Pramāṇa · Search · About · API

Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c79: Appendix A

Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c79

Language
English

Appendix A

v2.c79.1

(Quotations from Kavyas)

v2.c79.2

WORKS OF KĀLIDĀSA :

v2.c79.3

1. ‘चित्रशालां गता देवी प्रत्यग्रवर्णरागां चित्रलेखामाचार्यस्यावलोकयन्ती तिष्ठति’ Malavika, I.

v2.c79.4

2. ‘विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः······प्रासादास्त्वां तुलयितुमलं’ Megha.

v2.c79.5

3. ‘चित्रलेखामाचार्यस्यावलोकयन्ती तिष्ठति’ Mal. I.

v2.c79.6

4. (i) तेनाष्टौ परिगमिताः समाः कथञ्चिद्बालत्वादवितथसूनृतेन सूनोः। सादृश्यप्रतिकृतिदर्शनैः प्रियाया स्वप्नेषु क्षणिकसमागमोत्सवैश्च ।। Raghu. VIII. 92.

v2.c79.7

(ii) ‘वाष्पायमाणो बलिमान्नकेतमालेख्यशेषस्य पितुर्विवेश’ Raghu. XIV. 15.

v2.c79.8

5. ‘सखि ! प्रणम भर्तारं, यः पार्श्वतः पृष्ठतः दृश्यते । Mal. IV.

v2.c79.9

6. ‘मत्साद्दश्यं विरहतनु वा भावगम्यं लिखन्ती’ Megh.

v2.c79.10

7. कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः । शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ।। Abh. VI

v2.c79.11

8. त्वामालिख्य प्रणयकुपितां धातुरागैश्शिलायाम् आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्तैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ।। Megha.

v2.c79.12

9. चित्रद्विपाः पद्मवनावतीर्णः केरेणुभिर्दत्तमृणालभङ्गाः। नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ।। Raghu. XIV. 16.

v2.c79.13

10. हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ।। R. III. 55.

v2.c79.14

महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः। चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्रलेखाः ।। R. VI. 72.

v2.c79.15

11. ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कार्धमुखेन पत्रिणा शरासनज्यामलूनाद्विडौजसः ।। R. III. 59.

v2.c79.16

12. चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥S. II. 9.

v2.c79.17

13. उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ K. I. 32.

v2.c79.18

14. ‘स्खलतीव मे दृष्टिनिम्नोन्नतप्रदेशेषु’ Abh. VI

v2.c79.19

*N. B.* As regards 15, 16 and 17 cf. Abh. S. Act. VI

v2.c79.20

18. पीतासितारक्तसितै : सुराचलप्रान्तस्थितैर्धातुरजोभिरम्बरम् ।
अयत्नगन्धर्वपुरोदयभ्रमं वभार भूम्नोत्पतितैरितस्ततः ॥ Kum. XIV. 31

v2.c79.21

19. नेत्रा नीत : सततगतिना यद्विमानाग्रभूमी रालेख्यानां स्वजलकणिकादोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जल लवमुचस्त्वादृशोजालमार्गै-
र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ Megh.

v2.c79.22

20. (i) व्यूह्य स्थितः किञ्चिदिवोत्तरार्धमुन्नद्ध चूडोऽञ्चितसव्यजानुः ।
आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रे स विनीयमानः ।Raghu, XIII.51

v2.c79.23

(ii) ‘स दक्षिणापाङ्गनिविष्ट मुष्टिं नतांसमाकुञ्चितसव्यपादम् Ku. III.

v2.c79.24

21. तस्य निर्दयतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः ।
अध्यशेरत बृहद्भुजान्तरं पीवरस्तनविलुप्तचन्दनम् ॥ Raghu. XIX.32,

v2.c79.25

22 (ii) व्यूढोरस्को वृषस्कन्धः सालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ Raghu. I-13.

v2.c79.26

युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः ।
वपुः प्रकर्षादजयद् गुहं रघुस्तथापि नीचै विनयाददृश्यत ॥ Raghu. III. 34

v2.c79.27

(ii) वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्यमुत्पाद्य इवास यत्नः ॥ Kumara.1.35

v2.c79.28

(iii) दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतांसयोः
संक्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली,
छन्दो नर्तयितुर्यथैव मनसः श्लिष्टं तथास्या वपुः ॥ M. II. 3.

v2.c79.29

23. राजा— वयस्य ! अन्यच्च, शकुन्तलाया : प्रसाधनमभिप्रेतमत्र विस्मृत-मस्माभिः ।

v2.c79.30

**विदूषकः**—किमिव ?

v2.c79.31

सानुमती—वनवासस्य सौकुमार्यस्य च यत् सदृशं भविष्यति ।

राजा—कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥ Abh. VI

v2.c79.32

cf. also

v2.c79.33

'इयमधिकमनोज्ञा वल्कलेनापि तन्वी
कि मिव हि मधुराणां मण्डनं नाकृतीनाम्' Adh. I.

v2.c79.34

24. 'सखि, रोचते ते मेऽयं मुक्ताभरणभूषितो नीलांशुकपरिग्रहोऽभिसारिकावेशः, Vik. VII.

v2.c79.35

25. वेणीभूतप्रतनुसलिलासावतीतस्य, सिन्धुः
पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः,
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती ।
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ Megha.

v2.c79.36

26. (i) त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः ।
वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ Kum. V. 67.

v2.c79.37

(ii) आमुक्ताभरणः सृग्वी हंसचिह्नदुकूलवान् ।
आसीदतिशयप्रेक्ष्यः स राज्य-श्रीवधूवरः ॥ Raghu XVII. 25.

v2.c79.38

27. सुरगज इव दन्तैर्भग्नदैत्यासिधारैर्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः ॥ Ragh. X. 86.

v2.c79.39

28. 'वित्तेशानां न च खलु वयो यौवनादन्यदस्ति, Megh.

v2.c79.40

29. 'सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः, „

v2.c79.41

30. 'न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः । Kum. I

v2.c79.42

31. सखि ! तदा ससंभ्रममुत्कण्ठिताहं भर्तृरूपदर्शनेन तथा न वितृष्णास्मि यथाद्य विभावितश्चित्रगतदर्शनो भर्ता, Malavika. IV

v2.c79.43

32. अये ! अनुपयुक्तभूषणोऽयं जनश्चित्रकर्मपरिचयेनाङ्गेषु ते आभरणविनियोगं करोति । Abh. IV.

v2.c79.44

33. प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः ।
अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ R. XVIII. 53.

v2.c79.45

34. चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् । संप्रति शिथिलसमाधिं मन्ये येनेयमालिखिता ॥ Mala. II.

v2.c79.46

35. पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ Mal. I

v2.c79.47

WORKS OF BANABHATTA

v2.c79.48

1. 'सुरासुरसिद्धगन्धर्वविद्याधरोरगाध्यासिताभिश्चित्रशालाभिः……दिव्यविमानपङ्क्तिभिरिवालङ्कृता' Ka.99.

v2.c79.49

2. (i) 'सकलदेशादिश्यमानशिल्पिसार्थागमनम्' H. C. 142.

v2.c79.50

(ii) 'सित कुसुमविलेपनवसनसत्कृतैः सूत्रधारैः' "

v2.c79.51

3. (i) 'चित्रलेखादर्शितविचित्रसकलत्रिभुवनाकाराम् Ka. 176.

v2.c79.52

(ii) 'आलेख्यगृहैरिव बहुवर्णचित्रपत्र शकुनिशतसंशोभितैः' Ka 241.

v2.c79.53

4. (i) 'प्रत्यग्रलिखितमङ्गल्यालेख्योज्ज्वलितभित्तिभागमनोहराणि' Ka. 136.

v2.c79.54

(ii) 'चतुरचित्रकरचक्रवाललिख्यमानमङ्गल्यालेख्यम् H. C. 142.

v2.c79.55

5. 'चित्रावशेषाकृतौ काव्यशेषनाम्नि नरनाथे' H C. 175.

v2.c79.56

6. (i) 'प्रविशन्नेव……चित्रवति पटे……कथयन्तं यमपट्टिकं ददर्श' H. C. 153.

v2.c79.57

(ii) 'यमपट्टिका इवाम्बरे चित्रमालिखन्त्युद्गीतकाः' H. C. 138.

v2.c79.58

7. 'वासभवने मे शिरोभागनिहितः कामदेवपटः पाटनीयः' Ka. 536.

v2.c79.59

8. 'प्रविवेश च द्वारपक्षलिखितरतिप्रीतिदैवतम्' H. C. 148.

v2.c79.60

9. सुप्तया वासभवने चित्रभित्तिचामरग्राहिण्योऽपि चामराणि चालयाञ्चक्रुः H. C. 127.

v2.c79.61

10. आलेख्यक्षितिपतिभिरव्यप्रमणद्भिः संतप्यमानचरणौ' H. C. 136.

v2.c79.62

11. 'दिवसानसानेषु……चित्रभित्तिविलिखितानि चक्रवाकमिथुनानि' Ka. 446.

v2.c79.63

12. 'अत्र च स्नानार्थमागतया……विलिखितानि……त्र्यम्बकप्रतिबिम्बकानि वन्दमाना' Ka, 262.

v2.c79.64

13. (i) 'रूपालेख्योन्मीलनकालाञ्जनवर्तिका' Ka. 455.

v2.c79.65

(ii) वर्णसुधाकूर्चकैरिव करैर्धवलितदशाशामुखे चन्द्रमसि' Ka. 527.

v2.c79.66

(iii) 'इन्दुकूरकूर्चकैरिवाक्षालिताम्' Ka. 246.

v2.c79.67

14. ‘अवलम्बमानतूलिकालाबुकांश्र्च ……’ H. C. 217.

v2.c79.68

15. (i) उत्थापिताभिनवभित्ति पात्यमानबहलवालुकाकण्ठकालेपाकुलालेपकलोकम् । H. C. 142.
(ii) ‘उत्कूर्चकैश्र्च सुधाकर्परस्कन्धै रधिरोहिणीसमारूढैर्धवैर्धवलोक्रियमाणप्रासाद-प्रतोलीप्राकारशिखरम्’ ibid.

v2.c79.69

16. ‘वत्सस्य यौवनारम्भसूत्रपातरेखा’ Ka. 466.

v2.c79.70

17. (i) ‘रूपालेख्योन्मीलनकालाञ्जनवर्तिका’ Ka. 455.
(ii) ‘प्रातश्र्च तदुन्मीलितं चित्रमिव चन्द्रापीडशरीरमवलोक्य’ Ka. 548.

v2.c79.71

18. आलिखिता चित्रफलके भूमिपालप्रतिबिम्बम् । Ka. 172.

v2.c79.72

19. उभयतश्र्च …… पुरन्ध्रिवर्गेण समधिष्ठितम्’ Ka. 143.

v2.c79.73

20. ‘बहुविधवर्णकादिग्धाङ्गुलिभीर्ग्रीवासूत्राणि च…समन्तात्सामन्तसीमन्तिनीभिर्व्याप्तम्’ H. C. 143.

v2.c79.74

21. (i) हरितालशैलावदातदेह: H. C. 188.
(ii) (a) हंसधवला धरण्यामपतज्ज्योत्स्ना Ka. 96.
(b) हिमकरसरसि विकचपुण्डरीकसिते ibid
(iii) अभिनवसितसिन्दुवारकुसुमपाण्डरै: ibid
(iv) कर्णिकारगौरेण वीध्रकञ्चुकच्छन्नवपुषा ibid
(v) वकुलसुरभिनि:श्वसितया चम्पकावदातया H. C. 33
(iv) दन्तपाण्डरपादे शशिमय इव H. C. 70
(vii) (a) पीयूषफेनपटलपाणरम् H. C. 10.
(b) शङ्खक्षीरफेनपटलपाण्डरेण H. C. 21.
(iii) विकचकेतकीगर्भपत्रपाण्डरं रज:सङ्घातम् H. C. 20

v2.c79.75

22. (i) तस्य चाधरदीधतयो विकसितबन्धूकवनराजय:-H. C. 29
(ii) कुङ्कुमपिञ्जरितपृष्ठस्य चरणयुगलस्य—H. C. 31
(iii) कुसुमभरागपाटलं पुलकबन्घचित्रम् —H. C. 32
(iy) रुधिरकुतूहलिकेसरिकिशोरकलिह्यमानकठोरधातकीस्तबके—H. C. 47
(v) लोहितायमानमन्दारसिन्दूरसीम्नि-ibid.
(vi) माञ्जिष्ठरागरोहिते किरणजाले Ka. 53
(yii) बालातपपिञ्जरा इव रजन्य: Ka. 105.

v2.c79.76

(viii) पारावतपादपाटलरागः Ka. 94.

v2.c79.77

23. (i)(a) शुकहरितैः कदलीवनैः Ka. 42; (b) हारीतहरिता-H. C. 22.

v2.c79.78

(ii) मरकतहरितानां कदलीवनानाम्—Ka. 379.

v2.c79.79

(iii) तरुणतरतमालश्या मले--H. C. 28.

v2.c79.80

24 (i) कृष्णाजिनेन नीलपाण्डुभासा ...... धूमपटलेनेव-Ka. 72.

v2.c79.81

(ii) रासभरोमधूसरासु Ka. 52.

v2.c79.82

(iii) वनदेवता प्रासादानां तरुणां ...... तपोवनाग्निहोत्रधूमलेखासु-Ka. 52.

v2.c79.83

(iv) कपोतकण्ठकर्बुरे ... ... तिमिरे-H. C. 145.

v2.c79.84

(v) शफरोदरधूसरे रजसि H. C. 21.

v2.c79.85

25. (i) गोरोचनाकपिलद्युतिः - Ka. 126.

v2.c79.86

(ii) हरितालकपिलपक्ववेणुविटपरचितवृतिभिः - Ka. 393.

v2.c79.87

(iii) सन्ध्या नुबन्धताम्रे परिणततालफलत्विषि कालमेघमेदुरे - H. C. 15.

v2.c79.88

(iv) धूसरीचक्रुः क्रमेलककचकपिलाः पांसुवृष्टयः H. C. 162.

v2.c79.89

(v) गोधूमधामाभिः स्थलीपृष्ठैरधिष्ठिता-H. C. 94.

v2.c79.90

26. (i) जरन्महिषमषीमलीमसि तमसि-H. C. 81.

v2.c79.91

(ii) गोलाङ्गूलकपोलकालकायलोम्नि नीलसिन्धुवारवर्णे वाजिनि-H. C. 23.

v2.c79.92

(iii) चाषपक्ष त्विषि तमस्युदिते-H. C. 16.

v2.c79.93

27. (i) 'आचमनशुचिशचीतिमुच्यमानार्चनकुसुमनिकरक्षारम्'-H. C. 19.

v2.c79.94

(ii) 'आभरणप्रभाजालजायमानानीन्द्रधनुः सहस्राणि'-H.C. 71

v2.c79.95

(iii) 'पाकविशराहुराजमाषनिकरकिर्मीरितैश्च-H.C. 94.

v2.c79.96

(iv) 'शबलशार्दूलचर्मपटपीडितेन' H.C. 232.

v2.c79.97

(v) 'तिर्यङ् नीलधवलांशुकशाराम्' H.C. 79.

v2.c79.98

28. (i)(a) 'स्कन्धदेशावलम्बिना कृष्णाजिनेन नीलपाण्डुभासा तपस्तृष्णानिपीतेनान्त निपत्तता धूमपटलेनेव परीतमूर्तिः' KA. 72.

v2.c79.99

(b) 'सरस्वत्यपि शप्ता किञ्चिदधोमुखी धवलकृष्णशारां दृष्टिमुरसि पातयन्ती' H.C. 13.

v2.c79.100

(ii) आकुलाकुलकाकपक्षधारिणा कनकशालाकानिर्मितमप्यन्तरगतशुकप्रभाश्यामायमानं मरकतमयमिव पञ्जरमुद्वहता चाण्डालदारकेणानुगम्यमानम्' Ka. 21

v2.c79.101

(iii) ‘आमत्तकोकिललोचनच्छविर्नीलपाटलः कषायमधुरः प्रकाममापीतो जम्बू-फलरसः' Ka. 36.

v2.c79.102

29. ‘चक्षुः कुरङ्गकैर्घोणावंशं वराहैः स्कन्धपीठं महिषैः प्रकोष्ठबन्धं व्याघ्रैः पराक्रमं कैसरिभिर्नमनं . . . . . माधवगुप्तम् H.C. 140.

v2.c79.103

30. ‘सद्य एव कुन्तली किरीटी कुण्डली हारी केयूरी मेखली मुद्गरी खड्गी च भूत्वावाप विद्याधरत्वम्’ H.C. 115.

v2.c79.104

31. ‘देवताप्रणामेषु मध्यभागभङ्गो नातिविस्मयकरः’ Ka. 335.

v2.c79.105

32. ‘अङ्गभङ्गबलनान्त्योन्यघटितोत्ताणकरवेणिकाभिः’ Ka. 75.

v2.c79.106

NAISADHIYA-CARITA OF SRIHARSA

v2.c79.107

1. (i) भ्रुवौ दलाभ्यां प्रणवस्य यस्यास्तना भांलतमालपत्रम् ।
तदर्धचन्द्रेण विधिर्विपञ्चीनिक्वाणनाकोणधनुः प्रणिन्थे ।। X. 85.

v2.c79.108

(ii) द्विकुण्डली वृत्तसमाप्तलिप्या कराङ्गुली काञ्चनलेखनीनाम् ।
कैश्र्यं मषीणां स्मितभा कठिन्याः काये तदीये निरमायि सारैः ।। X. 86

v2.c79.109

2. ते तत्र भैभ्याश्चरितानि चित्रे चित्राणि पौरैः पुरि लिखितानि ।
निरीक्ष्य निन्युर्दिवसं निशां च तत्स्वप्नसंभोगकलाविळासैः ।। X. 35.

v2.c79.110

3. पुरि पथि द्वारगृहाणि तत्र चित्रीकृतान्युत्सववाञ्छयेव ।
नभोऽपि किर्मीरमकारि तेषां महीभुजामाभरणप्रभाभिः ।। X. 31.

v2.c79.111

4. प्रियं प्रियां च त्रिजगज्जयिश्रियौ लिखाधिलीलागृहभित्ति कावपि ।
इति स्म सा कारूवरेण लिखितं नलस्य च स्वस्य च सरव्यमीक्षते ।। I. 38.

v2.c79.112

5. (i) भित्तिचित्रलिखिताखिलक्रमा यत्र तस्थुरितिहाससं कथाः ।
पद्मन्दनसुतारिरंसुतामन्दसाहसहसन्मनोभुवः ।! XVIII.20.

v2.c79.113

(ii) पुष्पकाण्डजयडिण्डिमायितं यत्र गौतमकलत्रकामिनः ।
पारदारिकविलाससाहसं देवभर्तु रुदटङ्कि भित्तिषु ।। XVIII. 21.

v2.c79.114

(iii) नीतमेव करलभ्यपारतामप्रतीर्य मुनयस्तपोर्णवम् ।
अप्सरःकुचघटावलम्बनात्स्थायिनो क्वचन यत्र चित्रिताः ।। ” 26.

v2.c79.115

6. (i) गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्थतनूसमस्याम् ।
इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याः ।। VII. 83.

v2.c79.116

(ii) अपाङ्गमालिङ्ग्य तदीयमुच्चकैरदीपि रेखाजनिताञ्जनेन या ।
अपाति सूत्रं तदिव द्वितीयया वयःश्रिया वर्धयितुं विलोचने ।। XV. 34.

v2.c79.117

7. (i) पुराकृतिः स्त्रैणमिमां विधातुमभूद्विधातुः खलु हस्तलेखः ।
येयं भवद्भावि पुरन्ध्रिसृष्टि : सास्यै यशस्तज्जयजं प्रदातुम् ।। VII.15.

v2.c79.118

(ii) अस्यैव सर्गय भवतकरस्य सरोजसृष्टिमम हस्तलेखः ।
इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ॥ VII. 72.

v2.c79.119

(iii) हस्तलेखमसृजत् खलु जन्मस्थानरेणुकमसौ भवदर्थम् ।
राम राममधरीकृततत्तल्लेखकः प्रथममेव विधाता ॥ XXI. 69.

v2.c79.120

8. (i) विरहपाण्डिम, राग, तमोमषीशितिम, तन्निजपीतिम वर्णकैः ।
दश दिशः खलु तद्दृगकल्पयल्लिपिकरी नलरूपकचित्रिताः ॥ IV. 15.

v2.c79.121

(ii) पीतावदातारुणनीलभासां देहोपदेहात्किरणैर्मणीनाम् ।
गोरोचनाचन्दनकुङ्क मैषनाभीविलेपान्पुनरुक्तयन्तीम् ॥ X. 97.

v2.c79.122

9. न्यस्य मन्त्रिषु स राज्यमादरादारराध मदनं प्रियासखः ।
नैकवर्णमणिकोटिकुट्टिमे हेमभूमिभृति सौधभूधरे ॥ VIII. 3.

v2.c79.123

10. स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी बिभर्तु या ।
स्वरभेदमुपैतु या कथं कलितामल्पमुखारवा न वा ॥ II. 98.

v2.c79.124

11. cf. N. C. VII. 21, 33, 36, 37, 51, 62, 66, 67, 70, 89 98, 102, 105 and 106.

v2.c79.125

12. कुत्रचित् कनकनिर्मिताखिलः क्वापि यो विमलरत्नजः किल ।
कुत्रचिद्रचितचित्रशालिकः क्वापि चास्थिरविधैन्द्रजालिकः ॥
@H XVIII. 11.

v2.c79.126

13. स्तनद्वये तन्वि परं तथैव पृथौ यदि प्राप्स्यति नैषधस्य ।
अनल्पवैग्ध्यविवर्धिनीनां पत्रावलीनां बलना समाप्तिम् ॥ III. 118.

v2.c79.127

14. दलोदरे काञ्चनकेतकस्य क्षणान्मसीभावुकवर्णलेखम् ।
तस्यैव यत्र स्वमनङ्गलेखं लिलेख भैमीनखलेखिनीभिः ॥ VI. 63.

v2.c79.128

15. क्रमोद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः ।
अपि भ्रमीभङ्गिभिरावृताङ्गं वासो लतावेष्टितकप्रवीणम् ॥ VII. 97.

v2.c79.129

16. चित्रतत्तदनुकार्यविभ्रमाध्याय्यनेकविधरूपरूपकम् ।
वीक्ष्य यं बहु ध्रुवञ्शिरो जरावातकी विधिरकल्पि शिल्पिराट् ॥
@H XVIII. 12.

v2.c79.130

Appendix B—Illustrations—Could not be given due to the paucity of funds in this edition.

v2.c79.131

Appendix C—vide चित्र-लक्षणम्—ahead.

Linked texts (9)