A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s1: Extracts from Vrinda
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s1
- Language
- English
Extracts from Vrinda
v1.c25.s1.1
Abbreviations used: M. Ms. = Madras Manuscript. K. Ms. = Kásmír Manuscript. R. R. S. = Rasaratnasamuchchaya. Rr. by Nág. = Rasaratnákara by Nágárjuna.
v1.c25.s1.2
वृन्दलिखितसिद्धयोगादुद्धृतानि वचनानि —
v1.c25.s1.3
रसेन्द्रेण समायुक्तो रसो धत्तूरपत्रजः ।
ताम्बूलपत्रजो वाथ लेपनं यौकनाशनम् ॥ VI, 13.
त्रिफलाव्योषसिन्धूत्थयष्टीतुत्थरसाञ्जनम् ।
प्रपौण्डरीकं जन्तुघ्नं लोध्रं ताम्रं चतुर्दश ॥
द्रव्याण्येतानि संचूर्ण्य वर्त्तिः कार्या नभोऽम्बुना ।
नागार्जुनेन लिखिता स्तम्भे पाटलिपुत्रके ॥
LX, 148-149.
सर्वेषां लोहजातानां कान्तं भवति कान्तिदम् ।
पाचयेल्लोहमादौ सप्तदिने ततः ॥
v1.c25.s1.4
धात्रीपिण्डारकोद्भूतस्वरसेनार्क रश्मिषु । स्थापयेत् * * * ॥ काकमाचीरसे पश्चात् * * । पुनर्मज्जन्ति सर्वत्र खलितव्यं प्रयत्नतः ॥ पश्चाच्चूर्णं विधातव्यमप्रमत्तेन धीमता । इति सूर्य्यमुखेनैव मारणं परिकीर्त्तितम् ॥
v1.c25.s1.5
* * * * लोहमारणम् ।
v1.c25.s1.6
रसगन्धकताम्राणां चूर्णं कृत्वा समाक्षिकम् । पुटपाकविधौ पक्त्वा मधुनालोड्य संलिहेत् ॥ सर्व्वरोगहरञ्चैतत्पर्पटाख्यं रसायनम् ॥
v1.c25.s1.7
पर्पटीताम्रं, रसायनाधिकारः ।
v1.c25.s1.8
कर्षद्वयं गन्धकस्य तदद्धं पारदस्य च । विडालपदमात्रन्तु लिह्यात्तन्मधुसर्पिषा ॥¹
v1.c25.s1.9
रसामृतचूर्णम्, अम्लपित्ताधिकारः ।
v1.c25.s1.10
(1) The edition of *Rasendra-sarasangraha* published by the Anandá-srama Press, Poona, does not contain the last three slokas, which, however, occur in the K. Ms. of the same.
Linked texts (2)
- Siddhayoga (Vṛndamādhava) — Vṛnda, Sanskrit
- Rasendrasārasaṃgraha (Gopāla Kṛṣṇā) — Gopāla Kṛṣṇā 1800, Sanskrit