Vastu-shastra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s1: पञ्चमो पटलः: देवी-प्रतिमा-लक्षणम् (शाक्त-प्रकरणम्)
Vāstu-śāstra (Vol. I: Hindu Science of Architecture; Vol. II: Hindu Canons of Iconography and Painting) v2.c83.s1
- Language
- English
पञ्चमो पटलः: देवी-प्रतिमा-लक्षणम् (शाक्त-प्रकरणम्)
v2.c83.s1.1
देवी-प्रतिमा-लक्षणम्
v2.c83.s1.2
शाक्त-प्रकरणम्
v2.c83.s1.3
टि० ब्राह्म-वैष्णव-शैव-पुरुष-प्रतिमालक्षणानुक्रममधिकृत्य ब्रह्मणश्शक्तेस्सरस्वत्या एव प्रथमं लक्षणं दीयते।
v2.c83.s1.4
@H १. ध्यानम्
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
v2.c83.s1.5
@H २. ,, शिल्प०
देवीं कुन्देन्दुगोशममृतकरकलास्मेरकोटीरबन्धां
मुद्राबोधाक्षमालावरकलितकरां पुस्तकाक्रान्तहस्ताम् ।
शुभ्राकल्पां त्रिनेत्रां त्रिभुवननमितामक्षराधीनमूर्ति
वन्दे वाग्देवतां तां जगदुदयकरीं मातृकां विश्वयोनिम् ॥
v2.c83.s1.6
@H ३. ,, ,,
शान्तां शारदनीरदेन्दुविमलामालेखिनीपुस्तक—
व्यासङ्गोद्यतबाहुमूर्जितवचोविज्ञानबोधात्मिकाम् ।
शुभ्राकल्पविभूषितां त्रिनयनां भास्वज्जटाशेखराम्
सम्बोधाय सरस्वतीं भगवतीं वन्दे मनोज्ञाकृतिम् ॥
v2.c83.s1.7
@H सरस्वत्यर्चनम्
मठेऽथवा गृहे चोक्ता देवार्चा वेदिकोत्तमा ।
तत्रस्थां पूजयेद्देवीं वाग्वाणीं (वाग्देवीं) चैव भैरवीम् ॥
भद्रकं मण्डलं कृत्वा सूर्यकोणैरलङ्कृतम् ।
तन्मध्यसूत्रतः कुर्याद् द्वाराणि च चतुर्दिशम् ॥
द्वारपालाः प्रपूज्याश्च क्षेत्रपालास्ततो नृभिः ।
पूज्यास्तथाऽष्टदिक्पाला क्रमतश्च प्रदक्षिणम् ॥
महापद्मं चाऽष्टदलं तन्मध्ये कर्णिकां तथा ।
पत्रान्तरे च भैरव्याः कुलदेव्याश्च कर्णिकाः ॥
तत्केशरमध्यपङ्क्तौ चतुर्वर्णाः सितादिकाः ।
श्वेतरक्तपीतकृष्णाः पुनरप्येव वर्णकाः ॥
षट्कोणमभिदं व्योम षड्दूतिकार्चने मतम् ।
तत्र मध्ये भवेच्छक्तिः पृथिवी सृष्टिरूपिका ॥
कामाख्या निलयीभूता बद्धपद्मासना स्थिता ।
अक्षमाला तथा वीणा पुस्तकं च कमण्डलुः ॥
v2.c83.s1.8
नीलकण्ठी श्वेतभुजा श्वेताङ्गी चन्द्रशेखरा ।
महाविद्या महावाणी भारती च सरस्वती ॥
सम्पूज्या मन्त्रतः कृत्वा तोरणानां चतुष्टयम् ।
वस्त्रान्ते (वेश्मान्ते) पीठिकायुक्तं वितानादिविभूषितम् ॥
मुष्टिमात्रैकै कग्रासपरेणाग्रदिनेषु च ।
कार्यमेकाग्रमनसा प्रायश्चित्तं च धीमता ॥
श्वेतवस्त्रान्तरे स्नाप्यं शुद्धे लग्ने दिने पुनः ।
श्वेतवस्त्रैर्युतं शिष्यमानयेत्तोरणान्तिकम् ॥
सुलग्नवेलामुहूर्ते अन्तर्वेद्यां तु स्थापयेत् ।
निरीक्षयेत्तु वाग्देवीं प्रसीद परमेश्वरि ॥
अर्चयित्वा ततो देवीं पुष्पाञ्जलिमथार्पयेत् ।
v2.c83.s1.9
“ॐ ह्रीं कौशिकी पादान्नमः । ॐ ह्रीं उपकेशनी पादान्नमः ॥
आं ह्रीं सर्वकेशीपादान्नमः । आँ ह्रां ह्रीं सरवस्ती पादान्नमः ॥
v2.c83.s1.10
आं ह्रीं हृदयाय नमः ॥ ॐ ह्रीं शिरसे स्वाहा ॥
आँ ह्रीं शिखाय वषट् । ॐ ह्रीं कवचाय हुम ॥
ह्लौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट ॥
v2.c83.s1.11
आं गं गणपतये नमः । आं बं बटुकनाथाय नमः ॥
आँ दिं दिक्पालेभ्यो नमः । आँ द्वं द्वारपालाय नमः ॥
आँ क्षं क्षेत्रपालायानमः । आँ कं कलविद्यायै नमः ॥
आँ ह्रीं शक्तिबीजाय नमः । आँ राँरीं रूपायै नमः ॥
v2.c83.s1.12
आं ह्रीं ह्रा ह्रीं हूं हंसबीजाय नमः ॥
आं ह्रां ह्रीं नमः ॥ इति जाप्य
आँ ह्रीं वद वद वाग्वादिनि नमः ।
सारस्वतजपः १००००८ ॥
होमः कुर्याद्दशांशेन पुष्पैर्वै ब्रह्मवृक्षजैः ।
होमः १०००८ इति अन्यः स्यात् सारस्वतः ॥
लिखितं पाठयेच्चैव चित्राद्यं रूपसाधकम्” ।
v2.c83.s1.13
सरस्वती चतुर्हस्ता श्वेतपद्मासनान्विता ।
जटामुकुटसंयुक्ता शुक्लवर्णा सिताम्बरा ॥
यज्ञोपवीतसंयुक्ता रत्नकुण्डलमण्डिता ।
व्याख्यानं चाक्षसूत्रं च दक्षिणे तु करद्वये ॥
पुस्तकं पुण्डरीकं च त्रिनेत्रा चारुरूपिणी ।
ऋज्वागता कृतास्सर्वे मुनिभिस्सेविता वरा ॥
एवं लक्षणसंयुक्ता वाग्देवी परिकीर्तिता ।
v2.c83.s1.14
श्वेतपद्मासनसीनां शुक्लवर्णां चतुर्भुजाम् ।
जटामकुटसंयुक्तां मुक्ताकुण्डलमण्डिताम् ॥
यज्ञोपवीतिनीं हारमुक्ताभरणभूषिताम् ।
दुकूलवसनां देवीं नेत्रत्रयसमन्विताम् ॥
सुदण्डं दक्षिणे हस्ते वामहस्ते तु पुस्तकम् ।
दक्षिणे चाक्षमाला च करकं वामकरे करे ॥
वागीशाकृतिराख्याता ... ... ।
v2.c83.s1.15
देवी सरस्वती कार्या सर्वाभरणभूषिता ।
चतुर्भुजा सा कर्तव्या तथैव च समुत्थिता ॥
पुस्तकं चाक्षमाला च तस्या दक्षिणहस्तयोः ।
वामयोश्च तथा कार्या वैणवी च कमण्डलुः ॥
समपादप्रतिष्ठा च कार्या सौम्यमुखी तथा ।
v2.c83.s1.16
जटाजूटधरा शुद्धा चन्द्रार्धकृतशेखरा ।
पुण्डरीकसमासीना नीलग्रीवा त्रिलोचना ॥
v2.c83.s1.17
पद्मपीठोपरि स्थापयित्वा देवीं पद्मासनासनाम् ।
शुद्धस्फटिकसंकाशं मुक्ताभरणभूषणम् ॥
चतुर्बाहुं द्विनेत्रां च केशबन्धां च मौलिनीम् ।
शुद्धश्वेताङ्गलोपेतां ग्राहकुण्डलभूषणाम् ॥
ललाटे भ्रमरकं स्यान्मौक्तिकपट्टमेव वा ।
कर्णपुष्पैश्च मौक्त्येन कर्णदामभिरलङ्कृतम् ॥
हारोपग्रीवसंयुक्तां मुक्तारत्नावलीं तथा ।
कुचबन्धनसंयुक्ता बाहुमालाविभूषणी ॥
केयूरकटकैर्युक्तां प्रकोष्ठवलयां तथा ।
मणिबन्धकटकां वा मौक्तिकपूरमेव च ॥
मध्याङ्गुलं विना सर्वे मूलतो रत्नाङ्गुलीयकैः ।
नीवीं च लम्बनं चैव मौक्तिकपट्टयुक्तिका ॥
पादजालां भुजङ्गानां गुल्फस्योपरि भूषणीम् ।
पादनूपुरसंयुक्तां पादरत्नाङ्गुलीयकैः ॥
मौक्तिकोत्तरीयरुंयुक्तां सर्वालङ्कारभूषणीम् ।
पुरतः सव्ये संदर्श पुस्तकं वामहस्तके ॥
दक्षिणे परहस्ते तु चाक्षमालावधारणीम् ।
कुण्डिका वामहस्ते च धारयेत्तु सरस्वती ॥
अथवा द्विभुजं कुर्यात्कुन्तलं मुकुटं भवेत् ।
दक्षिणं वरदं हस्तं वामहस्ते च पद्मकम् ॥
करण्डमकुटं वापि हेमवर्णाङ्गशोभितम् ।
पीताम्बरं यथारत्नं मुक्ताभरमेव च ॥
v2.c83.s1.18
कर्णयोः स्वर्णताटङ्कं सूत्रयुक्तां सुमङ्गलाम् ।
द्विनेत्रीं प्रसन्नवदनां सर्वाभरणभूषणीम् ॥
पितामहस्य पार्श्वे तु स्थानकं चासनं तु वा ।
वामभागे तु सावित्रीं श्वेतरक्तामथापि वा ॥
श्यामाङ्गकर्णमेवं वा द्विभुजं च द्विनेत्रकम् ।
स्थानकं चासनं वापि करण्डमकुटान्वितम् ॥
अथवा केशबन्धं वा कर्णे मकरकुण्डलम् ।
दुकूलाम्बरधरं वापि पीताम्बरमथापि वा ॥
सर्वाभरणसंयुक्तां वरदां वामहस्तके ।
दक्षिणे चोत्पलं कुर्याच्छेषं प्रागुक्तवन्नयेत् ॥
सरस्वतीं च सावित्रीं दशतालेन कारयेत् ।
v2.c83.s1.19
एकवक्त्रा चतुर्हस्ता मुकुटेन विराजिता ।
प्रभामण्डलसंयुक्ता कुण्डलान्वितशेखरा ॥
अक्षाब्जवीणापुस्तकं महाविद्या प्रकीर्तिता ।
वराक्षाब्जं पुस्तकं च सरस्वती शुभावहा ॥
v2.c83.s1.20
अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुष्कुण्डिकाम्
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
v2.c83.s1.21
कोल्लापुरं विनान्यत्र महालक्ष्मीर्यदोच्यते ।
लक्ष्मीवत्सदा कार्या रूपाभरणभूषिता ॥
दक्षिणाधः करे पात्रमूर्ध्वे कौमोदकीं ततः ।
वामोर्ध्वे खेटकं धत्ते श्रीफलं तदधः करे ॥
विभ्रती मस्तके लिङ्गं पूजनीया विभूतये ।
v2.c83.s1.22
रक्ताब्जं पीठतश्चोर्ध्वे देवी पद्मासना भवेत् ।
चतुर्भुजं त्रिनेत्रं च मकुटं कुन्तलं भवेत् ॥
प्रसन्नवदनां देवीं शुद्धकाञ्चनसन्निभाम् ।
पीताम्बरधरां रक्तमंशुकभरणीम् ॥
विशालाक्षमायतं कुर्यादपाङ्गकोणे स्मिताननाम् ।
दक्षिणे त्वभयं पूर्वे डिण्डिमं वामहस्तके ॥
अपरे दक्षिणे पद्मं चाक्षमालामथापि वा ।
वामे नीलोत्पलं वापि रक्तपद्ममुद्धृतं तु वा ॥
पीनोन्नतस्तनतटां फाले भ्रमरकान्विताम् ।
अथवा रत्नपट्टं स्यात्स्वर्णताटङ्कं कर्णयोः ॥
मकरं कुण्डलं वापि कर्णयोः स्वर्णदामयुक् ।
v2.c83.s1.23
हारोपग्रीवसंयुक्तां ससूत्रैश्च सुमङ्गलीम् ।।
कुचतटैश्च रत्नैश्च हेमपट्टविभूषणीम् ।
रत्नानि छन्नवीरं स्यात्स्वर्णरत्नोत्तरीययुक् ।।
केयूरकटकस्वर्णरत्नपूरिमसंयुताम् ।
प्रकोष्ठवलयं रत्नैः कटकं मणिबन्धकैः ।।
रत्नेन कटिसूत्रं स्याद्रत्नदामादिभूषिणीम् ।
रत्नहेम्ना च वस्त्रेण कुर्यान्नीव्यं च लम्बयेत् ।।
नलकान्तं त्रिलम्बं स्यात्सर्वरत्नानि (त्न) शोभितम् ।
भुजङ्गाङ्गवलयं पादौ चोर्ध्वाधो रत्नबन्धनम् ।।
पादनूपुरसंयुक्ताङ्गुलिरत्नाङ्गुलीयकाम् ।
बाहुमूलादि संभूष्य सर्वाभरणभूषिणीम् ।।
अथवा द्विभुजं चैव वामहस्ते च डिण्डिमम् ।
दक्षिणे रत्नपद्मं स्याच्छेषं प्रागुक्तवन्नयेत् ।।
एवं प्रोक्तां महालक्ष्मीं स्थापयेत्सर्वहर्म्यके ।
v2.c83.s1.24
लक्ष्मीःपद्मासनासीना द्विभुजा काञ्चनप्रभा ।
हेमरत्नोज्जवलैर्नक्रकुण्डलैः कर्णमण्डिता ।।
सुयौवना सुरम्याङ्गी कुञ्चितभ्रूसमन्विता ।
रक्ताक्षी पीनगण्डा च कञ्चुकाच्छादितस्तनी ।।
शिरसो मण्डनं शङ्खचक्रसीमन्तपङ्कजम् ।
अम्बुजं दक्षिणे हस्ते वामे श्रीफलमिष्यते ।।
सुमध्द्या विपुलश्रोणी शोभनाम्बरवेष्टिता ।
मेखला कटिसूत्रं च सर्वाभरणभूषिता ।।
v2.c83.s1.25
पद्मपत्रासनासीना पद्माभा पद्महस्तिनी ।
हेमरत्नोज्ज्वलं नक्रकुण्डलं कर्णमण्डनम् ।।
चन्द्रबिम्बामलमुखी कर्णपूर्णायतेक्षणी ।
सुयौवना सुरम्याङ्गी कुञ्चितभ्रूसविभ्रमा ।।
रक्तोष्ठी पीनगण्डा च कञ्चुकाच्छादितस्तनी ।
शिरसो मण्डनं शङ्खचक्रसीमन्तपङ्कजम् ।।
नागहस्तसमौ बाहू केयूरकटकोज्ज्वलौ ।
पङ्कजं श्रीफलं चैव वामके दक्षिणेऽपि च ।।
शोभनाम्बरसंपन्ना श्रोणी च विपुला मता ।
मेखलाकटिसूत्राङ्गा लक्ष्मीलक्ष्मविवर्धनी ।।
v2.c83.s1.26
हरेस्समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप।
दिव्यरूपाम्बरधरा सर्वाभरणभूषिता।।
गौरी शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ।
पृथक् चतुर्भुजा कार्या देवी सिंहासना शुभा ।।
सिंहासनस्थं कर्तव्यं कमलं चारुकर्णिकम् ।
अष्टपत्रं महाभाग ! कर्णिकायां तु सा स्थिता ।।
v2.c83.s1.27
विनायकवदासीना देवी कार्या महाभुजा ।
बृहन्नालं करे कार्यं तस्याश्च कमलं शुभम् ॥
दक्षिणे यादवश्रेष्ठ ! केयूरप्रान्तसंस्थितम् ।
वामेऽमृतघटः कार्यस्तथा राजन् ! मनोहरः ॥
तस्याश्च द्वौ करौ कार्यों बिल्वशङ्खधरो द्विज! ।
आवर्जितघटं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ॥
देव्याश्च मस्तके पद्मं तथा कार्यं मनोहरम् ।
सामान्यां लक्ष्मीं कुर्याद् द्विभुजां च द्विनेत्रकाम् ।
रक्तपद्मोद्धृतौ हस्तौ सर्वाभरणभूषिणीम् ॥
शेषं तु पूर्ववत्कुर्याद् देवीपार्श्वे विशेषतः ।
ऐरावतद्वयं चैव कुर्यादाराधयेत्सुधीः ॥
सर्वेषामालये द्वारे मध्यरङ्गे तु पूजयेत् ।
अथवा विष्णुपार्श्वे तु लक्ष्मीलक्षणमुच्यते ॥
द्विभुजां च द्विनेत्रां च करण्डमकुटान्विताम् ।
अथवा केशबन्धं स्याद्वामहस्तोद्धृताब्जकम् ॥
दक्षिणं हस्तं वरदं चाथवा लम्बनं भवेत् ।
स्थानकं चासनं वापि स्थापयेद् विष्णुदक्षिणे ॥
कुर्यात्तु सर्वलक्ष्मीनां मध्यमदशतालके ।
सर्वाभरणसंयुक्तां हेमवर्णाङ्गशोभिताम् ॥
पद्मस्था पद्म हस्ता च गजोत्क्षिप्तघटप्लुता ।
v2.c83.s1.28
श्रीः पद्ममालिनी चैव कालिकाकृतिरेव च ॥
पूर्णचन्द्रमुखा शुभ्रा विम्बोष्ठी चारुहासिनी ।
श्वेतवस्त्रधरा कान्ता दिव्यलङ्कारभूषिता ॥
कटिदेशनिविष्टेन वामहस्तेन शोभना ।
सपद्मेन वान्तेन दक्षिणेन शुचिस्मता ॥
कर्तव्या श्रीः प्रसन्नास्या प्रथमे यौवने स्थिता ।
श्रियं देवीं प्रवक्ष्यामि नवयौवनशालिनीम् ।
सुलोचनां चारुवक्त्रां गौराङ्गीमरुणाधराम् ॥
सीमन्तं बिबुधीशीवो (?) मणिकुण्डलधारिणीम् ।
श्रीफलं दक्षिणे पाणौ वामे पद्मं तु विभ्रतीम् ॥
पद्मे पद्मा समासीनां श्वेतवस्त्रविभूषिताम् ।
कञ्चुकाबद्धगात्रीं च मुक्ताहारविभूषिताम् ॥
चामरै र्वीज्यमानां च योषिद्भ्यां पार्श्वयोर्द्वयोः ।
समानेस्स्नाप्यमानां च भृङ्गारसलिलोत्करैः ॥
v2.c83.s1.29
टि० भूमिः वैष्णवी शक्तिरित हतोरत्रैव वर्ण्यते ।
v2.c83.s1.30
सस्याङ्कुरनिभाभूमिर्नीलालकसमान्विता ।
करण्डमकुटोपेता सर्वाभरणभूषिता ॥
पीताम्बरधरा चैव प्रसन्नवदनान्विता ।
v2.c83.s1.31
पद्मं वाप्युत्पलं वाथ उभयोर्हस्तयोर्धृतम् ॥
पद्मपीठोपरिष्टात्तु आसीना वा स्थितापि वा ।
v2.c83.s1.32
श्यामवर्णनिभा भास्वद्राजीवसमलोचना ॥
हेमयज्ञोपवीता च द्विभुजा च द्विनेत्रका ।
सर्वाभरणसंयुक्ता करण्डमकुटान्विता ॥
रक्ताम्बरधरा चैव दक्षहस्तोत्पलान्विता ।
धरण्याकृतिरेवं स्यात् . . . . . ॥
v2.c83.s1.33
शुक्लवर्णा मही कार्या दिव्याभरणभूषिता ।
चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बरा ॥
रत्नपात्रं सस्यपात्रं पात्रमोषधिसंयुतम् ।
पद्मं करे च कर्तव्यं भुवो यादवनन्दन ॥
दिग्गजानां चतुर्णां च कार्या पृष्ठगता तथा ।
सर्वौषधियुता देवी शुक्लवर्णा ततःस्मृता ॥
v2.c83.s1.34
एषाः चेन्दिराः प्रोक्तास्तु महीशक्तिरिहोच्यते ।
द्विभुजां च द्विनेत्रां च करण्डमकुटान्विताम् ॥
दुकूलवसनोपेतां मकुटं कुन्तलं तु वा ।
स्थानकं चासनं वापि विष्णुमूर्तेरपसव्यके ॥
दक्षिणे चोत्पलं धृत्वा वामभागं तु लम्बनम् ।
अथवा वरदं वामे श्यामवर्णाङ्गशोभितम् ॥
मानयेद् दशतालेन सर्वं शेषं तु पूर्ववत् ।
मकरकुण्डलसंयुक्तां सर्वाभरणभूषणीम् ॥
v2.c83.s1.35
टि०—विष्णुप्रिया तुलसीति हेतोस्सापि वैष्णवी देवी ।
v2.c83.s1.36
ध्यायेच्च तुलसीं देवीं श्यामां कमलोचनाम् ।
प्रसन्नां पद्मकल्हारवराभयचतुर्भुजाम् ।
किरीटहारकेयूरकुण्डलादिविभूषिताम् ।
धवलांशुकसंयुक्तां पद्मासननिषेदुषीम् ॥
v2.c83.s1.37
खड्गं चक्रगदेषु चापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं संदधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥
v2.c83.s1.38
अष्टबाहुर्महाकाया कालमेघसमप्रभा ।
v2.c83.s1.39
शङ्खचक्रगदाकुम्भमुसलाङ्कुशपाशयुक् ॥
वज्रं करे विभ्रती सा महाकाली मुदेऽस्तु नः ।
v2.c83.s1.40
सा भिन्नाञ्जनसङ्काशा दंष्ट्राङ्कितवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ॥
खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा ।
कबन्धहारं शिरसा बिभ्राणा हि शिरस्स्रजम् ॥
v2.c83.s1.41
घनश्यामा ततः काली ताम्ररक्तनिभानना ।
कपालकर्णिकाहस्ता विज्ञेया भयनाशिनी ॥
v2.c83.s1.42
'कालीं करालरूपा च चण्डपाशोद्यता भवेत्'
v2.c83.s1.43
अष्टादशभुजा कार्या भद्रकाली मनोहरा ।
आलीढस्वासनास्था च चतुस्सिंहे रथे स्थिता ॥
अक्षमाला त्रिशूलं च खङ्गश्चन्द्रश्च यादव ।
बाणचापे च कर्त्तव्ये शङ्खपद्मे तथैव च ॥
स्रुकस्रुवौ च तथा कार्यों तथोदकमण्डलू ।
दण्डशक्ती च कर्त्तव्ये कृष्णाजिनहुताशनौ ॥
हस्तानां भद्रकाल्यास्तु भवेच्छान्तिकरः करः ।
एकश्चैव महाभाग ! रत्नपात्रधरो भवेत् ॥
v2.c83.s1.44
चतुर्भुजा त्रिनेत्रा च सा स्याच्छ्यामनिभा वरा ।
सौम्या पीताम्बरोपेता पीनोरुजघनस्तना ॥
करण्डमकुटोपेता सर्वाभरणभूषिता ।
अभयं दक्षिणं हस्तं कटकं वामहस्तकम् ॥
परहस्ते तु सव्ये तु चक्रं वामे तु शङ्खधृक् ।
समपादस्थिता चैव पद्मपीठोपरि स्थिता ॥
नागेन्द्रेण स्तनं बध्वा रक्तकञ्चुकधारिणी ।
एवं दुर्गा समाख्याता विष्णुलक्षणमुच्यते ॥
v2.c83.s1.45
आदिशक्तेस्समुद्भूता विष्णुप्राणानुजा शुभा ।
शङ्खचक्रधरा देवी धनुस्सायकधारिणी ॥
खड्गखेटकसंयुक्ता शूलपाशसमायुता ।
चतुर्भुजां वा कुर्वीत सर्वभरणभूषिताम् ॥
श्यामवर्णां सुवदनां महिषस्य शिरस्स्थिताम् ।
सिंहारूढां च वा कुर्यात्पद्मासनसमागताम् ॥
v2.c83.s1.46
ललाटलोचनं तस्यास्तिलकं च शिखामणिः ।
शशिखण्डकिरीटं वा मकुटं सकरण्डकम् ॥
सनक्रकुण्डलं रत्नमण्डनं कर्णमण्डनम् ।
कर्णावतंसकाकर्णचूलिकापालिकान्वितम् ॥
चतुर्भुजसमायुक्ताष्टाभिर्दोर्भिरन्विताम् ।
शूलं खड्गं शरं चक्रं दक्षिणेपु करेषु च ॥
पाशखेटकशाङ्खंश्च शङ्खं वामकरेषु च ।
चतुर्भुजे च वामे तु शङ्खं वरदहस्तकम् ॥
चक्रं चाभयहस्तं च दक्षिणे तु समायुता ।
द्विनेत्रा सौम्यवदना महिषस्य शिरस्स्थिता ॥
दुर्गायास्त्वाकृतिह्येवं ब्रह्मण्याकृतिरुच्यते ।
v2.c83.s1.47
शक्तिं बाणं तथा शूलं खड्गं चक्रं च दक्षिणे ।
चन्द्रबिम्बमधो वामे खेटमूर्ध्वं कपालकम् ॥
शूलं चक्रं च बिभ्राणा सिंहारूढा च दिग्भुजा ।
एषा देवी समुद्दिष्टा दुर्गा दुर्गापहारिणी ॥
v2.c83.s1.48
नवपद्मान्विते स्थाने पूज्या दुर्गास्स्वमूर्तितः ।
आदौ मध्ये तथेन्द्रादौ नवतत्वाक्षरैः क्रमात् ॥
अष्टदशभुजैका तु पीनवक्षोरुहोरूहा ।
सर्वालङ्कारसंयुक्ता सर्वसिद्धिप्रदायिनी :।
मूर्धजं खेटकं घण्टमादर्शं तर्जनीं धनुः ।
ध्वजं डमरुकं पाशं बिभ्रती वामपाणिभिः ॥
शक्तिमुद्गरशूलानि वज्र शङ्खमथाङ्कुशम् ।
शलाकां मार्गणं चक्रं दधाना दक्षिणैः करैः ॥
जयमिच्छद्भिरित्येताः पूजनीया महात्मभिः ।
शेषाष्षोडशहस्ताश्च शलाकां मार्गणं विना ॥
रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥
नवमी चोग्रचण्डा च मध्यस्था वह्निसन्निभा ।
रोचनाभारुणा कृष्णा नीला शुक्ला च धूम्रिका ॥
पीता च पाण्डुरा ज्ञेया आलीढस्था हरिस्थित्ता ।
महिषस्था सशस्त्रीका दैत्यमूर्धजमुष्टिका ॥
पद्माकृतिरथस्थाप्या इत्युक्तं स्कन्दयामले ।
v2.c83.s1.49
अथाऽतोऽनन्तरं वक्ष्ये दुर्गाणां नवकं तथा ।
आदौ तत्र महालक्ष्मीर्नन्दा क्षेमकरी तथा ॥
शिवदूती महार(च)ण्डा भ्रमरी सर्वमङ्गला ।
रेवती हरसिद्धिश्च नवदुर्गाः प्रकीर्तिताः ॥
क्रमशः पृथगेकैकाः कथयाम्यपराजित ।
वरं त्रिशूलं खेटं च पानपात्रं च बिभ्रती ॥
नागं तथा नीलकण्ठे महालक्ष्मीः सुखप्रदा ।
अक्षसूत्रं खड्गखेटौ पानपात्रं तथैव च ॥
नन्दा नाम सुविख्याता पूज्या चानन्दहेतवे ।
वरं त्रिशूलं पद्मं च पानपात्रं करेषु च ॥
क्षेमङ्करीति तन्नाम क्षेमारोग्यप्रदायिनी ।
कमण्डलुश्चक्रखेटौ पानपात्रं तथोत्तमम् ।
शिवदूतीति तन्नाम सर्ववृद्धिप्रदायिनी ॥
खड्गत्रिशूलौ घण्टा वै अथो चर्म तथोत्तमम् ॥
महार(च)ण्डा तथा नाम वन्दिता त्रिदशैरपि ।
v2.c83.s1.50
खड्गं डमरूकं खेटं बिभ्रती पानपात्रकम् ॥
भ्रमरी च तथा नाम भ्रामयेद्दुष्टचेतसः ।
अक्षसूत्रं तथा वज्रं घण्टा पात्रं तथोत्तमम् ॥
सर्वमङ्गलमाङ्गल्या सर्वविघ्नविनाशिनी ।
दण्डं त्रिशूलं खट्वाङ्गं पानपात्रं च बिभ्रती ॥
रेवतीति तदा नाम सर्वशान्तिप्रदायिनी ।
कमण्डलुश्च खड्गश्च डमरुः पानपात्रकम् ॥
हरसिद्धिरिति ख्याता सर्वेषां सिद्धिहेतुका ।
v2.c83.s1.51
रक्ताम्बरां श्यामलिनों द्विनेत्रां किरीटरत्नाङ्कितहेमभूषणाम् ।
सशूलखड्गां धृतशङ्खचक्रां मृगेन्द्रयानां रविचन्द्रभूषणाम् ॥
v2.c83.s1.52
अरिशङ्खकृपाणखेटबाणान्सधनुश्शूलकतर्जनीं दधाना ।
मम सा महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा ॥
v2.c83.s1.53
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रवरासिखेटविशिखांश्चापाङ्कुशौ तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे ॥
v2.c83.s1.54
कालां स्फारां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखां
शङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।
सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं
ध्यायेद्दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
v2.c83.s1.55
सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां
शङ्खं चक्रवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् ।
ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैस्तुतां
ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥
v2.c83.s1.56
तर्जनीं त्रिशिखं दोर्भ्यां धारयन्तीं भयङ्करीम् ।
रक्तां ध्यात्वा रवेर्बिम्बे प्रजपेदयुतं मनुम् ॥
मारयेदचिरादेव रिपून्बन्धुसमन्वितान् ।
v2.c83.s1.57
कात्यायिन्याः प्रवक्ष्यामि रूपं दशभुजं तथा ।
त्रयाणामपि देवानामनुकारानुकारिणीम् ॥
जटाजूटसमायुक्तार्धन्दुक्कृतलक्षणाम् ।
लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥
अतसीपुष्पसङ्काशां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥
सुचारुदर्शनां तद्वत्पीनोन्नतपयोधराम् ।
त्रिभङ्गिस्थानसंस्थानां महिषासुरमर्दिनीम् ॥
त्रिशूलं दक्षिणे दध्यात्खड्गं चक्रं तथैव च ।
तीक्ष्णबाणं तथा शक्तिं वामतो विनिबोधत ॥
v2.c83.s1.58
खेटकं पूर्णपात्रं च पाशमङ्कुशमेव च ।
घण्टां च परशुं चापि चामरं सन्निवेशयेत् ॥
अधस्तान्महिषं विद्याद्विशिरस्कं प्रदर्शयेत् ।
शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिकम् ॥
हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषणम् ।
रक्तरक्तीकृताङ्गं च रक्तविस्तारितेक्षणम् ॥
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ।
सपाशवामहस्तेन धृतकेशं च दुर्गया ॥
वमद्रुधिरवक्त्रं च देव्यास्सिंहं प्रदर्शयेत् ।
v2.c83.s1.59
कात्यायनीमतो वक्ष्ये क्षत्रयोद्गतशामनी ।
तेजः प्रतापदा नित्यं नृपाणां मुखबोधिनी ॥
शूलखड्गौ वज्रचक्रे बाणो दक्षिणबाहुषु ।
चापखेटकपाशाश्च घण्टा वामेषु चाङ्कुशम् ॥
अधस्तान्महिषं कुर्याद् विशिरस्कं च पादयोः ।
विद्याद्दक्षिणपादं तु महिषस्योपरिष्ठितम् ॥
पादपद्माय पादौ च वामपादं प्रदापयेत् ।
तथा छिन्नशिरस्कं च दैत्यन्तं रक्तवाससम् ॥
गृहीत्वा चैव केशाग्रे वामकेन तथेश्वरी ।
हृदि शूलेन निर्भिन्नं महिष-कुक्षौ सुदर्शनम् ॥
देव्यास्तु वाहनं सिंहः संलग्नो महिषोपरि ।
कात्यायनी नामिका च कर्तव्या चैवमेव हि ॥
v2.c83.s1.60
कात्यायनीं ततो वक्ष्ये दशहस्तां महाभुजाम् ।
तेजः प्रतापदा नित्यं नृपाणां सुखबोधिनी ॥
त्रिभङ्गिस्थानसंस्थाना महिषासुरसूदनी ।
दक्षे त्रिशूलं खड्गं च चक्रं बाणं च शक्तिकाम् ॥
खेटकं पूर्णचापं च पाशमङ्कुशमेव च ।
घण्टा च वामतो दद्याद्दैत्यमूर्धजधक्करी ॥
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ।
शिरश्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ॥
हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् ।
रक्तरक्तीकृताङ्गं च रक्तविस्फारितेक्षणम् ॥
देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् ।
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ।
v2.c83.s1.61
चतुर्भुजां द्विनेत्रां च श्यासवर्णाङ्गशोभिताम् ।
किरीटमकुटोपेतां सर्वाभरणभूषिणीम् ।
पूर्वेऽभयं करे सव्ये चक्रं चापरदक्षिणे ॥
v2.c83.s1.62
ऊरुमूलाश्वितं वामवरदं वा करपूर्वके ।
वामे चान्यकरे शङ्खं पीताम्बरधरं भवेत् ॥
एवं कात्यायनो प्रोक्ता शेषं प्रागुक्तवन्नयेत् ।
v2.c83.s1.63
वक्ष्ये कात्यायनीं देवीं शिवनारायणान्विताम् ।
बाहुभिर्दशभिर्युक्तां जटामकुटमण्डिताम् ॥
लोचनत्रयसंयुक्तामर्धेन्दुक्कतशेखराम् ।
अतसीपुष्पसंकाशामिन्दीवरदलेक्षणाम ॥
पीनोन्नतकुचाम्भोजां तनुमध्येन शोभिताम् ।
त्रिभङ्गिस्थानसंस्थानां महिषासुरमर्दिनीम् ॥
त्रिशूलं दक्षिणे खङ्गं शक्तिं चक्रधरं (?) तथा ।
अधिज्यं कार्मुकं वामे पाशमङ्कुशखेटकम् ॥
घण्टां च परशुं चापि धारयन्तीं समालिखेत् ।
अधस्तान्महिषं चास्याश्छिन्नग्रीवं समालिखेत् ॥
छिन्नस्थाने समुत्पन्नं खङ्गखेटकधारिणम् ।
हृदि शूलेन निर्भिन्नं रुधिरारुणविग्रहम् ॥
प्रबद्धं नागपाशेन भ्रुकुटीभीषणेक्षणम् ।
नाभेरुर्ध्वं विनिष्क्रान्तं दानवं दारुणं लिखेत् ॥
दक्षिणं चरणं देव्यास्सिंहपृष्ठे प्रतिष्ठितम् ।
उत्तुङ्गमञ्चितं वामं महिषस्योपरि स्थितम् ॥
v2.c83.s1.64
गृहीतशूलपरिघपाहिका? पट्टिसध्वजा ।
बिभ्राणा खेटकोपेतलघुखड्गं च पाणिना ॥
घण्टामेकां च सौवर्णीं दधती घोररूपिणी ।
कौशिकी पीतकौशेयवसना सिंहवाहना ॥
सेचोष्टौ ? विधातव्याः शुक्लाम्बरधराः ।
शोभमानाश्च मुकुटैर्नानारत्नविभूषितैः ॥
v2.c83.s1.65
निगद्यते ह्यथो चण्डी हेमाभा सा सुरूपिणी ।
त्रिनेत्रा यौवनस्था च क्रुद्धा चोर्ध्वस्थिता मता ॥
कृशमध्या विशालाक्षी चारूपीनपयोधरा ।
एकवक्त्रा तु सुग्रीवा बाहुविंशतिसंयुता ॥
शूलासि शङ्ख चक्राणि बाणशक्तिपवीनपि ।
अभयं डमरुं चैव छत्रिकां दक्षिणे करे ॥
ऊर्ध्वादिक्रमयोगेन बिभ्रती सा सदा शुभा ।
नागं पाशं तथा खेट कुठाराङ्कुशकार्मुकम् ॥
घण्टाध्वजगदादर्शं मुद्गरं वाम एव च ।
तदधो महिषश्छिन्नमूर्धा पतितमस्तकः ॥
शस्त्रोद्यतकरस्तब्धस्तद्ग्रीवासंभवः पुमान् ।
v2.c83.s1.66
शूलभिन्नो वमद्रक्तो रक्तभ्रूमूर्धजेक्षणः ॥
सिंहेन खाद्यमानश्च पाशबद्धो गले भृशम् ।
याम्याङ्घ्राक्रान्तसिंहा च सव्याङ्घ्रयालीढगासुरे ।
चण्डी चोद्यतशस्त्रेयं चाशेषरिपुनाशिनी ।
v2.c83.s1.67
चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी ।
रक्ताक्षी भग्ननेत्रा च निर्मांसा विकृतानना ॥
व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता ।
कपालमालिनी कृष्णा शवारूढा भयावहा ॥
त्रिशूलं खेटकं खङ्गं धनुः पाशाङ्कुशे शरः ।
कुठारो दर्पणं घण्टा शङ्खचक्रं गदा पविः ॥
दण्डो मुद्गर इत्येतैर्यथास्थानायुधैर्युता ।
बाहुषोडशसंयुक्ता चण्डमुण्डविघातिनी ॥
v2.c83.s1.68
चण्डिकायास्तथैवोक्तान् कथयिष्याम्यनुक्रमात् ।
वेतालः कोटरश्चैव पिङ्गाक्षो भृकुटिस्तथा ॥
धूम्रकः कंकटश्चैव रक्ताक्षश्च सुलोचनः ।
दंष्ट्रास्यविकटाः कोपे स्फुरद्दशनकोज्ज्वलाः ॥
वर्वरीकाश्च कृष्णाङ्गा म्रक्ताक्षा महाबलाः ।
तर्जनी चैव खट्वाङ्गो डमरूर्डण्ड आयुधम् ॥
वैतालः स समाख्यातो ह्यपसव्ये तु कोटरः ।
अभयखड्गखेटकं दण्डः पिङ्गाक्ष एव च ॥
अभयापसव्ययोगे भवेत् भृकुटिनामकः ।
तर्जनी वज्राङ्कुशा वै दण्डो धूम्रकनामकः ॥
सव्यापसव्ययोगेन भवेत् कंकटनामकः ।
तर्जनी च त्रिशूलं च खट्वाङ्गो दण्ड एव च ॥
रक्ताक्षस्स च नाम्ना वै वामे दक्षे त्रिलोचनः ।
दिशाद्वारपक्षयुग्मो स्थिता विघ्नविनाशनाः ॥
इत्यष्टौ च प्रतीहाराः देवीनां सर्वसम्मताः ।
v2.c83.s1.69
गौरी कुमारिकारूपा ध्यायमाना महेश्वरैः ।
वरदाऽभयहस्ता सा द्विभुजा श्रेयसे सदा ॥
अक्षसूत्राभये पद्मं तस्याधश्च कमण्डलुः ।
गौर्या मूर्तिश्चतुर्बाहुः कर्तव्या कमलासना ॥
v2.c83.s1.70
भूशक्तिलक्षणं प्रोक्तं गौरीलक्षणमुच्यते ।
द्विभुजां च द्विनेत्रां च कुर्यादासने स्थानके तु वा ॥
करण्डं केशबन्धं वा कुन्तलं मकुटं भवेत् ।
दक्षिणे चोत्पलं वामे वरदं स्थानमेव वा ॥
अथवा लम्बहस्तं स्याद् गोबालाकारवद् भवेद् ।
v2.c83.s1.71
दुकूलवसनोपेतां पीताम्बरधरामेव वा ।।
दीर्घबाहुं विशालाक्षीं श्यामवर्णां महोदराम् ।
स्तनतटोत्तुङ्गा विस्तीर्णश्रोणिदेशोद्भवा भवेत् ।।
कटि चोरु विशालं स्यान्मध्यकञ्चीनलम्बवत् ।
विशालमास्यं सुग्रीवं तुङ्गतुण्डं स्मिताननम् ।।
चन्द्ररेखावतंसं स्याद् भ्रमरावृतमालिकम् ।
अथवा फालपट्टं स्यात्कर्णयोर्ग्राहिकुण्डली ।।
कर्णपुष्पैश्च दाम स्याद्धेमसूत्रं सुमङ्गली ।
हारोपग्रीवसंयुक्तां बाहुमालाविभूषिणीम् ।।
कटकं कटिसूत्रं स्यात्केयूरपुरिमान्वितम् ।
रक्तांशुकोत्तरीयं स्यान्मौक्तिकोत्तरीयमेव च ॥
प्रकोष्ठवलयं चैव वलयैर्मणिबन्धकैः ।
भुजङ्गकटकाङ्घ्रिकौ पादनूपुरसंयुतम् ।।
सर्वाङ्गुलमुक्तवज्ज्ञात्वा कुर्याद्वक्ताङ्गुलीयकैः ।
दक्षिणे कुञ्चितं पादं वामपादं तु लम्बितम् ।।
पुष्पं च वरदं स्थाने हस्तं वामेऽथ चासने ।
दक्षिणं स्वस्तिकं पादं वामादन्तकरान्तकम् ।।
कुञ्चितं वामपादं स्याद् दक्षिणं कुञ्चितं तु वा ।
पुष्पधृक् लम्बहस्तं स्यात्स्थानकं च त्रिभागिकम् ।।
मानयेदङ्गमार्थं च मध्यमं दशतालके ।
लिङ्गस्य वामपाश्र्वं तु विग्रहाणां तु वामके ।।
स्थापयेत्स्थावरे गौरीं तथा जङ्गममेव च ।
गौरी चा पार्वती चैव . . . . . ॥
v2.c83.s1.72
गौर्याश्च सम्प्रवक्ष्यामि प्रमाणं मूर्तिलक्षणम् ।
ब्रह्मसूत्रोद्भवं सर्वं भजेदेकशताङ्गुलम् ।।
त्रयोदशाङ्गुलं मुखं ग्रीवा स्यादङ्गुलत्रयम् ।
अष्टाङ्गुलो स्तनौ वृत्तौ हिक्का? च चतुरङ्गुला ।।
द्वादशाङ्गुलिका नाभिरुदरं चतुरङ्गुलम् ।
वलिकात्रयसम्युक्तं गुह्यं सप्ताङ्गुलं तथा ।।
द्वाविंशत्यङ्गुला जङ्घा जानु स्यादङ्गुलत्रयम् ।
जङ्घामानेन नलकः पादमूलं तु जानुवत् ।।
चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता ।
गोधासनोपरिष्टा च कर्तव्या सर्वकामदा ।।
उमा च पार्वती गौरी ललिता च श्रियोत्तमा ।
कृष्णा हेमवती रम्भा सावित्री च तथैव च ।।
त्रिषंडा तोतला चैव त्रिपुरा द्वादशी मता ।
v2.c83.s1.73
एवं द्वादशमूर्तींश्च कुर्याद्वै शिवशासनीः ।।
अक्षसूत्रं चाम्बुजं च दर्पणश्च कमण्डलुः ।
एवं भवेदुमामूर्तिः पूजिता त्रिदशैरपि ।।
अक्षसूत्रं शिवा देवो गणाध्यक्षः कमण्डलुः ।
पक्षद्वये चाग्निकुण्डं पार्वती पर्वतोद्भवा ।।
अक्षसूत्राभयपद्मं तदधश्च कमण्डलुः ।
गौर्यामूर्तिस्तथा चैव कर्तव्या शिवशासनी ।।
शूलाक्षसूत्रवीणाश्च तथैव च कमण्डलुः ।
ललिता चैव तन्नाम सिद्धचारणसेविता ।।
अक्षपद्माभयवरं गोधिकासनसंस्थिता ।
श्रियामूर्तिस्तु तन्नाम गृहे पूज्या श्रिये सदा ।।
अक्षसूत्रं कमण्डलु हृदये संपुटाञ्जलिः ।
मध्ये पञ्चाग्निकुण्डानां कृष्णा नाम तु शोभना ।।
हिमवान् शैलराजस्तु तस्यापत्यं गिरीन्द्रजा ।
पद्मदर्पणसम्युक्ता विवाहे तु महेश्वरी ।।
कमण्डल्र्वक्षवर्जाश्च अङ्कुशो गजसंस्थिता ।
तथाऽप्रतिमरूपा च रम्भा नाम तु कामदा ।।
अक्षसूत्रं पुस्तकाब्जे तदधश्च कमण्डलुः ।
चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे स्थिता ।।
अक्षसूत्रं वज्रशक्ती तदधश्च कमण्डलुः ।
त्रिषण्डा (श्रीखण्डा) वृद्धये पूज्या सर्वकामफलप्रदा ।।
अक्षसूत्रं तथा दण्डः खेटकं चामरं तथा ।
श्वेता ध्यानार्चनाद्देवी तोतला विषनाशिनी ।।
पाशाङ्कुशाभयवरा धनेस्या?च्च चतुर्भुजा ।
त्रिपुरा नाम संपूज्या वन्दिता त्रिदशैरपि ।।
v2.c83.s1.74
ललीयाः पञ्च वक्ष्यामि शस्त्रभेदैः प्रभेदिताः ।
लीलया लीला लीलाङ्गी ललिता च लीलावती ।।
प्रोक्तास्तथाऽनुक्रमतः स्वासनस्था? श्चतुर्भुजाः ।
तप्तकाञ्चनवर्णाभा बालसूर्यसमप्रभाः ।।
सुवक्त्राश्च सुनेत्राश्च सुरूपा रूपदायिकाः ।
रक्तोष्ठाः कम्बुग्रीवाश्च कर्णपूरायतेक्षणाः ।।
अक्षसूत्रकमण्डल्रू अधोहस्तेषु कामदाः ।
सर्वासामीदृशौ हस्तौ कथ्येते चोर्ध्वहस्तकौ ।।
मृणालयुग्मं ललीया लीला पद्मं च पुस्तकम् ।
लीलाङ्गी पाशपद्मे च ललिता वज्रमङ्कुशम् ।।
पाशाङ्कुशौ लीलावती ललीयाः पञ्च चेरिताः ।
v2.c83.s1.75
अथ गौर्याः प्रवक्ष्यानि प्रमाणं मूर्तिनिर्णयम् ।
चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता ॥
अक्षसूत्राम्बुजे धत्ते दर्पणं च कमण्डलुम् ।
उमानाम्नी भवेन्मूर्तिर्वन्दिता त्रिदशैरपि ॥
अक्षसूत्रं शिवं देवं गणाध्यक्षं कमण्डलुम् ।
पक्षद्वयेऽग्निकुण्डे च मूर्तिस्सा पार्वती स्मृता ॥
अक्षसूत्रं तथा पद्ममभयं च वरं तथा ।
गोधासनाश्रिता मूर्तिर्गृहे पूज्या श्रिये सदा ॥
कमण्डल्र्वक्षसूत्रं च बिभ्राणा बज्रमङ्कुशम् ।
गजासनस्थिता रम्भा कर्तव्या सर्वकामदा ॥
शूलाक्षसूत्रदण्डाश्च बिभ्राणा श्वेतचामरम् ।
तोतला कथिता चेयं सर्वपापप्रणाशिनी ॥
नागपाशाङ्कुशौ चैवाभयदं वरदं करम् ।
त्रिपुरा नाम संपूर्ज्या बन्दिता त्रिदशैरपि ॥
v2.c83.s1.76
गौर्यायाः सम्प्रवक्ष्यामि देवतानामनुक्रमम् ।
दक्षे मातृः श्रिया सौम्ये सावित्रीं पश्चिमे विदुः ॥
द्वे पृष्ठकर्णयोश्चैव भगवती सरस्वती ।
गणेशं च कुमारं च त्वीशाने चाग्निगोचरे ॥
कुण्डलाभ्यामलङ्कृत्या सर्वाभरणभूषिता ।
मध्ये देवी प्रतिष्ठाप्या महेशस्य सदा प्रिया ॥
v2.c83.s1.77
जया च विजया चैव अजिता चापराजिता ।
निभक्ता मङ्गला चैव मोहिनी स्तम्भिनी तथा ॥
अभयाङ्कुशपाशाश्च दण्डः प्रदक्षिणं जया ।
सव्यापसव्ये शस्त्राणां विजया सा प्रकीर्तित ॥
अभयाब्जपाशा दण्डोऽजिता सव्येऽपराजिता ।
अभीवञ्जाङ्कुशदण्डा विनिभक्ताऽसव्यैर्मङ्गला ? ॥
अभयशङ्खाब्जदण्डा मोहिनीत्येव नामतः ।
शस्त्रापसव्ययोगेन सा भवेत् स्तम्भिनी तथा ॥
गौर्यायनने शस्ता अष्टौ स्युर्द्वारपालिकाः ।
v2.c83.s1.78
अथातस्संप्रवक्ष्यामि मातृणां स्थापनं परम् ।
नैर्ऋतस्य वधार्थाय ब्रह्मणा चापि निर्मिताः ॥
ब्रह्माणीं ब्रह्मवत्कुर्यान्महेशीमीश्वरोपमाम् ।
कुमारवच्च कौमारीं विष्णुवद्वैष्णवीं तथा ॥
क्रोधाननां तु वाराहीं वामनीं तु हलायुधाम् ।
शक्राणीं शक्रवत्कुर्याच्चामुण्डीमुग्ररूपिणीम् ॥
सुविकीर्णजटाभारां श्यामवर्णां चतुर्भुजाम् ।
v2.c83.s1.79
कपालशूलहस्तां च चामुण्डीं कारयेत्ततः ॥
वरदाभयहंस्तास्तु तत्तदायुधधारिणः ।
तत्तद्वर्णसमायुक्ता वाहनध्वजसंयुताः ॥
चतुर्भुजास्तु सर्वाश्च नलिनासनसंस्थिताः ।
v2.c83.s1.80
ब्रह्मोशगुहविष्णूनां तथेन्द्रस्य च शक्तयः ।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।
तद्वदेव हि तच्छक्तिरसुरान्योद्धुमाययौ ॥
हंसयुक्तविमानाग्रे साक्षसूत्रा कमण्डलुः ।
आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते ॥
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी ।
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः ।
शक्तिस्साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥
वज्रहस्ता तथैवेन्द्री गजराजोपरि स्थिता ।
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥
ततः परिवृत्तास्ताभिरीशानो देवशक्तिभिः ।
हन्यन्तामसुराश्शीघ्रं मम प्रीत्याह चण्डिकाम् ॥
ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा ।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी ॥
v2.c83.s1.81
बाराही चैव कौमारी चामुण्डी भैरवी तथा ।
माहेन्द्री वैष्णवी चैव ब्रह्माणी सप्तमातरः ॥
एतासां सर्वशक्तीनां नवतालेन कारयेत् ।
भद्रपीठोपरि स्थाप्या चासने सप्तमातरः ॥
शयने दक्षिणे पादान् वामपादान्प्रलम्बयेत् ।
चतुर्भुजां त्रिनेत्रैश्च सर्वाभरणभूषिणीम् ।
चामुण्डी चैव रुद्राणी सा च शक्तिस्त्रिलोचनी ।
ब्रह्माणी चैव रुद्राणी जटामुकुटमण्डिते ।
वाराही पोत्रवक्त्री स्यात् किरीटमुकुटान्विता ।
v2.c83.s1.82
कौमारी करण्डमौली च किरीटिनी वैष्णवी तथा ॥
चामुण्डी जटामौली च भैरवी पिबरालंका ।
शूलं मुद्गणं चैव पूर्वं चापरदक्षिणे ॥
कपालं पूर्वहस्ते च पाशं चापरहस्तके ।
एवं तु बाणमुद्धृत्य चामुण्डी भैरवी उभौ ॥
चामुण्डी श्यामवर्णाभा भैरवी रक्तवर्णिनी ।
केचित्तु भैरवी पूर्वे वरदाभयहस्तकौ ॥
शूलं डमरुकं चैव सव्यवामकेऽपरे ।
रक्ताम्बरधरा पार्श्वे कुचाभौ रक्तकञ्चुकौ ॥
चामुण्डी च शिरोमाला सर्वाभरणभूषिणी ।
कृष्णाम्बरधरा कृष्णलम्बकूर्चासभैरवी ॥
वैष्णवी चैव वाराही श्यामवर्णा विशोभिनी ।
चक्रं च दक्षिणे हस्ते शङ्खं वामकरेऽपरे ॥
पूर्वे च वरदं वामे दक्षिणे त्वभयमुभौ ।
पीताम्बरं च संरक्तां सर्वाभरणभूषिणीम् ॥
एवं तु वैष्णवी प्रोक्ता बाराही दक्षिणे हलम् ।
वामहस्ते परे पाशं दक्षिणे त्वभयं करे ॥
वरदं वामहस्ते तु सर्वाभरणभूषिणीम् ।
पीताम्बरधरा चैव कौमारी रक्तवर्णिनी ॥
वरदं चाभयं पूर्वं वामे तु द्वारहस्तकौ ।
दक्षिणे च कपालं स्याच्छक्तिं च वामहस्तके ॥
श्यामवर्णाम्बरा चैव सर्वाभरणभूषिणीम् ।
कौमारीलक्षणं प्रोक्तं ब्रह्माणी च चतुर्मुखी ॥
वरदाभयहस्तौ च कुण्डिकासाक्षमालाधृक् ।
वामेत्ववामपूर्वे तु चाक्षमाला यथाक्रमम् ॥
शुद्धरक्ताम्बरयुक्तां सर्वाभरणभूषिणीम् ।
एवमुक्ता तथा ब्राह्मी रुद्राणी श्वेतवर्णिनी ॥
वरदाभयहस्तौ च पूर्वे च वामदक्षिणे ।
वामे च हरिणं सव्ये परशुं परहस्तके ॥
चर्माम्बरधरायुक्ता सर्वाभरणभूषिणी ।
वामे तु शङ्खपत्रं स्यादवामे कर्णकुण्डलम् ॥
रुद्राणीलक्षणं प्रोक्तं चामुण्डी वामकर्णके ।
शङ्खपत्रं चावामे तु शङ्खकुण्डलसंयुताम् ॥
अन्यासां सर्वशक्तीनां ग्राहकुण्डलभूषणम् ।
हारोपग्रीवसंयुक्तां केयूरकटकान्विताम् ॥
मणिबन्धनवलयादिसर्वरत्नाङ्गुलीयकैः ।
v2.c83.s1.83
बाहुमूल्यादिसंभूष्यां साकं चुलकान्विताम् ॥
उक्तानां सर्वशक्तीनां सर्वाभरणभूषणम् ।
भद्रपीठोपरि देशे महिषोहतशिराः ॥
तदूर्ध्वे तारकां देवीं स्थानकां ऋजुं भावयेत् ।
v2.c83.s1.84
मातृणां च ततो वक्ष्ये भैरवादिगणांस्तथा ।
वीरेशं कारयेद्वत्स वीणाहस्तं सनर्त्तनम् ॥
गणनांथं ततः कुर्यात् गजवक्त्रं महोत्कटम् ।
श्रादौ तु गणनांथं च ह्यन्ते कुर्यात्तु भैरवम् ॥
मातृणां च तथा मध्ये पंक्तौ स्युश्चण्डिकादयः ।
प्रवक्ष्येऽनुक्रमं तत्र शृणु चैकाग्रमानसः ॥
कर्णे कपालमाला च मुण्डखट्वाङ्गशूलकाः ।
निर्मांसा क्रूररूपा च चामुण्डा दशनोज्ज्वला ॥
अक्षसूत्रं च खड्गश्च घण्टा चैव कमण्डलुः ।
महिषस्था शूकरास्या वाराही सर्वकामदा ॥
गजासना चाक्षसूत्रं दण्डः पाशः कमण्डलुः ।
ऐन्द्री देवी च लर्तव्या चामुण्डा प्रेतगा तथा ॥
अक्षसूत्रं च शक्तिश्च ताम्रचूडः कमण्डलुः ।
मयूरस्था च कौमारी षड्वक्त्रा च प्रकीर्तितां ॥
अक्षस्रचौ पुस्तकं च तथा चैव कमण्डलुः ।
चतुर्वक्त्रा ब्रह्माणी हंसारूढा च कामदा ॥
गदाचक्रे शङ्खपद्मे कुण्डलाभ्याम्वलङ्कृता ।
गरुडासनसंस्था च वैष्णवी सर्वकामदां ॥
वृषस्थाक्षशूलखड्गाः खट्वाङ्गं मातुलिङ्गकम् ।
जटाकिरीटेन्दुयुक्ता श्वेताङ्गी च महेश्वरी ॥
v2.c83.s1.85
चतुर्वक्त्रा चतुर्बाहुसंयुक्ता हेमसिन्निभा ।
दक्षिणेऽभयशूलं च वरदं चाक्षमालिका ॥
रक्तपद्मासनासीनां हंसवाहनकेतुकाम् ।
जटामकुटसंयुक्तां पीताम्बरधरां वराम् ॥
ब्रह्माणीं ह्येवमाख्यातां ब्रह्मवृक्षसमाश्रिताम् ।
v2.c83.s1.86
चतुर्भुजा विशालाक्षी तप्तकाञ्चनसंनिभा ।
वरदाभयहस्ता च कमण्डल्वक्षमालिका ॥
हंसध्वजा हंसरूढा जटामकुटधारिणी ।
रक्तपद्मासनासीना ब्रह्माणी ब्रह्मरूपिणी ॥
v2.c83.s1.87
तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता ।
पिङ्गला भूषणोपेता मृगचर्मोत्तरीसका ॥
वरं सूत्रं स्रुवं धत्ते दक्षबाहुत्रये क्रमात् ।
वामे तु पुस्तकं कुण्डीं विभ्रती चाभयप्रदा ॥
v2.c83.s1.88
(iv) रूप० ब्रह्माणी हंसमारूढा साक्षसूत्रकमण्डलुः ।
स्रुचं तु पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥
२. माहेश्वरी चतुर्भुजा त्रिनेत्रा च अतिरक्तसमप्रभा ।
(i) अ० आ० शूलाभयकरा सव्ये वामे वरदसंयुता ॥
जपमालासमायुक्ता जटामकुटसंयुता ।
ईश्वरेणोपमा ह्येषा शिवा माहेश्वरी स्मृता ॥
(ii) पू० कार० त्रिनेत्रा शुक्लवर्णा च शूलपाणिर्वृषध्वजा ।
वरदाभयहस्ता च साक्षमालकरान्विता ॥
जटामकुटिनी शम्भोर्भूषणी सा महेश्वरी ।
(iii) वि०ध० माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ।
शुक्लेन्दुभृज्जटाजूटा शुक्ला सर्वसुखप्रदा ॥
षड्भुजा वरदा दक्षे सूत्रं डरुमकं तथा ।
शूलघण्टाभयं वामे सैव धत्ते महाभुजा ॥
(iv) रूप० माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता ।
कपालशूलखट्वाङ्गवरहस्ता चतुर्भुजा ॥
३. वैष्णवी शङ्खचक्रधरा देवी वरदाभयपाणिनी ।
(i) अ० आ० सुस्तना चारुवदना श्यामाभा च सुलोचना ॥
पीताम्बरधरा देवी किरीटमकुटान्विता ।
राजवृक्षं समाश्रित्य गरुडध्वजवाहिनी ॥
वैष्णवी पीठगा देवं (?) विष्णुभूषणभूषिता ।
(ii) पू० का० पद्मपत्रविशालाक्षी श्यामवर्णा महाबला ।
शङ्खचक्रगदापद्मधराबाहुचतुष्टयी ॥
गरूङध्वजसंयुक्ता वैष्णवी विष्णुभूषणी ।
(iii) वि० ध० वैष्णवी तार्क्ष्यगा श्यामा षड्भुजा बनमालिनी ।
वरदा गदिनी दक्षे बिभ्रती चाम्बुजस्रजम् ॥
शङ्खचक्राभयान्वामे सा चेयं विलसद्भुजा ।
(iv) दे० पु० सुसिद्धा वैष्णवी कार्या शङ्खचक्रगदाम्बुजा ।
वनमालाकृतापीड़ा पीतवस्त्रा सुशोभिता ॥
(v) रूप० वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता ।
चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥
४. कौमारी चतुर्भुजा त्रिनेत्रा च रक्तवस्त्रसमन्विता ।
(i) अ० आ० सर्वाभरणसंयुक्ता वाचिकाबद्धमाकुटी (?) ॥
शक्तिकुक्कुटहस्ता च वरदाभयपाणिनी ।
मयूरध्वजवाही स्यादुदुम्बरद्रुमाश्रिता ॥
कौमारी चेति विख्याता सर्वकामफलप्रदा ।
v2.c83.s1.89
(ii) पू० का० कुमारसदृशा कन्या वर्णवाहनकेतुभिः ।
वासिकाबद्ध मकुटा (?) शक्तिकाङ्कुशधारिणी॥
रक्तवस्त्रा महावीर्या हारकेयूरभूषणी ।
वरदाभयहस्ता च कौमारी कुङ्कुमप्रभा ॥
v2.c83.s1.90
(iii) वि० ध० कौमारी रक्तवर्णा स्यात् षडवक्त्रा सार्कलोचना ।
रविर्बर्हिर्मयूरस्था वरदा शक्तिधारिणी ॥
पताकां बिभ्रती दण्डं पात्रं बाणं च दक्षिणे ।
वामे चापमथो घण्टां कमलं कुक्कुटं त्वधः ॥
परशुं बिभ्रती तीक्ष्णं तदधस्त्वभयान्विता ।
v2.c83.s1.91
(iv) दे० पु० कौमारी चैव कर्तव्या मयूरासनशक्तिभृत् ।
त्रिदण्डी कालरूपा च रक्तमाल्या सकुक्कुटा ॥
v2.c83.s1.92
(v) रूप० , कुमाररूपा कौमारी मयूरवरवाहना ।
रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥
v2.c83.s1.93
५. वाराही वराहवक्त्रसदृशा प्रलयाम्बुदसन्निभा ।
(i) अ०आ० करण्डमकुटोपेता विद्रुमाभरणान्विता ॥
हलं च वरदं सव्ये वामे अभयक्तिके ।
कल्पद्रुमं समाश्रित्य गजध्वजसवाहिनीम् ॥
वाराही चेति विख्याता नाम्ना सर्वफलप्रदा ।
v2.c83.s1.94
(ii) पू० कार० कृष्णा पीताम्बरा शाङ्र्गी सर्वसम्पत्करी नृणाम् ।
पवित्रालङ्कृतोरस्का पादनूपुरसंयुता ॥
सव्येऽभयहलं चैव मुसलं वर (द) मन्यके ।
वराहक्त्री वाराही यमभूषणभूषणी ॥
v2.c83.s1.95
(iii) वि० ध० कृष्णवर्णा तु वाराही सूकरास्या महोदरी ।
वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे सदा ॥
खेटपाशाभयान्वामे सैव चापि लसद्भुजा ।
v2.c83.s1.96
(iv) दे० पु० ‘सूकरास्या कपालेऽसृक् पिबन्ती दण्डधारिणी'
v2.c83.s1.97
(v) रूप० . वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिता ।
वराहसदृशी देवी घण्टाचामरधारिणी ॥
गदाचक्रधरा तद्वद्दानवेन्द्रविघातिनी ।
लोकानां च हितार्थाय सर्वव्याधिविनाशिनी ॥
v2.c83.s1.98
६. इन्द्राणी चतुर्भुजा त्रिनेत्रा च रक्तवर्णा किरीटिनी ।
(i) अ० अ० शक्तिवज्रधरा चैव वरदाभयपाणिनी ॥
सर्वाभरणसंयुक्ता गजध्वजवाहिनी ।
इन्द्राणी चेति विख्याता कल्पद्रुमममाश्रिता ॥
v2.c83.s1.99
(ii) पू० का० वज्रहस्ता गजारूढा लोचनद्वयसंयुता ।
वस्त्रालङ्कारसंपन्ना गजेन्द्रध्वजवाहना ॥
v2.c83.s1.100
वरदाभयशक्त्याप्तबाहुकेन्द्री प्रकीर्तिता ।
ऐन्द्री सहस्रदृक्सौम्या हेमाभा गजसंस्थिता ।
वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वं तु दक्षिणे ॥
वामे तु कलशं पात्रं त्वभयं तदधः करे ।
ऐन्द्री सुरवराध्यक्षा गजराजोपरि स्थिता ।
वज्राङ्कुशधरा देवी हारकेयूरभूषिता ॥
इन्द्राणी चेन्द्रसदृशी वज्रशूलगदाधरा ।
गजासनगता देवी लोचनैर्बहुभिर्वृता ॥
v2.c83.s1.101
७. चामुण्डा
v2.c83.s1.102
चतुर्भुजा त्रिनेत्रा च रक्तवर्णोर्ध्वकेशिका ।
कपालशूलहस्ता च वरदाभयपाणिनी ॥
शिरोमालोपवीता च पद्मपीठोपरि स्थिता ।
व्याघ्रचर्माम्बरधरा वटवृक्षसमाश्रिता ॥
चामुन्डीलक्षणं ह्येवमेकबेरे च तत्समम् ।
वामपादस्थितास्सर्वास्सव्यपादप्रलम्बिताः ॥
दीर्घजिह्वोर्ध्वकेशा च कृष्णका कृष्णदंष्ट्रिका ।
निर्मांसा व्यावृतमुखी चण्डी खण्डेन्दुखण्डिता ॥
काली कपालमाला च शवारूढा कृशोदरी ।
कौशिकारोहिणी वासौ चामुण्डा गृध्रकेतुका ॥
मांसखण्डसुसंपूर्ण कपालं वामपणिभाक् ।
शूलाही दक्षिणे चैव बह्निर्वामकरस्थकः ॥
व्याघ्रचर्माम्बरा काली त्रिनेत्री शङ्खकुण्डली ।
लोकानां मातरस्सप्तमातरः कथिता इमाः ॥
चामुण्डा प्रेतगा रक्ता विकृतास्याहिभूषणा ।
दंष्ट्रोग्रा क्षीणदेहा च गर्ताक्षी भीमरूपिणी ॥
दिग्बाहुः क्षामकुक्षिश्च मुसलं कवचं शरम् ।
अङ्कुशं बिभ्रती खड्गं दक्षिणे त्वथ वामतः ।
खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ।
या चण्डघातिनी देवी चामुण्डलक्षणं श्रृणु ।
निर्मांसा क्रूररूपा च उग्रनासा कृशोदरी ॥
कपिला चोर्ध्वकेशी च नीलाङ्गी रक्तलोचना ।
स्फुरन्नयनदंष्ट्रा च विकृतानखरानना ॥
त्रिशूलखड्गखेटाश्च धनुर्बाणश्च पाशकः ।
अङ्कुशश्चैव घण्टा च तथा दर्पणवज्रकौ ॥
दण्डः कुठारशङ्खौ च चक्रं गदा च मुद्गरः ।
सृक्विणी कपालमालाालङ्कृतिं बिभ्रती तथा ॥
शवारूढा तु चामुण्डा जङ्घे घण्टावलम्बिके ।
v2.c83.s1.103
व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता ॥
सुनूपुरा घननादा दैत्यकाल इवापरः ।
v2.c83.s1.104
लम्बोदरी तु कर्तव्या स्क्ताम्बरपयोधरा ।
शूलहस्ता महाभागा भुजप्रहरणा तथा ॥
कार्पासकलुषा देवी वारुणी चातिसुन्दरी ।
बृहन्नखा च कर्तव्या बहुबाहुस्तथैव च ॥
चामुण्डा कथिता चैव सर्वसत्ववशङ्करी ।
v2.c83.s1.105
खड्गं पात्रं च मुसलं लाङ्गलं च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥
अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् ।
इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥
अधीते य इमां नित्यं रक्तदन्त्यावपुस्तकम् (?) ।
तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥
v2.c83.s1.106
देवीभेदप्रभेदेषु–
v2.c83.s1.107
नन्दा भगवती देवी भारद्वाजाभिनन्दजा ।
वरपाशाङ्कुशाब्जानि बिभ्रती च चतुर्भुजा ॥
गौरवर्णा गजस्था वा खड्गखेटवराभया ।
v2.c83.s1.108
श्यामवर्णा विशालाक्षी क्षीरारुणनिभानना ।
द्विभुजा बिभ्रती लिङ्ग चर्म शस्त्रं तु दक्षिणे ॥
सिंहासनोपविष्टेयं मुक्ताभरणमूर्धजा ।
भूतप्रेतपिशाचाद्यैस्सेविता तु विशेषतः ॥
इन्द्रयक्षैश्च गन्धर्वैस्सिद्धविद्याधरादिभिः ।
अश्वत्थस्याप्यधो देवी भूतमातेति विश्रुता ॥
v2.c83.s1.109
निद्रा तु शयनारूढा सुसौम्या मुकुलेक्षणा ।
पानपात्रधरा चेयं द्विभुजा परिकीर्तिता ॥
v2.c83.s1.110
वृत्तस्था जटिला त्र्यक्षा वह्निज्वालासमप्रभा ।
कपालाभयहस्तोय्रा वामा वामफलप्रदा ॥
द्विबाहुरेकवक्त्रैषा विधातव्या विपश्चिता ।
v2.c83.s1.111
रक्तवस्त्रा तथा रौद्री कपालचमरीकरा ।
शेषपूर्वा तु विज्ञेया कृष्णवक्त्रा सुभीषणा ॥
v2.c83.s1.112
नीलशुभ्रा महादेवी विकर्णी कलपूर्विका ।
कपालशक्तिहस्तेयं भयदृच्च शुभप्रदा ॥
v2.c83.s1.113
बभ्रुवर्णा विशालाक्षी कपालं जपमालिकाम् ।
बिभ्राणा शान्तिदा भृत्यै बलपूर्वा विकर्णिका ॥
v2.c83.s1.114
ताम्राभा श्वेतवर्णा स्याद्वलप्रमथनी शुभा ।
कपालपाशिनी चेयं सर्वशत्रुक्षयङ्करी ॥
v2.c83.s1.115
'अम्बा कुमुदवर्णाभा पाशाब्जाभीतिपात्रिणी'
सिंहारूढाम्बिका त्र्यक्षा भूषिता दर्पणोद्वहा ।
(वामभुजे दर्पणोद्वहा दक्षिणे वरयुक्ता, यदुक्तम्—
दक्षिणे तु करे प्रोक्तो वरस्साधारणस्सदा ।
खड्गखेटधरा द्वाभ्यां कर्तव्या च चतुर्भुजा ॥
v2.c83.s1.116
सिंहासनस्थिता देवी जटामुकटमण्डिता ।
शूलाक्षसूत्रधरा च वरदाभयचापधृक् ॥
दर्पणं शरखेटं च खड्गचन्द्रधरा शिवा ।
सुरूपा लक्षणोपेता सुस्तनी चारुहासिनी ॥
सर्वाभरणभूषाङ्गी सर्वशोभासमन्विता ।
v2.c83.s1.117
चतुर्बाहुः प्रकर्तव्या सिंहस्था सर्वमङ्गला ।
अक्षसूत्रं कजं दक्षे शूलकुण्डीधरोत्तरे ॥
हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां
द्वात्रिंशद्दळषोडशाष्टदलयुक्पद्मस्थितां सुस्मिताम् ।
भक्तानां धनदां वरं च दधतीं वामेन हस्तेन त-
द्दक्षेणाभयमातुलङ्कसुफलं श्रीमङ्गलां भावये ॥
v2.c83.s1.118
एकवेणी जपाकर्णपूरा नग्ना खरस्थिता ।
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥
वामपादोलसल्लोहलताकण्टकभूषणा ।
वर्धन्मूर्ध्वध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥
v2.c83.s1.119
शङ्खमुग्धकरादर्शं बिभ्रती वामपार्श्वतः ।
याम्ये फलाञ्जनीहस्ता ललिताेर्ध्वा सुभूषणा ॥
v2.c83.s1.120
जपाकुसुमवर्णाभा दंष्ट्रिणी च महोदरी ।
कपालवज्रिणी भूतदमनी सर्वपूर्विका ॥
v2.c83.s1.121
नीलताम्रारुणा भासा पृथुवक्त्रा मनोन्मनी ।
कपालखङ्गिनी भूत्यै शत्रूणां भयवर्धनी ॥
चतुर्भुजां त्रिनेत्रां च जटामुकुटमण्डिताम् ।
समपदस्थानकां देवीं दशतालेन मानयेत् ॥
दक्षिणे चाभयं पूर्वे वरदं वामहस्तके ।
अपरे दक्षिणे चाब्जं वामहस्ते तु चोत्पलम् ॥
श्वैतरक्तं च वर्णं वा श्यामवर्णाङ्गशोभिताम् ।
केचित्तु कुन्तलनिभं तुङ्गं मकुटं कुन्तलं तु वा ॥
वामे बालशशिनं कुर्याद्वामे तुरगमन्वितम् ।
दुकूलवसनोपेतां सर्वाभरणभूषिताम् ॥
तदेव वृषमाश्रित्य पृष्ठे देवी त्रिभागिकम् ।
v2.c83.s1.122
दक्षिणं स्वस्तिकं पादं वामपादं तु कुञ्चितम् ॥
पुरतो वामहस्ताग्रे शिरस उपरि विन्यसेत् ।
शेषं तु पूर्ववद् देवीं च चोत्पलं वासनाभयम् ॥
तदेव परहस्तो च वामे रक्ताब्जधारिणीम् ।
दक्षिणे चाक्षमालां च कुर्यात्प्रोक्तं पुरातनैः ॥
एवं मनोन्मनीं शक्तिं स्थापयेच्छिवहर्म्यके ।
v2.c83.s1.123
तथैवातर्मुखी शुष्का शुष्ककाया विशेषतः ।
बहुबाहुयुता देवी भुजगैः परिवेष्टिता ॥
कपालमालिनी भीमा तथा खट्वाङ्गधारिणी ।
शिवदूती तु कर्तव्या शृगालवदना शुभा ॥
आलीढासनसंस्थाना तथा राजंश्चतुर्भुजा ।
असृक्पात्रधरा देवी खड्गशूलधरा तथा ॥
चतुर्थस्तु करस्तस्यास्तथा कार्यस्तु सामिषः ।
v2.c83.s1.124
वामाधो रत्नपात्रं तदुपरि च गदां खेटवाशौ दधानां
दक्षैः पद्मं कुठारं तदुपरि च महाखड्गमप्यङ्कुशं च ।
मध्याह्नार्कप्रभाभां नवमणिविलसद्भूषणामष्टहस्तां
दूतीं नित्यां त्रिनेत्रां सुरगणमुनिभिस्तूयमानां भजेऽहम्॥
v2.c83.s1.125
दशबाहुस्त्रिनेत्रा च शस्त्रशक्त्यसिडामरुम् ।
बिभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकम् ॥
खट्वाङ्गं च त्रिशूलं च देवी योगेश्वरी मता ।
v2.c83.s1.126
एवंरूपा भवेदन्या पाशाङ्कुशयुतारुणा ।
भैरव्याख्या यदिष्टा तु भुजैर्द्वादशभिर्युता ॥
v2.c83.s1.127
उद्यद्भानुसहस्रकान्तिमरुणक्षामां शिरोमालिनीं
रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्ध हिमांशु रत्नमकुटां वन्देऽरविन्दस्थिताम्॥
v2.c83.s1.128
शिवा वृषासना कार्या त्रिनेत्रा वरपाणिका ।
डमरूरगधारी च त्रिशूलाभयदायिका ॥
v2.c83.s1.129
सुमध्द्यां कारयेत्कीर्तिं नीलोत्पलव्यस्थिताम् ।
सर्वाभरणभूषाङ्गीं कलशोत्पलधारिणीम् ॥
मदिराेदनगन्धाढ्यां महार्घमणिभूषणाम् ।
v2.c83.s1.130
सिद्धिर्देवी प्रकर्तव्या सिद्धार्थकवरप्रदा ।
सितचन्दनगन्धाढ्या सितपङ्कजभूषिता ॥
सितासनस्थिता देवी प्रतिहारोपशोभिता ।
v2.c83.s1.131
सुन्दरीं कारयेदृद्धि पर्यङ्कासनसंस्थिताम् ॥
दर्पणालोकसुरतां तिलकालकभूषिताम् ।
मालाचामरशोभाढ्यां वेणुबीणासदाप्रियाम् ॥
v2.c83.s1.132
क्षमा तु सुमुखी कार्या योगपट्टोत्तरीया ।
पद्मासनकृताधारा वरदोद्यतपाणिका ॥
शूलमेखलसंयुक्ता प्रशान्ता योगसंस्थिता ।
'तेजोऽधिका प्रकर्तव्या दीप्तिश्चन्द्रासनस्थिता'
कमनीया रतिः कार्या वसन्तोज्वलभूषणा ।
नृत्यामाना शुभा देवी समस्ताभरणैर्युता ॥
वीणावादनशीला च मदकर्पूरचर्चिता ।
दण्डाक्षसूत्रधरा च व्रतस्था योगसंस्थिता ॥
'श्वेता पूर्णेन्दुसदृशा श्वेतपङ्कजसंस्थिता'
भद्रा सुभद्रा कर्तव्या भद्रासनव्यवस्थिता ।
नीलोत्पलफलहस्ता शूलसूत्राक्षधारिणी ॥
जया च विजयां कुर्याच्छूलपद्माक्षधारिणीम् ।
वरोद्यतां च सिंहस्थां स्वकर्मप्रसाधनीम् ॥
'घण्टाकर्णी प्रकर्तव्या घण्टात्रिशूलधारिणी'
जयन्ती सुन्दरी कार्या कुन्तशूलासिधारिणी ,
खेटकव्यग्रहस्ता च पूजनीया शुभान्वितैः ॥
दितिर्दैत्यनुता देवी सदा पूज्या महामुने! ।
दण्डासनस्थिता भद्रा सर्वाभरणभूषिता ॥
फलनीलोत्पलकरा चोत्सङ्गशिशुभूषिता ।
अक्रोधारुन्धती देवी सितवस्त्रा व्रतस्थिता ।
पत्रपुष्पोदककरा चन्दनेन सुचर्चिता ॥
अपराजिता च कर्तव्या सिंहारूढा महाबला ।
पिनाकेषुकरा चैव खड्गखेटकधारिणी ॥
त्रिनेत्रेन्दुजटाभारा कृतवासुकिकङ्कणा ।
नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् ।
नीलकुञ्चितकेशाग्रां निम्ननाभीवलित्रयाम् ॥
वराभयकराम्भोजां प्रणतार्तिविनाशिनीम् ।
पीताम्बरोपेतां भूषणस्रग्विभूषिताम् ॥
वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जनीम् ।
शङ्खचक्रगदाभीतिरम्यहस्तां त्रिलोचनाम् ॥
सर्वकामप्रदां देवीं ध्यायेत्तामपराजिताम् ।
सुरभिर्गोमुखी देवी सुरूपा सर्वभूषणा ।
घासमुष्टिं तथा कुण्डीं बिभ्राणा मूर्तिपुष्टिदा ॥
अक्षसूत्रं च कुण्डीं च हृदयाग्रे पुटाञ्जलिम् ।
पञ्चाग्निकुण्डमध्यस्थां कृष्णां तामनुधारयेत् ॥
v2.c83.s1.133
इन्द्राक्षीं द्विभुजां देवीं पीतवस्त्रद्वयान्विताम् ।
वामहस्ते वज्रधरां दक्षिणेन वरप्रदाम् ।।
इन्द्राक्षीं सहयुवतीं नानालङ्कारभूषिताम् ।
प्रसन्नवदनाम्भोजामप्सरोगणसेविताम् ।।
v2.c83.s1.134
वामे माणिक्यपात्रं मधुरसभरितं बिभ्रतीं पाणिपद्मे
दिव्यैरत्नैः प्रपूर्णां धृतमणिवलये दक्षिणे रत्नदर्वीम् ।
रक्ताङ्गी पीनतुङ्गस्तनभरविलसत्सारहारां त्रिनेत्रां
वन्दे पूर्णेन्दुबिम्बप्रतिनिधिवदनामम्बिकामन्नपूर्णां ।।
सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रक्तवस्त्रां
पीनोत्तुङ्गस्तनाढ्यामभिनवविलसद्यौवनारम्भPhase
पीनोत्तुङ्गस्तनाढ्यामभिनवविलसद्यौवनारम्भरम्याम् ।
नानालङ्कारयुक्तां सरसिजनयनामिन्दुसंक्रान्तमूर्ति ।
देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णां नमामि ।।
v2.c83.s1.135
जपाकुसुमसङ्काशा फुल्लपद्मासनस्थिता ।
अक्षस्रक्पुस्तकाभीतिवरहस्ता तु बालिका ।।
v2.c83.s1.136
रत्नसनां श्यामगात्रीं शृण्वतीं शुकजल्पितम् ।
अब्जन्यस्तैकचरणां चारुचन्द्रावतंसकाम् ।।
वीणामालापयन्तीं च तिलकोद्भासिफालकाम् ।
सौगन्धिकस्रक्कलिकार्चूलिकां रक्तवाससम् ।।
विभूषणैर्भूषितां च मातङ्गीं प्रणमाम्यहम् ।
v2.c83.s1.137
अश्वाारूढां कराग्रे नवकनकमयीं वेत्रयष्टिं दधाना
दक्षे वामेऽपि चैवं खलिलनतुलतापाशबद्धा सुसाध्या ।
देवी नित्यं प्रसन्ना शशधरविलसत्केशपाशा त्रिनेत्रा
दद्यादद्यानवद्या सकलसुखकुलप्राप्तिहृद्यां श्रियं नः ।।
v2.c83.s1.138
उद्यद्भास्वत्समाभां विजितनवजपामिन्दुखण्डावतंसां
ज्योतिर्मालां त्रिनेत्रां विविधमणिलसत्कुण्डलां पद्मसंस्थाम् ।
हारग्रैवेयकाञ्चीमणिगणवलयैस्संयुतामम्बराढ्या-
माद्यां पाशाङ्कुशाभ्यामभयवरकरां भावयेद्द्रुवनेशीम् ।।
v2.c83.s1.139
द्विभुजाञ्जनसङ्काशा लम्बोष्ठा तुङ्गनासिका ।
लम्बमानस्तना कुक्षौ नीलं वा रक्तवाससी ।।
उत्पलं दक्षिणे हस्ते पीठे वा मकरस्थितः ।
भद्रपीठस्थिता वापि द्विपादं चैव लम्बिनि ।।
सर्वाभरणसंयुक्ता वाचिकाबद्धमाकुटी (?) ।
काकध्वजसमायुक्ता सालका तिलकान्विता ।।
तस्या दक्षिणपार्श्वे तु वृषो वै वृषवाहना ।
द्विभुजो दक्षिणे हस्ते दण्डं वामे तु सूत्रकम् ।।
v2.c83.s1.140
लम्बयेद्दक्षिणं पादं वाममुत्कुटिकासिनम् ।
श्वेतवर्णमहाकार्या सर्वाभरणभूषिता ॥
किरीटमुकुटोपेता दुकूलवसनान्विता ।
वृषं वै दक्षिणे त्वेवं वामे त्वग्निमथोच्यते ॥
सुस्तना यौवनाङ्गा च सर्वाभरणभूषिता ।
कृष्णाञ्जननिभा रक्तवस्त्रेणैव तु भूषिता ॥
करण्डमुकुटाद्व धक्षी वाम ......... न्विता ।
सव्येनोत्कुटिकासीमा हस्तादुत्पलधारिणी ॥
v2.c83.s1.141
अथातस्संप्रवक्ष्यामि ज्येष्ठायास्स्थापनं परम् ।
आदिशक्तेस्समुत्पन्ना पश्चादुदधिसंभवा ॥
उदधौ मथ्यमाने तु चोत्थिता सा गजानना ।
कालाञ्जननिभा देवी सर्वाभरणभूषिता ॥
खरारूढा कलेः पत्नी सुखासीना हिता तनुः ।
जानुपार्श्वे मणिवार्थ वृषास्यं वृषभं तथा ॥
वृषभो रक्तवर्णस्तु मणिः काञ्चनसंप्रभा ।
रूपाण्येतानि कृत्वा तु प्रतिष्ठां सम्यगाचरेत् ॥
v2.c83.s1.142
पीनोरू पीनगण्डा च पीनस्तनभरोदरी ।
नीलकालकसीमन्ता सधम्मिल्लशिरोरूहा ॥
स्निग्धाञ्जननिभा रक्ता बिम्बोष्ठी तुङ्गनासिका।
द्विभुजा च द्विनेत्रा च कुमुदं दक्षिणे करे ॥
कन्यापुत्रान्विता देवी दक्षिणेऽदक्षिणेऽपि च ।
देव्या बाहुसमं कुर्यात् कन्यकापुत्रकौ क्रमात् ॥
पुत्रो वृषभवक्त्रस्तु द्विभुजौ च द्विनेत्रकौ ।
ज्येष्ठाया आकृतिह्र्येवं पद्मजाकृतिरूच्यते ॥
v2.c83.s1.143
तुङ्गनासा च लम्बोष्ठी लम्बमानस्तनोदरी ।
आलोहिता स्मृता ह्येषा ज्येष्ठाऽलक्ष्मी रिति श्रिये॥
उत्पालाभयहस्तेयं द्विभुजा वीरवन्दिता ।
रक्तज्येष्ठा च नीला च भूतलार्पितपादिका ॥
भूतलं स्पृशते दोर्भ्यां द्विभुजा वीरवन्दिता ।
v2.c83.s1.144
पाटलाभा भवेदष्टाकपालशरधारिणी ॥
उग्रा महाबला भूत्यै शत्रुघ्नी शेषपूर्वजा ।
v2.c83.s1.145
पञ्चमो पटलः समाप्तः
Cites (6)
- Kāśyapaśilpa — Sanskrit
- Viṣṇudharmottarapurāṇa — Sanskrit
- Viśvakarmaśilpa — Viśvakarman, Sanskrit
- Rūpamaṇḍana — Maṇḍana, Sanskrit
- Caṇḍī (Bhabānī Prasād Kar) — Bhabānī Prasād Kar, Bengali
- Devīpurāṇa — Sanskrit