Pramāṇa · Search · About · API

History of the Pallavas of Kanchi c18: Appendix C. The ‘Avantisundarikathāsara’

History of the Pallavas of Kanchi c18

Language
English

Appendix C. The ‘Avantisundarikathāsara’

c18.2

The *Avantisundarikathā* and the *Avantisundarikathāsara* are two old Sanskrit manuscripts discovered by the search party of the Madras Oriental Manuscript Library some years ago.¹ Of these the former is a prose work with a poetic introduction while the other is a summary of this work in verse. While the MSS. are interesting to the students of Sanskrit literature the poetical introduction prefixed to the prose work is of particular interest to the students of Pallava history inasmuch as it shows the literary patronage of some of the Pallava kings of the Simhavishnu line and the connection of some of the well-known Sanskrit poets with Kanchipuram. It is agreed that this prose work was written by Daṇḍin and the introductory chapter gives some valuable data for fixing the date and place of Daṇḍin and his connection with Bhāravi as well as the Pallava kings and their interest in architecture and literature. The literary and historical importance of the work have been discussed in full by Mr. Ramakrishnakavi in his paper on ‘*Avantisundarikathā* of Daṇḍin’² which may be referred to. Mr. Harihara Sastri of Trivandrum has questioned the tenability of the identity of Damodara and Bhāravi and the relationship of Bhāravi and Daṇḍin suggested by Mr. Kavi in the light of his discovery of the corresponding prose passage from Trivandrum Manuscript Library. The following are extracts from Mr. Ramakrishnakavi’s edition which has the advantage of supplying a number of correct readings not found in the Manuscript acquired by the Government Oriental Manuscript Library.

c18.3

¹ See para 108, of the Report on the working of Perip. party of Government Oriental Manuscript Library, Madras, for 1916-17 to 1918-19.

c18.4

² Proc. and Trans. of the Second Oriental Conference, Calcutta, pp. 192-200. See his paper in the Fourth Session of the Oriental Conference entitled ‘Bhāravi and Daṇḍin’.

c18.5

सत्कथाकथनप्रोत्या तथापि कथयाम्यहम् । कान्तामवन्तिसुन्दर्याः कथामनतिविस्तराम् ॥ ॥ १० ॥

c18.6

अस्तिप्रासादविस्तारग्रस्तव्योमान्तरा पुरी । काञ्चीपुराख्या कल्याणी ककु (भः) कुम्भजन्मनः ॥ ॥ ११ ॥

c18.7

या भृत्यविगलद्रोगै रसंह्यवसभिर्जनैः । भोगवत्यमरावत्यौ न्यक्कुर्वाणेव गर्विता ॥ ॥ १२ ॥

c18.8

तस्यां जज्ञे बुधव्रातध्वस्ताखिलविप्लवः । पल्लवेषु महीपालः सिंहविष्णुरिति श्रुतः ॥ ॥ १३ ॥

c18.9

गरिम्णा स्थावरान् सर्वानोजसा जङ्गमानपि । यो विजिग्ये भुजश्लाघ्यो भूभर्तृनुभयानपि ॥ ॥ १४ ॥

c18.10

अदृष्टपूर्वो गन्धर्वस्तं सभासदेमेकदा । उदञ्जलिर्महोपालमुपावीणयदार्तया ॥ ॥ १५ ॥

c18.11

दनुजपतिहृदयभूर- विभेदविज्ञातशक्तिनखकुलिशम् । जगदुदयहेतु विष्णो- श्वतुर्वपुर्नृसिंहं वः ॥ ॥ १६ ॥

c18.12

श्रुत्वैनामल्यदारार्थां कुतूहलला (लो) कृतः । अत्रबोद्ध्रद केनेयं निर्मिता वर्णपद्धतिः ॥ ॥ १७ ॥

c18.13

इत्युचिवांस्तं प्रत्युचे गन्धर्वस्तं धने (रे) श्वरम् । देव खनुगृहीतोऽस्मि श्रूयतामवधानतः ॥ १८ ॥

c18.14

अस्त्यानन्दपुरं नाम प्रदेशे पश्चिमौत्तरे । आर्यदेशशिखारत्नं तत्रासन् बहवो द्विजाः ॥ १९ ॥

c18.15

ततोऽमिनिसुता काचित् कौशिकब्रह्मसन्ततिः । ब्रह्मलोकादिवायन्ती पुण्यतीर्था सरस्वती ॥ २० ॥

c18.16

नासिक्थभूमावौत्सुक्यान्मूलदेव निवेशिताम् । प्राप्याचलपु (रं नाम पु) रोमधिवसत्यसौ ॥ २१ ॥

c18.17

तस्यां नारायणस्वामिनाम्नो नारायणोदरात् । दामोदर इति श्रोमानादिदेव इवाभवत् ॥ २२ ॥

c18.18

स मेधावी कविर्विद्वान् भारविः प्रभ (वं) वो गिराम् । अनुदध्याकरोन्मैत्रीं नरेन्द्रे विष्णुवर्धनौ (ने) ॥ २३ ॥

c18.19

क्षुधाविष्टेन तद्विद्धमामिषं मृगयान्तरे । अनिष्टशिष्टं हा ! कष्टं तेनाभोज्यमभूद्यतः ॥ २४ ॥

c18.20

अगच्छन्नन्तिकं पित्रोः सतपस्तोर्र्थालया । चरन् भेवर (?) मापेदे कस्यापि शुभजन्मनः ॥ २५ ॥

c18.21

स दुर्विनोतनामासीदनन्वर्थाभिधानवान् । तस्यान्तिके वसल्येष तेनार्ययमुदीरिता ॥ २६ ॥

c18.22

इति श्रुत्वा महीपालस्तदालोकनलोलुपः । अनेकश्रोमुखाकृष्टमकरोदमुमात्मसात् ॥ २७ ॥

c18.23

सर्वशेषैरुविगतैस्तमाचारेरतोषयत् । अभूयच्च भूपालमग्राम्यैः स सुभाषितैः ॥ २८ ॥

c18.24

नृपनिबंधननिर्दिष्टे प्रकृष्टविभवे गृहे । वहत: पैतृकीं वृत्तिं तस्यासीत् तनयत्रयम् ॥ ॥ २९ ॥

c18.25

मनोरथाख्यस्तेषां मध्यमो वंशवर्धन: । ततस्तनुजाश्वार: स्रष्टुर्वेदा इवाभवन् ॥ ॥ ३० ॥

c18.26

श्रोबोरदत्त इत्येषामुतमतत्त्ववेदिनाम् । यत्रोयानस्य च श्लाघ्या गौरीनामाभवत् प्रिया ॥ ॥ ३१ ॥

c18.27

तत: कथंचित् सा गौरी द्विजाधिपशिखामणे: । कुमारं दण्डिनामानं व्यक्तशक्तिमजोजनत् ॥ ॥ ३२ ॥

c18.28

स बाल एव मात्रा च पित्रा चापि व्ययुज्यत । अयुज्यत गरीयस्या सरवत्या श्रुतेन च ॥ ॥ ३३ ॥

c18.29

सविक्रये पुरे तस्मिन् परचक्रोपरोधत: । स चचार शुभाचार: सर्वामुर्वीमुदारधी: ॥ ॥ ३४ ॥

c18.30

अथाश्रमेष्वधीयान: शास्त्रेषु च कृतश्रम: । पश्यन् पुण्यान्यरण्यानि न्यवसद्दिवसान् बहून् ॥ ॥ ३५ ॥

c18.31

अथाहूत: क्षितीशेन प्रशान्तोपद्रवे पुरे । खसुहृद्धन्धुमध्यस्थ: स भेजे निजमास्पदम् ॥ ॥ ३६ ॥

c18.32

एकदा वास्तुशास्त्रज्ञस्तक्षर्मविचक्षण: । स्थपति: कश्चिदम्येत्य प्रणिपत्योपस्थितवान् ॥ ॥ ३७ ॥

c18.33

अनल्पकल्पिताश्चित्रा विकल्पा: शिल्पकर्मणाम् । अत वक्ष्यामुनैवेत्यं तवस्थास्तमशंसिषु: ॥ ॥ ३८ ॥

c18.34

स तु शिल्पिंवरस्तेषामाक्षिप्य स्तुतिमात्मन: । मूर्धन्यञ्जलिमाबध्नथ दण्डिनमभ्यधात ॥ ॥ ३९ ॥

c18.35

अस्ति विज्ञाप्यमस्माकमन्तर्ग्राहोऽस्मि यद्यहम् । प्रार्थनां वितथोकर्तुं प्रभवो न भवादृशाः ॥ ॥ ४० ॥

c18.36

महामल्लपुरे देवः खैरं वारिधिसन्निधौ । आस्ते मुकुन्दः सानन्दं फणीन्द्र इव मन्दिरे ॥ ॥ ४१ ॥

c18.37

भग्नः केनापि तस्यासीत् कारणेनासुरद्विषः । मणिबन्धे महाबाहुः स मया सन्धितोऽधुना ॥ ॥ ४२ ॥

c18.38

तदालोकितुमर्हन्ति भवन्तः साधु वा न वा । एतावता प्रयासेन प्रसादातिशयोऽस्तु नः ॥ ॥ ४३ ॥

c18.39

श्रुत्वा सेनापतेः पुत्रः कलाकौशलपेशलः । पार्श्ववर्ती परां मैत्रीं विभ्रदण्डनमभ्यधात् ॥ ॥ ४४ ॥

c18.40

आर्य संभाव्यतामस्य स्थपतेः प्रणयस्तथा । अपि च स्पृहणीयं ते सुहृदामपि दर्शनम् ॥ ॥ ४५ ॥

c18.41

मित्राणि मातृदत्ताद्याः केरळेभ्यो द्विजोत्तमाः । त्वद्दर्शनार्थमायातास्तस्मिन् सन्निदधत्यमी ॥ ॥ ४६ ॥

c18.42

इति श्रुत्वा ततः प्रोतस्तं विसृज्यपरेऽहनि । सुहृद्भिः सह तं देशं ययौ तेन च शिल्पिना ॥ ॥ ४७ ॥

c18.43

अथोत्तरङ्गभङ्गालोविलसद्बाहुलोलया । नृत्यन्तमिव गम्भीरमम्भोराशिं ददर्श सः ॥ ॥ ४८ ॥

c18.44

ततः सागरकल्लोलक्षितक्षोदाम्बुबिन्दुना । सेव्यमानं सुखामोदक्षारिणा वनवायुना ॥ ॥ ४९ ॥

c18.45

ततोदारं मुदा पश्यन्दूरे राजमन्दिरम् । गच्छन् वेलापथेनाथ प्रपेदे मन्दिरं हरेः ॥ ॥ ५० ॥

c18.46

तरङ्गबाहुसंवाहचरणाम्बुरुहद्वयम् । उदन्वता मुदाविष्टो ददर्श मुराशासनम् ॥ ५१ ॥

c18.47

प्रविश्य प्रतिमाभ्यर्णं गत्वा निर्वर्णयन्नयम् । नाध्यगच्छत् सुसंहत्या सन्धानं मणिबन्धके ॥ ५२ ॥

c18.48

तस्यापहसितलष्टक्षकर्मणि शिक्षया । विस्मितोऽयं स्मितं कुर्वन्ध्यैरर्चयति स्म तम् ॥ ५३ ॥

c18.49

तस्मिन् काले जलोद्देशे ददृशे मुक्तवारिजम् । उदारुणमार्तण्डमण्डलाकारि वारिधौ ॥ ५४ ॥

c18.50

तत्त प्रत्यक्षमेवैषां तरङ्गप्रेषितं हरेः । चरणाम्बुरुहस्पर्शात् सद्यो विद्याधरोऽभवत् ॥ ५५ ॥

c18.51

ततः किरीटो केयूरी कृपाणी कवची च सः । भूत्वा तपस्वी भूतेशं प्रणम्योदपतद्दिवम् ॥ ५६ ॥

c18.52

दृष्ट्वा दण्डिनमाचष्ट स्नेहादिष्टतमः सुहृत् । गोरोपुत्रोऽपि नन्वेतद्विष्टं दृष्टवानिति ॥ ५७ ॥

c18.53

पश्यन्नाचार्यरूपं तं चिन्तयित्वा क्रिमित्यसौ । कौतुकाकृष्टदृष्ट्यस्तेभ्यः संभाव्यमभ्यधात् ॥ ५८ ॥

c18.54

पद्मसम्बन्धिनो नूनममुना मुनिशापतः । पद्मोभूय प्रमुक्तेन भाव्यं दिव्येन केन चित् ॥ ५९ ॥

c18.55

अथ वा देवमाराध्य प्रसादान्मुराशासनम् । अत्याहितमिदं वेत्तुमल्प्यर्थमहमुत्सहे ॥ ६० ॥

c18.56

ततः स्वभवनं गत्वा दर्भशय्यामुपेयुषे । कथयामास तत्सर्वं भूतार्थं भूतभावनः ॥ ६१ ॥

c18.57

पृथुकान्तिमवन्तिसुन्दरोति प्रथितां विक्रमराजहंसाम् । सरसां रहसि प्रियामिवाद्रा- मुपलेभे पुरुषोत्तमप्रसादात् ॥ ६२ ॥

c18.58

मुक्त्वा शय्यां मिलितपुलकत्रासमुत्थाय भूयः प्राप्तानन्दो विरतिसमये प्राक्तनोनां क्रियाणाम् । स प्रारभे सपदि सकलां स्वलब्धां सुहृद्भ्यः शुश्रूषुभ्यः पृथुमथ कथां विस्तरेणाभिधातुम् ॥ ६३ ॥

c18.59

इत्यवन्तिसुन्दरीकथासारे

Linked texts (3)