Pramāṇa · Search · About · API

An Account of the Different Existing Systems of Sanskrit Grammar c19: Appendix II

An Account of the Different Existing Systems of Sanskrit Grammar c19

Language
English

Contents

Appendix II

c19.1

( See note 2 on page 48 )

॥ अथ जोगराजविरचिता पादप्रकरणसङ्गतिः ॥

c19.s1.1

ॐ नमः शिवाय । ॐ ।

c19.s1.2

आराधय षण्मुखमवाप्तवरप्रसादः
कारुण्यपूर्णहृदयः किल शर्ववर्मा ।
लोकस्य मोहतिमिराहतये व्यधत्त
सङ्क्षेपतः प्रकरणत्रितयात्मशास्त्रम् ॥ १ ॥

c19.s1.3

तत्रादितो व्यधित वर्णपदेषु सन्धिं
तत्रानुनासिकपदं बहुकारकादि ।
आख्यातिकं तदनु साध्यपदं क्रियाख्य-
मेतावत्तैव हि समन्वयमात्रलाभः ॥ २ ॥

c19.s1.4

संज्ञाश्च परिभाषाश्च प्रथमे पाद आदिशेत् ।
द्वितीये स्वरसन्धिं च तृतीये तन्निषेधनम् ॥ ३ ॥
वैयञ्जनं चतुर्थे च सन्धिं वैसर्गिकं परे ।
षष्ठे प्रथमवच्चैवँ सन्धिप्रकरणं जगौ ॥ ४ ॥

c19.s1.5

नाम्न आद्ये स्वरान्तस्य लिङ्गस्य स्यादिनिर्णयः ।
स्वरान्तव्यञ्जनान्तस्य द्वितीये युष्मदस्मदोः ॥ ५ ॥

c19.s1.6

तृतीयेपि त्यदादीनामित्थं नामपदस्थितिः ।
चतुर्थे कारकस्येह विनियोगोथ पञ्चमे ॥ ६ ॥

c19.s1.7

समासवृत्तिसिद्धस्य तद्धितेष्वपि वर्तनम् ।
षष्ठे सप्तमे प्रोक्तलिङ्गत् स्त्रीप्रत्ययात् स्त्रियाम् ॥ ७ ॥

c19.s1.8

इदं नामपदं सिद्धं सङ्क्षेपात् समुपादिशत् ।
तदन्तन्तमतो विश्वं वाङ्मयस्योपबृंहणम् ॥ ८ ॥

c19.s1.9

आख्यातेष्वादितः कालपुरुषार्थे नियोजनः ।
न्यात्युद्देशे (!) द्वितीयेपि सनादिप्रत्ययान्तता ॥ ९ ॥

c19.s1.10

ततो विकरणा आत्मनेपरस्मैविनिर्णयः ।
तृतीयेभ्यासकार्याणि चतुर्थे सम्प्रसारणम् ॥ १० ॥

c19.s1.11

आदेशागमलोपादि पञ्चमे तु गुणागुणाः । तन्त्रं वाणपदं पष्ठं सेडनिट्कृता ॥ ११ ॥

c19.s1.12

सङ्कोष्टम इत्येवं आख्यातपदक्रमः । सञ्चिन्त्यनीयो धात्यर्थकालभेदाद्विचक्षणैः ॥ १२ ॥

c19.s1.13

यथोसौत्र(?)जयत्येको यः परोपकृतौ रतः । योपि धन्यो धनं धत्ते सौत्यन्तं सुखमश्रुते ॥ १३ ॥

c19.s1.14

कृतस्तव्ययादयः सोपपदानुपदाश्च ये । लिङ्गप्रकृतिसिद्ध्यर्थं ताञ् जगौ शाकटायनः ॥ १४ ॥

c19.s1.15

तत्राद्यपादे रुत्तन्त्रं पञ्चपायां रुतां(?)विधिः । सोपि साधनकालादि विभागेनेति निर्णयः ॥ १५ ॥

c19.s1.16

स्याद्यन्तत्वात् सुसिद्धत्वात् तान् सूत्ररुदब्रवीत् । दिशन्दीदशद्वाहिवसिनिष्ठादुदीरणम् (?) ॥ १६ ॥

c19.s1.17

धातोः परे कृतो वुन्वृजाद्यस्ते च कर्तरि । आदौ तव्याद्यस्तेषां कृत्यास्ते भावकर्मणोः ॥ १७ ॥

c19.s1.18

अण्णादयः सोपपदास्ते च कालत्रये मताः । भूते क्त्व्वादयो वर्तमाने शन्तृङ्नादयः ॥ १८ ॥

c19.s1.19

उणादयः स्युर्बहुलं ये ते शास्त्रान्तरे स्थिताः । भविष्यतिस्तस्यमानक्रियार्थोपपदा मताः ॥ १९ ॥

c19.s1.20

घञ्ण्वल्कारयुकाद्या भावे पुंस्त्रीनपुंसके । संज्ञायां प्रासवासादा(?)वक्तरी च कारके ॥ २० ॥

c19.s1.21

करणे चाधिकरणे ध्वादिर्यन्र चेष्यते । ज्ञेयो धात्यर्थसम्बन्धे काणंखन्तु(?)विशेषणात् ॥ २१ ॥

c19.s1.22

कर्तान्यार्थोपदेशोपि ज्ञातापूज्यो मतः सताम् । प्रकीर्णतन्त्रमित्येवं पादप्रकरणस्थितिः ॥ २२ ॥

c19.s1.23

यद्यप्यन्यानि कार्याणि पादेष्वेपु समासते । तथापीयन्ति बाहुल्याभिप्रायेणोदितानि हि ॥ २३ ॥

c19.s1.24

एवं शास्त्रमिदं सूत्रमात्रेण पठितं सदा । तदेति कापि सौभाग्यलक्ष्मीः किं नेति शृण्वताम् ॥ २४ ॥

c19.s1.25

नाम्नः पादैः कारकस्य स्वरूपं द्वित्रैराख्यातास्थितैश्च क्रियायाः । कान्तैश्चालोच्याभिधानं क्रमेण श्लोकार्थार्थवेदने दत्तकर्णम् ॥ २५ ॥

c19.s1.26

श्रुत्वा साहित्यपानि सूक्ष्माण्यथादौ ज्ञात्वा काव्याकून्वृतार्थशब्दाम् । स्वप्रागल्भ्याच्चेतिहासादि बुध्वा काव्याभ्यासे तिष्ठताच्छद्धयत्नः ॥ २६ ॥

c19.s1.27

वाग्देवी सा सर्वतो भाजमाना पात्रापात्रावेक्षणेन प्रसादान् । कुर्वत्यन्तः कस्यचित् स्वाध्यायस्य(!) स्फीतिं सूतेयेतरस्याप्यशक्तिम् ॥ २७ ॥ . . . . . * . . . . . पादप्रकरणस्थितिम । पठतां शास्त्रमाभाति करस्थं शार्ववर्मणाम् ॥ ४९ ॥

c19.s1.28

द्विजराजजोगराजोरचयद्दीपनाय शिष्याणाम् । पादप्रकरणसङ्गतिमेतां कातन्त्रसूत्राणाम् ॥ ५० ॥

c19.s1.29

॥ इति जोगराजविरचिता पादप्रकरणसङ्गतिः समाप्ता ॥

c19.s1.30

∗ At this place a few unimportant stanzas are omitted.

Linked texts (1)