Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c81: प्राक्कथनम्
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c81
- Language
- English
प्राक्कथनम्
v2.c81.1
विदितमेव तत्र भवतां यदहं किञ्चित्कालाद् भारतीय-विज्ञानस्य नवीनामवैकामद्भुतामेवातिजटिलां कठिनाञ्चापि शाखां वास्तु-शास्त्रमित्यभिधामधिकृत्यानुसन्धानकर्मणि प्रवृत्तः; तत्रापि प्रथितकीर्तेस्तत्रभवतः धाराधिपस्य भोजराजस्य समराङ्गण-सूत्रधारमधिकृत्य यः पी-एच० डी०-उपाधि-विषयकः प्रबन्धः प्रस्तुतस्तस्य च यः परमोत्तमः परीक्षकाणां स्तवः (१६५६ जनवरी) प्राप्तः वर्षद्वयमात्रे व्यतीते (१६५८ मई) डी० लिट्-उपाधि-विषयकं प्रतिमा-विज्ञानाभिधमनुत्तमं प्रबन्धं प्रस्तूय यः तादृश एव परिणामः ततोऽपि वरिष्ठो वा भगवत्याःकृपातः समधिगतः अथ च उत्तर-प्रदेश-राज्येन केन्द्रस्थ-यूनीवर्सिटी-ग्रान्टस्-कमीशनेति नाम्ना-योगेनापि भृशं सम्मानितश्च (प्रकाशन-साहाय्य-दानेन पारितोषिकेण च) तेन सर्वेणोत्साहितोऽहं भारतीय-वास्तु-शास्त्रेति सामान्यविषयमुपजीव्य चतुर्दशग्रन्थानामेकां प्रकाशन-योजनां कल्पितवानस्मि । तस्यां प्रतिमाविज्ञानाभिधस्य हिन्दी-ग्रन्थस्यायं द्वितीयो भागः प्रतिमा-लक्षणम्, इंगलिश-ग्रन्थस्यापि स एव शिल्प-शास्त्र-चित्र-शास्त्र-विषयकोऽयं ग्रन्थः विदुषां समक्षमुपस्थाप्यते ।
v2.c81.2
प्रतिमा-विज्ञान-विज्ञा जानन्त्येव विषयममुमधिकृत्य सर्वप्रथमः प्रयासः श्रीमंतां टी० गोपीनाथरावमहोदयानामासीत् यैः एतद्विषयकं ग्रन्थचतुष्टयं विरचय्य शास्त्रस्यास्य महानुपकारः कृतः पथप्रदर्शनमपि । रावमहोदयानां ग्रन्थानां प्रकाशनात् प्रायेण चत्वारिंशद्वर्षाणि व्यतीतानि । ततः प्रभृति बहवः प्रतिमा-शास्त्र-विषयकाः नवीनाः ग्रन्थाः उपलब्धाः तान् सर्वानुपजीव्य प्रतिमा-शास्त्रस्येदमेक सुसम्बद्धं संकलनं सम्पादितम्, चित्र-शास्त्र-सम्बन्धि यच्च संकलनमुपस्थाप्यते तत्तु निर्विचिकित्समेकः अभिनवः प्रयत्नः आकलयितव्यः । अद्यावधि विष्णु-धर्मोत्तरं विहाय न कस्यापि चित्र-शास्त्र-सम्बन्धि-ग्रन्थस्याध्ययनं सम्यक् केनापि कृतं मया तु चित्र-शास्त्रस्य प्रायः सर्वेषामेव प्राप्तग्रन्थानामालोडनं कृत्वा चित्र-लक्षणमिदं विरचितम् ।
v2.c81.3
मामकीनः प्रयास एष कां साफल्यकोटिमधिगच्छति तत्र तु विद्वांस एव प्रमाणम् । अहं त्वेदं मन्ये :—
v2.c81.4
'अप्रज्ञेयं दुरालोकं गूढार्थं बहुविस्तरम् प्रज्ञापोतं समारुह्य प्राज्ञो वास्तुनिधिं तरेत्"
v2.c81.5
इति समराङ्गणवचनानुसारेण प्रज्ञापोतं विनैव भगवत्याः सर्वमङ्गलायाः कृपाकणेनैव किमपि कर्तुं पारये ।
v2.c81.6
प्रतिमा-लक्षण-चित्र-लक्षण-विषयकमिदमेकं स्वतन्त्रमेव कला-शास्त्र-पुस्तकं सम्पन्नम् । अस्य संकलनायां ये नवोन्मेषाः निर्दिष्टाः यः नवीन एव एकः प्रबन्धः उद्भावितः या चाभिनवैवैका सरणिरासादिता तेन सर्वेणेदं कथयितुं शक्नोमि ग्रन्थोऽयं शास्त्रस्यास्य विज्ञानां जिज्ञासूनाञ्च छात्राणां समेषामेव प्रमोदं वितरिष्यते उपकारञ्चापि करिष्यते । तेन धन्यो मे परिश्रमो भविष्यति ।
v2.c81.7
शुक्लोपाव्ह-द्विजेन्द्रनाथस्य
Linked texts (2)
- Samarāṅgaṇasūtradhāra — Bhoja, Sanskrit
- Viṣṇudharmottarapurāṇa — Sanskrit