A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s10: अथ अष्टमोऽध्यायः । अथ परिभाषा ।
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s10
- Language
- English
अथ अष्टमोऽध्यायः । अथ परिभाषा ।
v1.c25.s10.1
अथ परिभाषा ।
v1.c25.s10.2
कथ्यते सोमदेवेन मुग्धवैद्यप्रबुद्धये । परिभाषा रसेन्द्रस्य शास्त्रैः सिद्धैश्च भाषिता ॥ 1.
v1.c25.s10.3
अष्टमं सिद्धरसस्य तैलघृतयोलौहस्य भागोऽष्टमः । संसिद्धाखिललोहचूर्णवटकादीनां तथा सप्तमः । यो दीयेत भिषग्वराय गदिभिर्निर्दिष्ट्य धन्वन्तरिं सर्वारोग्यसुखाप्तये निगदितो भागः स धन्वन्तरेः ॥ 2.
v1.c25.s10.4
धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः । सुश्लक्ष्णः कज्जलाभोऽसौ कज्जलीत्यभिधीयते ॥
v1.c25.s10.5
सद्रवा मर्दिता सैव रसपङ्क इति स्मृतः ॥ 5-6.
v1.c25.s10.6
मृतं तरति यत्तोये लोहं वारितरं हि तत् । अङ्गुष्ठतर्जनीस्पृष्टं यत्तद्रेखान्तरं¹ विशेत् । मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ॥
v1.c25.s10.7
¹ रेखान्तरं, a variant in the Poona ed. which we have adopted.
v1.c25.s10.8
गुडगुञ्जासुखस्पर्शमध्वाज्यैः¹ सह योजितम् । नायाति प्रकृतिं ध्मानादपुनर्भवमुच्यते ॥ तस्योपरि गुरु द्रव्यं धान्यं चोप नयेद्ध्रुवम् । हंसवत् तीर्य्यते वारिह्युत्तमं परिकीर्त्तितम् ॥ 25-28.
v1.c25.s10.9
रौप्येण सह संयुक्तं ध्मातं रौप्ये² न चेल्लगेत् । तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ॥ 29.
v1.c25.s10.10
तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् । मृदरूक्षां द्रुतद्रावं वरनागं³ तदुच्यते ॥ 38.
v1.c25.s10.11
(1) Cf. घृतमधुघृताटङ्कैः समं लौहभस्म मदयेच्च विचक्षणः । धमेद्वह्नौ यदा पुनर्लोहभावं न गच्छेत् तदा योज्यं रसायने ॥ लोहभावं यदा गच्छेत् तं पुनर्मारयेत् सुधीः । रसचन्द्रिका जारणमारणाध्यायः ।
v1.c25.s10.12
(2) We have adopted the reading in B. and K. The Poona ed., however, reads रौप्येण चेल्लगेत्, which, from the chemical point of view, is untenable.
v1.c25.s10.13
(3) वरनागं, a variant in the Poona ed., which also agrees with B.
v1.c25.s10.14
मृतस्य पुनरुद्भूतिः सम्प्रोक्तोत्थापनाख्यया । 39. इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मतिः । इयतीत्युच्यते यासौ ग्रासमानमितीरितम् ॥ 64. चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते । एवङ्कृते रसो ग्रासलोलुपो मखवान् भवेत् ॥ कठिनान्द्यपि लोहानि क्षमो भवति भक्षितुम् ।68-69. लेपः लेपश्च कुन्तश्च धूमाख्यः शब्दसंज्ञकः । लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा ॥ 80. वङ्गौ धूमायमानेऽन्तः प्रक्षिप्तरसधूमतः । स्वर्णाद्यापादनं लोहे धूमवेधः स ईरितः ॥ 83. मुखस्थितरसेनाल्पलोहस्य दमनात् खलु । स्वर्णरूप्यजननं शब्दवेधः स कीर्त्तितः ॥ 84. रसनिंगममहाब्धेः सोमदेवः समन्तात् स्फुटतरपरिभाषामरत्नानि हृत्वा । व्यरचयदतियत्नात् तैरियां कण्ठमालां कलयतु ¹ भिषगग्रो मण्डनार्थं सभायाम् ॥ 89.
v1.c25.s10.15
(1) कलयतु, another reading in the Poona ed., which we have adopted.
Linked texts (2)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit
- Rasacandrikā — Viśveśvarabhaṭṭa 1700, Sanskrit