकमानता । तद्देव्यपरभागस्था श्रीदेवी सर्वलक्षणैः ॥

v4.c36.s9.t1.51

युक्ता देविकटिसृष्टकराभ्यामपि संयुता । देवोच्चदशभागैक्भागादेकादशावधि ॥

v4.c36.s9.t1.52

भागमानयुतः श्यामः किरीटमकुटान्वितः । ग्रहीतशङ्खचक्रश्च हस्ताभ्यां धृतयापि च१ ॥

v4.c36.s9.t1.53

तोयकुण्डकयोपेतो विष्णुरेष उदाहृतः । तदूर्ध्वं दक्षिणं हस्तं धारापाताय कल्पितम् ॥

v4.c36.s9.t1.54

हरेरुक्तप्रमाणेन ब्रह्मणमपि कारयेत् । चतुर्मुखं चतुर्बाहुं जटामकुटमण्डितम् ॥

v4.c36.s9.t1.55

होमोन्मुखं प्रसन्नं तं कुङ्कुमक्षोदसन्निभम् । मौञ्जीमेखलयोपेतं सोपवीतोत्तरीयकम् ॥

v4.c36.s9.t1.56

वामेतरकरावूर्ध्वौ कमण्डल्वक्षधारकौ । वराभयक रौ पूर्वौ स्यातां तौ दक्षिणेतरौ ॥

v4.c36.s9.t1.57

सूचिपादकियो(सूचीपताकयो?)पेतावन्यौ तु कटकामुखौ १ । ब्रहरूपमिति ख्यातं तथा पद्मासनस्थितम् ॥

v4.c36.s9.t1.58

देवस्याङ्कुलमानेन द्वाविंशत्यङ्गुलो भवेत् । अग्निकुण्डस्य विष्कम्भस्त्रिमेखलयुतस्य च ॥

v4.c36.s9.t1.59

मेखलैकाङ्गुला प्रोक्ता प्रत्येकं मुनिपुङ्गवाः ! । द्वादशाङ्कुलविस्तारदैर्ध्या सा सप्तजिह्वकः ॥

v4.c36.s9.t1.60

पञ्चजिह्वायुतो वाग्निः कुण्डमध्यस्थितस्त्वयम् । (उत्तरकामिकागमे अष्टपञ्चशत्तमपटले ॥)

v4.c36.s9.t1.61

अथ कल्याणमूतस्तु लक्षणं सर्वमङ्गलम् । सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥

v4.c36.s9.t1.62

दक्षिणं पूर्वहस्तं तु गौरीदक्षिणहस्तधृक् । वरदं वामहस्तं तु परहस्तद्वये तथा ॥

v4.c36.s9.t1.63

दक्षिणे परशुं वामे तथा कृष्णमृगं परम् । जटामकुटसंयुक्तं सर्वाभरणभूषितम् ॥

v4.c36.s9.t1.64

देहं प्रवालवर्णाभं देवेशस्य विशेषतः । तत्र श्यामनिभा देवी प्राग्वन्मादिन(मानादि?)संयुता ॥

v4.c36.s9.t1.65

उत्पलं वामहस्ते तु धृत्वा दक्षिणहस्तकम् । शम्भोर्हस्तेन सङ्ग्राह्यं लज्जाभरणसंयुता ॥

v4.c36.s9.t1.66

¹ 'स्रवपातकरोपेता.' विति पाठान्तरम् ।

v4.c36.s9.t1.67

पार्वतीमनुगा श्रीभूस्सर्वाभरणभूषिता । हस्ताभ्यां संस्पृशेदेवं गौरीमपि करद्वये ॥

v4.c36.s9.t1.68

देवाग्रे कारयेत्कुण्डे तत्र होमं प्रजापतिः । शम्भोर्वै स्तनसीमान्तं प्रजेशस्योदयं तथा ॥

v4.c36.s9.t1.69

चतुर्भुजं चतुर्वक्त्रं सर्वाभरणभूषितम् । प्रागग्रो देविदेवेशौ देवी देवस्य दक्षिणे ॥

v4.c36.s9.t1.70

दक्षिणाभिमुखो विष्णुर्होमस्योत्तरदिक्स्थितः । शम्भोर्वै नाभिसीमान्तं श्रेष्ठं स्तनतलोन्नतम् ॥

v4.c36.s9.t1.71

कन्यतं(सं?) तु तयोर्मध्ये पूर्ववन्नवधा स्मृतम् । श्यामवर्णसमायुक्तं शङ्खचक्रौ परे करे ॥

v4.c36.s9.t1.72

हिरण्यकरकेणापः पूर्वहस्तद्वयेन तु । संगृह्य वरदे हस्ते दद्यादुकपूर्वकम् ॥

v4.c36.s9.t1.73

अष्टलोकेशविद्येशासिद्धयक्षगणादयः । ऋषयश्चैव गन्धर्वा मातरश्चान्यदेवताः ॥

v4.c36.s9.t1.74

तत्तच्छक्तिसमोपेता हृदयाञ्जलिसंयुताः । संभ्रान्तमनसोपेतास्संवीक्ष्य परितस्थिताः ॥

v4.c36.s9.t1.75

(शिल्परत्ने द्वाविंशपटले ॥)

v4.c36.s9.t1.76

सचन्द्रार्धजटामौलिसौम्यं प्रथमयौवनम् । चतुर्भुजं त्रिनेत्रं च हारकेयूरभूषितम् ॥

v4.c36.s9.t1.77

मेखलोदरबन्धं च क्षौमवस्त्रधरं शुभम् । वासुकिः कुण्डलं काञ्ची तक्षको हारपुष्करम् ॥

v4.c36.s9.t1.78

किं च त्रिभङ्गिकं कायं दक्षपादं तु कुञ्चितम् । वरदं वामहस्तं तु कृष्णापरशुहस्तकम् ॥

v4.c36.s9.t1.79

देवस्य दक्षहस्ते तु देवीहस्तं तु संयुतम् । नास्यन्तं वापि चास्यान्तं हिक्कासूत्रसमं तु वा ॥

v4.c36.s9.t1.80

पीनोरःपीतगन्धां (पीनगण्डां) च पीनस्तनसमन्विताम् । द्विबाहुकां द्विनेत्रां च सर्वाभरणभूषिताम् ॥

v4.c36.s9.t1.81

दुकूलवसनां देवीं कुर्याद्देवस्य सव्यके । देवस्यायाममानं तु विभजेद् द्वादशाङ्गुलम् ॥

v4.c36.s9.t1.82

रुद्रांशं वा नवांशं वा वस्वंशं वैकहीनकम् । आयामं तदरेः प्रोक्तं तस्य बाहुसमन्वितम् ॥

v4.c36.s9.t1.83

चिबुकान्तं वाथ कक्षान्तं लक्ष्म्यायामं प्रकीर्तितम् । विष्णुबिम्बसमं वापि तद्वंशैर्हैकहीनकम् ॥

v4.c36.s9.t1.84

सप्तभागैकहीनं वा रसांशैकविहीनकम् । अजायाममिदं तस्य चतुर्भागैकभागता ॥

v4.c36.s9.t1.85

अग्निज्वालोच्छ्रयं प्रोक्तं तस्यार्धं विस्तृतं भवेत् । देवीलक्षणमेवं स्याल्लक्ष्म्याश्च लक्षणं शृणु ॥

v4.c36.s9.t1.86

नागहस्तसमौ बाहू केयूरकटकोज्वलौ । शोभनाम्बरसंपन्ना श्रोणी च विपुला तथा ॥

v4.c36.s9.t1.87

मेखला अक्षिसूत्राङ्गा उमापार्श्वगता (?) । एवं लक्ष्मीस्समाख्याता विष्णुरूपमथोच्यते ॥ किरीटमुकुटोपेतं कटिसूत्रोदरबन्धनम् । केयूरकटकं चैव यज्ञसूत्रसमन्वितम् ॥ लम्बसूत्रसमायुक्तं पीताम्बरसमायुतम् । मकरकुण्डलोपेतं श्रीवत्सं वक्षसि स्थितम् ॥ शङ्खचक्रधरं कुण्डं हस्तद्वयेन धारिणम् । जलधारोन्मुखं किंचिद्वक्रेणैव समायुतम् ॥ विष्णुरूपं समाख्यातं ब्रह्मरूपमथ शृणु । चतुर्भुजं(मुखं?) चतुर्बाहुं कमण्डल्वक्षधारिणम् ॥ यज्ञसूत्रोत्तरीयं तु जटामकुटसंयुतम् । सव्यहस्तेऽक्षमालां च वामहस्ते कमण्डलुम् ॥ स्रुवं दक्षिणहस्ते तु पताका वामहस्तके । अम्बुजासनकासीनं ब्रह्माणं होमसंमुखम् ॥ एवं वैवाह्यमुदिष्टमुमया सहितं शृणु । (पूर्वकारणागमे एकादशपटले ॥)

v4.c36.s9.t1.88

वृषवाहनमूर्तिः । वृषवाहनमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना । दक्षिणं सुस्थितं १ पादं वामपादं तु कुञ्चितम् ॥

v4.c36.s9.t1.89

वृषस्य मस्तकोर्ध्वं तु न्यसे(स्ये?)द्वै वामकूर्परम् । हिक्कासूत्राधो विप्र! कला वा द्विनवाङ्‌गुलम् ॥

v4.c36.s9.t1.90

तस्मादासनसीमकं वृषस्योच्च्छ्रयं ख्यातम्¹ । पक्षषोडशमात्रं वा नतं तर्सिहकर्णवत् ॥

v4.c36.s9.t1.91

¹ ‘वामकूर्परलम्बस्या तस्मादास्तनसीमकम् । वृषस्योच्च्छ्रयं ख्यातं पादस्थाकधीताङ्‌गुलम् ।’ इति पाठान्तरम् ।

v4.c36.s9.t1.92

वक्रदण्डायुधं तस्मिन् कल्पयेत्तु चलाचलम् । स्थिताङ्‌घ्रिजानूर्ध्वसीमाद्धिक्कासूतान्तमुन्नतम् ॥

v4.c36.s9.t1.93

कनिष्ठिकापरीणहमग्रं वक्रत्रयान्वितम् । लोहजं दारुजं वाथ वक्रदण्डैवमाचरेत् ॥

v4.c36.s9.t1.94

परहस्तद्वयश्चैव टङ्‌ककृष्णमृगं धरेत् । टङ्‌कं दक्षिणहस्ते तु वामहस्ते मृगं धरेत् ॥

v4.c36.s9.t1.95

जटामुकुटसंयुक्तं जटाभारं तु लम्बितम् । जटाबन्धशिरो वापि कर्तुरिच्छावशान्नयेत् ॥

v4.c36.s9.t1.96

सर्वाभरणसंयुक्तं रक्ताभं रक्तवाससम् । वामपार्श्वे तु(हु?)मादेवी दक्षिणे वा विशेषतः ॥

v4.c36.s9.t1.97

सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् । उत्पलं दक्षिणे हस्ते वामहस्तं प्रसारितम् ॥

v4.c36.s9.t1.98

स्त्रीमानोक्तविधानेन उमादेवीं तु कारयेत् । वृषवाहनमाख्यातं नृत्तमूर्तिमथ शृणु ॥

v4.c36.s9.t1.99

(अंशुमद्भेदागमे चतुष्षष्टपटले ॥)

v4.c36.s9.t1.100

वृषारूढप्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् । चतुर्भुजस्त्रिनेत्रस्तु जटामकुटसंयुतः ॥

v4.c36.s9.t1.101

परशुर्दक्षिणे हस्ते वामहस्ते मृगो भवेत् । पूर्वदक्षिणहस्तस्तु कटको वक्रदण्डयुक् ॥

v4.c36.s9.t1.102

अस्य सव्यप्रकोष्ठं तु विन्यसेद्वृषमस्तके । स हस्तो हंसपक्षो वा पताकाधोमुखस्तु वा ॥

v4.c36.s9.t1.103

तन्मध्यमाङ्गलाश्रेण नाभिसूत्रसमं भवेत् । तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् ॥

v4.c36.s9.t1.104

अथ स्वदक्षिणे गौरीयुक्तो वा मूर्त्यपेक्षया । आयुधव्यतिरिक्तेस्तैस्तैस्तु विपरीतकैः ॥

v4.c36.s9.t1.105

संयुक्तो वा वृषारूढस्तेवं मुक्तिप्रदो भवेत् । पृष्ठस्थो वृषभः कार्यो देवजानुरुकुच्छ्रयः ॥

v4.c36.s9.t1.106

मेढ्रान्तो नाभिसीमान्तश्शेषं सर्वं तु पूर्ववत् ।

v4.c36.s9.t1.107

(उत्तरकामिकागमे द्विषष्टिमपटले ॥)

v4.c36.s9.t1.108

वृषारूढमथो वक्ष्ये वृषभं पृष्ठस्थितम् । उमारुद्रौ स्थितौ कृत्वा कूर्परं वृषमस्तके ॥

v4.c36.s9.t1.109

मृगं परशुसंयुक्तं कर्तव्यं वृषवाहनम् ।

v4.c36.s9.t1.110

(सुप्रभेदागमे चतुस्त्रिंशत्तमपटले ॥)

v4.c36.s9.t1.111

दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम् । वृषस्य मस्तकोर्ध्वं तु न्यस्येद्वै वामकोर्परम् ॥

v4.c36.s9.t1.112

तस्य दक्षिणहस्ते तु वक्रदण्डमुदाहृतम् । कनिष्ठाङ्गुलिपरीणाहं मध्ये वक्रत्रयान्वितम् ॥

v4.c36.s9.t1.113

लोहजं दारुजं वापि वक्रदण्डं प्रकल्पयेत् । परहस्तद्वयोश्चैव टङ्कं कृष्णमृगं न्यसेत् ॥

v4.c36.s9.t1.114

जटामकुटयुक्तं वा जटाभारं तु लम्बितम् । जटाबन्धशिरो वापि कर्तारिम्ना(कर्तुरिच्छा?)नुसारतः ॥

v4.c36.s9.t1.115

सर्वाभरणसंयुक्तं रक्ताभं रक्तवाससम् । वामपार्श्वे तु देवी दक्षिणे वा विशेषतः ॥

v4.c36.s9.t1.116

सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् । उत्पलं दक्षिणे हस्ते वामहस्तं प्रलम्बितम् ॥

v4.c36.s9.t1.117

(शिल्परत्ने द्वाविंशत्पटले ॥)

v4.c36.s9.t1.118

गौरीश्वरौ स्थितौ पीठे वृषभं पृष्ठस्थितम् । त्रिनेत्रं चतुर्भुजं चैव जटामकुटसंयुतम् ॥

v4.c36.s9.t1.119

दिव्याम्बरधरो देवस्सर्वाभरणभूषितः । परशुं दक्षिणे हस्ते वामे कृष्णसमन्वितम् ॥

v4.c36.s9.t1.120

कटकं दक्षिणे हस्तं वृषभस्यैव मस्तके । वामहस्ते प्रकोष्ठं तु स्थापितं कुरु बुद्धिमान् ॥ तस्यैव वामभागे तु देवीं कुर्याद्विचक्षणः । वृषारूढमिदं प्रोक्तं त्रिपुरारिं शृणुध्वथ ॥ (पूर्वकारणागमे एकादशपटले ॥)

v4.c36.s9.t1.121

विषापहारमूर्तिः ।

v4.c36.s9.t1.122

एकवक्त्रं त्रिनयनं जटामुकुटसंयुतम् । चतुर्बाहुं सुरक्तं समगं परशुधारिणम् ॥ दक्षहस्ते गरं धृत्वा पानोन्मुखमदेक्षणम् । वरदं वामहस्ते तु सर्वालङ्कारसंयुतम् ॥ देवस्य वामपार्श्वे तु देवीं चैव तु कारयेत् । श्यामां द्विनेत्रां द्विभुजां त्रिभङ्गीं सव्यापसव्यस्थितकुञ्चिताङ्घ्रिम् । कण्ठे निपीव्यस्थितसव्यलम्बां चिन्ताकुलामीश्वरतुष्टिदात्रीम् ॥ पीतवस्त्रां द्विनयनां वाञ्छितार्थफलप्रदां । (श्रीतत्त्वनिधौ ॥)

v4.c36.s9.t1.123

अथातस्संप्रवक्ष्यामि विषापहरनेश्वरम् । चतुर्भुजं त्रिनेत्रं च किञ्चिद्दंष्ट्रकरालम्(क?) ॥

v4.c36.s9.t1.124

जटारत्ननिभं विद्यात् पूर्णचन्द्रनिभाकृतिम् । त्रिशूलं गण्डिकां चैव गोकर्णाकृति दक्षिणे ॥

v4.c36.s9.t1.125

कपालं वामहस्ते च वामे गौरीसमायुतम् । वामपादं तु शयनं लम्बितं सव्यपादकम् ॥

v4.c36.s9.t1.126

महोक्षस्थं महाभीमं कालकूटविनाशनम् । कण्ठमध्ये महाकालमाबध्य गौरिपाणिना ॥

v4.c36.s9.t1.127

व्याघ्रचर्माम्बरधरं किङ्किणीमालायावृतम् । वृश्चिकाभरणोपेतं सर्वाभरणभूषितम् ॥

v4.c36.s9.t1.128

एवं महेश्वरं ध्यात्वा प्रतिष्ठां साधकोत्तमः ।

Cites (6)