Pramāṇa · Search · About · API

A Constructive Survey of Upanishadic Philosophy c9.s6: Sources VII

A Constructive Survey of Upanishadic Philosophy c9.s6

Language
English

Sources VII

c9.s6.1

1 (a) द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च। तत्र अपरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते ॥ मुं. I. 1. 4-5.

c9.s6.2

(b) स होवाच ऋग्वेदं भगवोऽध्येमि यजुर्वेदं राशिं देवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवदृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवान् शोकस्य पारं तारयत्विति । छां. VII. I. 2-3.

c9.s6.3

2 (a) इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । के. II. 13.

c9.s6.4

(b) इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ क. II. 6. 4.

c9.s6.5

3 (a) पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ क. II. 4. 1.

c9.s6.6

(b) नवद्वारे पुरे देही हंसो लेलायते बहिः । 4 (a) नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्त- मानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ क. I. 2. 24.

c9.s6.7

(b) सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अंतःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ मुं. III. I. 5.

c9.s6.8

(c) नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । क. I. 2. 22.

c9.s6.9

(d) अंधं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ई. 9.

c9.s6.10

(e) नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्य- लिंगात् । मुं. III. 2. 4.

c9.s6.11

(f) परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्य- कृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ मुं. I. 2. 12.

c9.s6.12

5 (a) श्रुतं ह्येव मे भगवदृशेभ्यः आचार्याद्धयेव विद्या विदिता साधिष्ठं प्रापयतीति । छां. IV. 9. 3.

c9.s6.13

(b) न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । क. I. 2. 8-9.

c9.s6.14

(c) उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ क. I. 3. 14.

c9.s6.15

6 यथा सोम्य पुरुषं गंधारेभ्योऽभिनद्धाक्षमाननीय तं ततोऽ- तिजने विसृजेत्स यथा तत्र प्राङ्वाऽवाङ्वा प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ १ ॥ तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गंधारा एतां दिशं व्रजेति स ग्रामात् ग्रामं पृच्छन् पण्डितो मेधावी गंधा- रानेवोपसंपद्येत एवमेवेहाचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति ॥ २ ॥ 7 (a) क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि भद्र- यन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ मुं. III. 2. 10.

c9.s6.16

(b) इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणव्याय वान्तेवासिने । नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णा दद्यादेतदेव ततो भूय इत्येतदेष ततो भूय इति ॥ छां. III. II. 5-6.

c9.s6.17

(c) वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः प्रकाशन्ते महात्मनः ॥ श्वे. VI. 22-23.

c9.s6.18

8 (a) सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्यो- मित्येतत् ॥ एतद्धयेवाक्षरं ब्रह्म एतद्धयेवाक्षरं परं एतद्धये- वाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ क. I. 2. 15-17.

c9.s6.19

(b) तद्यथा शंकुना सर्वाणि पर्णानि संतृण्णानि एवमोंकारेण सर्वा वाक् संतृण्णा ॐकार एवेदं सर्वम् । छां. II. 23. 3.

c9.s6.20

9 धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संधयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४ ॥ मुं. II. 2. 3-4.

c9.s6.21

10 ॐ इति ह्येष स्वरश्रेति । छां. I. 5. 1, 3.

c9.s6.22

11 अथ हैनं शैव्यः सत्यकामः पप्रच्छ । स यो ह वैतद् भगव- न्मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति । तस्मै स होवाच " एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः । तस्माद्विद्वानेतेनैवायतने- नै कतरमन्वेति ।....यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नयते ब्रह्म- लोकं स एतस्माज्जीवघनात्परं पुरिशयं पुरुषमीक्षते ” ।

c9.s6.23

12 भूतं भवद्भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत्रिकालातीतं तदप्योङ्कार एव ॥ १ ॥ सर्वे ह्येतद्ब्रह्मायमात्मा ब्रह्म । सोऽयमात्मा चतुष्पात् ॥ २ ॥ जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥ स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ ४ ॥ यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५ ॥ एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥ नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७ ॥ सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकार मकार इति ॥ ८ ॥ .... ॥ अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद य एवं वेद ॥ १२ ॥ मां. I-12.

c9.s6.24

13 (a) स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेहं पश्येन्निगूढवत् ॥ श्वे. I. 14.
(b) अरणीर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥ क. II. 4. 8.

c9.s6.25

14 (a) ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ क. II. 5. 3.
(b) प्राणैर्विस्तं सर्वभूतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा । मुं. III. i. 9.

c9.s6.26

15 (a) त्रिदुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिबध्य । ब्रह्मोपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भया-

Linked texts (7)