A Constructive Survey of Upanishadic Philosophy c4.s5: Sources I
A Constructive Survey of Upanishadic Philosophy c4.s5
- Language
- English
Sources I
c4.s5.1
I (a) तदेतत्सत्यं मंत्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि । तान्याचरथ नियतं सत्यकामा एष वः पंथाः सुकृतस्य लोके ॥ -मुं. I. 2. I.
(b) प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥ अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पंडितं मन्यमानाः । जंघन्यमानाः परियन्ति मूढा अन्धेनैव नीयमानाः यथांधाः ॥ अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ इष्टापूर्ते मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ मुं. I. 2. 7-II.
c4.s5.2
2 (a) प्रानाय स्वाहा । व्यानाय° । अपानाय° । समानाय° । उदानाय° । स य इदमविद्वानग्निहोत्रं जुहोति यथांगारानपोद्य भस्मनि
c4.s5.3
जुहुयात् ।... । यथेषीकातूलमग्नौ प्रोतं प्रदूयेत एवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति । तस्मादु हैवंविद्यद्यपि चंडालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यात् ।
c4.s5.4
(b) अथतः सायंमनं प्रातर्दनमग्निहोत्रमित्याचक्षते यावद्वै पुरुषो भाषते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि जुहोति यांवद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं तदा प्राणे जुहोत्येतेऽनन्तेऽमृते आहुतीजाग्रच्च स्वपन्नच संततमव्य-वच्छिन्नं जुहोत्यथ या अन्या आहुतयोऽन्तवत्यस्ताः कर्ममय्यो भवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं न जुहवां चक्रुः । कौ. II. 5.
c4.s5.5
3 एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वांगिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि अस्यैवैतानि सर्वाणि निःश्वसितानि । बृ. II. 4. 10.
c4.s5.6
4 (a) तपःप्रभावाद्देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम् ॥ श्वे. VI. 21.
c4.s5.7
(b) अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । उर्ध्वपवित्रो वाजिनिव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोऽक्षितः । इति त्रिशंकोर्वेदानुवचनम् । तै. I. 10.
c4.s5.8
5 (a) अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ ई. 10. अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्विचचक्षिरे ॥ के. I. 3.
c4.s5.9
(b) एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदांचक्रुः । छां. VI. 4. 5.
c4.s5.10
6 सो (मृत्युः)ऽकामयत द्वितीयो म आत्मा जायेतेति । स मनसा वाचं मिथुनं समभवत् ।... । स तया वाचा तेन आत्मना इदं सर्वमसृजत यदिदं किंच ऋचो यजूंषि सामानि छंदांसि यज्ञान् प्रजाः पशून् । बृ. I. 2. 4-5.
c4.s5.11
7 ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
c4.s5.12
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः॥
c4.s5.13
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयो- रन्यः पिप्पलं स्वाद्वत्ति, अनश्नन्नन्यो अभिचाकशीति॥ मुं. III. I. I.
c4.s5.14
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगां अजोन्यः॥ श्वे. IV. 5.
c4.s5.15
8 पृथिव्यन्तरिक्षं द्यौर्दिशोऽवांतरदिशः। अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि। आप ओषधयो वनस्पतय आकाश आत्मा। इत्य- धिभूतम्। अथाध्यात्मम्। प्राणो व्यानोऽपान उदानः समानः। चक्षुः श्रोत्रं मनो वाक् त्वक्। चर्म मांसं स्नावास्थिमज्जा। एत- दधिविधाय ऋषिरवोचत्। पाक्तं वा इदं सर्वं पांक्तेनैव पाक्तं स्पृणोतीति। तै. I. 7.
c4.s5.16
स एष पांक्तो यज्ञः पांक्तः पशुः पांक्तः पुरुषः पांक्तमिदं सर्वं यदिदं किंच। बृ. I. 4. 17.
c4.s5.17
9 (a) तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धरं विशतिप्रत्यराभिः। अष्टकैः षड्भिविश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम्॥ श्वे. I. 4.
c4.s5.18
(b) पञ्चस्रोतांम्बु पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुध्यादिमूलाम्। पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः॥ श्वे. I. 5.
c4.s5.19
10 (a) उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्रान्तं मे सोम्यविजा- नीहीति। यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति तस्मादेनं स्वपितीत्याचक्षते। ....अशनायापिपासे मे सोम्य विजानीहीति। यत्रैतत्पुरुषोऽशिशिषति नाम अप एव तदशितं नयन्ते। ...यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते। छां. VI. 8. 1-3,
c4.s5.20
(b) स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैतेन किंचनानावृतं नैतेन किंचनासंवृतम्। बृ. II. 5. 18.
c4.s5.21
(c) अकारः प्रथमा मात्रा आप्तेरादिमत्त्वाद्वा।...उकारो द्वितीया मात्रा उत्कर्षादुभयत्वाद्वा।...मकारस्तृतीया मात्रा मितेरपी- तेर्वा।
c4.s5.22
II अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच यदिदं सर्वमप्सुओतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति । कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति गंधर्वलोकेषु गार्गीति । कस्मिन्नु खलु गंधर्वलोका ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति । कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति चंद्रलोकेषु गार्गीति । कस्मिन्नु खलु चंद्रलोका ओताश्च प्रोताश्चेति नक्षत्रलोकेषु गार्गीति । कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेतींद्रलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेषु गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसि गार्गि मातिप्राक्षीरिति ततो ह गार्गी वाचक्नव्युपरराम । —बृ. III. 6. I.
c4.s5.23
12 (a) असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोन्तरिक्षमूपो मरीचयः पुत्राः । तस्य ये प्रांचो रश्मयस्ता एवास्य प्राच्यो मधुनाड्य ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ।...अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूंष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ।...अथ येऽस्य प्रत्यंचो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ।...अथ येऽस्योदंचो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वांगिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ।...अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ।...अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः । न वै तत्र न निम्लोच नोदियाय कदाचन । देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणोति । न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद । छां. III. I-II.
c4.s5.24
(b) एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचंद्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ
c4.s5.25
विद्युते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽनाकाशमवाय्वनासमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किंचन न तदश्नाति कश्चन ॥
c4.s5.26
(c) अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुंडरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदंतस्तदन्वेष्टव्यम् । तद्वाव विजिज्ञासितव्यमिति । तं चेद् ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुंडरीकं वेश्म दहरोऽस्मिन्नंतराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति । स ब्रूयाद्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचंद्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति । छां. VIII. I. 1-3.
c4.s5.27
(d) यो वै भूमा तत्सुखं... यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा... स एव अधस्तात्स उपरिष्टात्स पश्चात् स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेदं सर्वमिति । अथातोऽहंकारादेशः... । अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात रतिरात्मक्रीड आत्मामथुन आत्मानंदः स स्वराड् भवति ॥ छां. VII. 23-25.
c4.s5.28
13 (a) पुरुषो वाव यज्ञः । तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनम् ।... । अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यंदिनं सवनम् ।... । अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनम् । एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योहमनेन न प्रेष्यामीति । स ह षोडशं वर्षशतं अजीवत प्र ह षोडशं वर्षशतं जीवति य एवं वेद । छां. III. 16.
c4.s5.29
(b) षोडशकलः सोम्य पुरुषः । पंचदशाहानि माशीः । काममपः पिब । अपोमयः प्राणो न पिबतो विच्छेत्स्यत इति । छां. VI. 7. 1.
c4.s5.30
14 ब्रह्म वा इदमग्र आसीत् एकमेव तदेकं सन्न व्यभवत् । तच्छ्रेयो रूपं अत्यसृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणि इंद्रो वरुणः
c4.s5.31
सोमो रुद्रः पर्जन्यो यमो मृत्युः ईशान इति । स नैव व्यभवत् स विशमसृजत घसघो रुद्रा आदित्याः विश्वेदेवाः मरुत इति । स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणं, इयं वै पूषा, इयं हीदं सर्वं पुष्यति । स नैव व्यभवत् तच्छ्रेयो रूपमत्यसृजत धर्मम् । तदेतद्ब्रह्म, क्षत्रं, विट्, शूद्रः देवेषु । अग्निनैव देवेषु ब्रह्माभवत्, ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियो, वैश्येन वैश्यः, शूद्रण शूद्रः ।
c4.s5.32
15 (a) वेदमूच्याचार्योऽन्तेवासिनमनुशास्ति...आचार्य प्रियं धनमाहृत्य प्रजातंतुं मा व्यवच्छेत्सीः । तै. I. II. 1.
c4.s5.33
(b) त्रयो धर्मस्कंधाः यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयो, ब्रह्मचर्याचार्यकुलवासी तृतीयोऽत्यंतमात्मानमाचार्यकुलेऽवसाद्यन् । सर्व एते पुण्यलोका भवन्ति, ब्रह्मसंस्थोऽमृतत्वमेति । छां. II. 23. 1.
c4.s5.34
16 यथा काश्यो वा वैदेहो वा उग्रपुत्रः उज्ज्यं धनुराधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नी अतिव्याधिनी हस्ते कृत्वा उपोत्तिष्ठेद् एवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यां मुपोदस्थां तौ मे ब्रूहीति । बृ. III. 8. 2.
c4.s5.35
17 (a) तस्मात्क्षत्रत्परं नास्ति । तस्माद्ब्राह्मणः क्षत्रियमधस्ताद् उपास्ते राजसूये...सैषा क्षत्रस्य योनिर्यद्ब्रह्म तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैव अंततः उपनिश्रयति । बृ. I. 4. 11.
c4.s5.36
(b) यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति, तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति । छां. V. 3. 7.
c4.s5.37
(c) स (आरुणिः) होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यांते वाचमभाषथास्तां मे ब्रूहीति । स (जैवलिः) होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति । स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य मा नो भवान् बहोरमंतस्यापर्यंतस्याभ्यवदान्यो भूदिति स वै गौतम तीर्थेनेच्छासा इत्युपैत्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति स होपायनकीर्त्योहास । (d) स (आरुणिः) ह समित्पाणिः चित्रं गार्ग्यायणं प्रतिचक्रमे उपायानीति। तं होवाच ब्रह्मार्होऽसि गौतम यो मां उपागाः। एहि त्वा ज्ञापयिष्यामीति। कौ. I. I.
c4.s5.38
18 स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद् ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति। व्येव त्वा ज्ञापयिष्यामीति तं (गार्ग्य) पाणावादाय उत्तस्थौ। बृ. II. I. 15.
c4.s5.39
अथ ह वै गार्ग्यो बालाकिरनूचानः संस्पष्ट आस। सोऽयमुशीनरेषु संवसन्, मत्स्येषु, कुरुपंचालेषु, काशीविदेहेष्विति। स हाजातशत्रुं काश्यमेत्योवाच ब्रह्म ते ब्रवाणीति। तं होवाचाजातशत्रुः सहस्रं दद्मस्त एतस्यां वाचि। स होवाच बालाकिर्य एष आदित्ये पुरुषस्तेमेहामुपास इति। °चंद्रमसि °विद्युति °स्तनयित्नौ °वायौ °आकाशे °अग्नौ °अप्सु °आदर्शे °छायायां °प्रतिश्रुकायाँ °शब्दे °शरीरे °दक्षिणेऽक्षिणि °सव्येऽक्षिणि। तत उ ह बालाकिस्तूष्णीमास। तं होवाचाजातशत्रुरेतावन्नु बालाका ३ इति एतावदिति होवाच बालाकिः। तत उ ह बालाकिः समित्पाणिः प्रतिचक्रम उपायानीति तं होवाचाजातशत्रुः प्रतिलोमरूपमेव तन्मन्ये यत् क्षत्रियो ब्राह्मणमुपनयेत। एहि व्येव त्वा ज्ञापयिष्यामीति। कौ. IV. I-19.
c4.s5.40
19 (a) याज्ञवल्क्य, यो नो भगवन् अभयं वेदयसे, नमस्तेऽस्तु, इमे विदेहा, अयमहमस्मि। बृ. IV. 2. 4.
c4.s5.41
(b) बृहद्रथो वै नाम राजा विराज्य पुत्रं विधायपत्येदमाशश्वतं मन्यमानः शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम। स तत्र परमं तप आस्थायदित्यमुदीक्षमाण उर्ध्वबाहुस्तिष्ठति। अन्ते सहस्रस्य अन्तिकमाजगाम अग्निरिवाधूमकस्तेजसा निर्दहन्निवात्मविद् भगवान् शाकायन्यः। उत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति राजानमब्रवीत्। स तस्मै नमस्कृत्वोवाच। भगवन् नाहमात्मवित्। त्वं तत्त्ववित् शुश्रुमो वयम्। स त्वं नो ब्रूहीति। शिरसास्य चरणावभिमृशमानो राजेमां गाथां जगाद।... अन्धोदपानस्थो मेक इवाहमिमन्संसारे, भगवंस्त्वं नो गतिः त्वं नो गतिः। मै. I. I-7.
c4.s5.42
20 कस्मिन्नु खलु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति। मुं. I. I. 3.
c4.s5.43
21 अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः। देहाद्विमुच्यमानस्य
c4.s5.44
किमत्र परिशिष्यते ॥ एतद्वैतत् ॥...॥ य एष सुप्तेषु जागति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ एतद्वैतत् ॥
c4.s5.45
तान् हैतैः श्लोकैः पप्रच्छ । यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः । त्वच एवास्य रुधिरं प्रस्यंदि, त्वच उत्पटः । तस्मात्तदतृण्णात्प्रैति, रसो वृक्षादिवाहतात् ॥ मांसान्यस्य शकराराणि, किनाटं स्नाव तत्स्थिरम् । अस्थीन््यंतरतो दारूणि, मज्जा मज्जोपमा कृता ॥ यद वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ बृ. III. 9. 28.
c4.s5.46
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्रतराभ्युवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्प्राप्तं विदांचकारेति होवाच तस्या अग्निरैव मुखं यदि ह वा अपि बह्विवाग्न्यावभ्यादधति सर्वमेव तत्संदहत्येवं हैवंविविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्लाय शुद्धः पूतोऽजरोऽमृतः संभवति ।
Linked texts (9)
- Bṛhadāraṇyakopaniṣad — Sanskrit
- Chāndogyopaniṣad — Sanskrit
- Muṇḍakopaniṣad — Sanskrit
- Taittirīyopaniṣad — Sanskrit
- Śvetāśvataropaniṣad — Śvetāśvatara, Sanskrit
- Kauṣītakibrāhmaṇopaniṣad — Sanskrit
- Kenopaniṣad — Sanskrit
- Maitrāyaṇīyopaniṣad — Sanskrit
- Īśopaniṣad — Sanskrit