Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s11: अथ नवमोऽध्यायः । अथ यन्त्राणि ।

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s11

Language
English

अथ नवमोऽध्यायः । अथ यन्त्राणि ।

v1.c25.s11.1

अथ यन्त्राणि ।

v1.c25.s11.2

अथ यन्त्राणि वक्ष्यन्ते रसतन्त्राख्यशेषतः । समालोक्य समासेन सोमदेवेन साम्प्रतम् ॥ 1.

v1.c25.s11.3

अथ दोलायन्त्रम्—

v1.c25.s11.4

द्रवद्रव्येण भाण्डस्य पूरितार्द्धोदरस्य च ।
मुखमुभयतो द्वारद्वयं कृत्वा प्रयत्नतः ॥ 3.
तयोस्तु निक्षिपेद्दण्डं तन्मध्ये रसपोटलीम् ।
बद्धा तु स्वेदयेदेतद्दोलायन्त्रमिति स्मृतम् ॥ 4.

v1.c25.s11.5

अथ स्वेदनीयन्त्रम्—

v1.c25.s11.6

साम्बुस्थालीमुखाबद्धे वस्त्रे पाकं निवेशयेत् ।
पिधाय पच्यते यत्र स्वेदनीयन्त्रमुच्यते ॥ 5.

v1.c25.s11.7

अथ पातनायन्त्रम्—

v1.c25.s11.8

अष्टाङ्‌गुलपरिणाहमानाहेन दशाङ्‌गुलम् ।
चतुरङ्‌गुलकोत्सेधं तोयाधारं गलादधः ॥
अधोभाण्डे मुखं तस्य भाण्डस्योपरिवर्त्तनः ।
षोडशाङ्‌गुलविस्तीर्णपृष्ठस्यास्य प्रवेशयेत् ॥

v1.c25.s11.9

पार्श्वयोर्महिषीक्षीरचूर्णमण्डूरफाणितैः । लिप्त्वा विशोषयेत् सन्धिं जलाधारे जलं क्षिपेत् । चुल्ल्यामारोपयेदेतत् पातनायन्त्रमीरितम् ॥ 6-8.

v1.c25.s11.10

अथाधःपातनायन्त्रम्—

v1.c25.s11.11

अथोर्ध्वभाजने¹ लिप्तं स्थापितस्य जले सुधीः । दीप्तैर्व्वनोपलैः कुर्यादधःपातं प्रयत्नतः ॥ 9.

v1.c25.s11.12

अथ दीपिकायन्त्रम्—

v1.c25.s11.13

कच्छपयन्त्रान्तर्गतमृन्मयपीठस्थदीपिकासंस्थः । यस्मिन्निपतति सूतः प्रोक्तं तद्दीपिकायन्त्रम् ॥ 10.

v1.c25.s11.14

अथ ढेकीयन्त्रम्—

v1.c25.s11.15

भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् । कांस्यपात्रद्वयं कृत्वा सम्पुटं जलगर्भितम् ॥ नलिकास्यं तत्र योज्यं दृढं तच्चापि कारयेत् । युक्तद्रव्यैर्विनिक्षिप्तः पूर्वं तत्र घटे रसः । अग्निना तापितो नालात्तोये तस्मिन् पतत्यधः ॥ यावदुष्णं भवेत्सर्वं भाजनं तावदेव हि । जायते रससन्धानं ढेकीयन्त्रमितीरितम् ॥ 11-14.

v1.c25.s11.16

(1) K. reads अथ, which we have retained.

v1.c25.s11.17

अथ बालुकायन्त्रम्—

v1.c25.s11.18

सरसां गूढवक्त्रां मृद्वस्त्राङ्गुलघनावृताम् ।
शोषितां काचकल्सीं पूरयेत् त्रिषु भागयोः ॥
भाण्डे वितस्तिगम्भीरे बालुका सुप्रतिष्ठिता ।
तद्भाण्डं पूरयेत् त्रिभिरन्याभिरवगुण्ठयेत् ॥
भाण्डवक्त्रं माणिकया सन्धिं लिम्पेन्मृदा पचेत् ।
चुल्ल्यां तृणस्य चादाहान्माणिकापृष्ठवर्त्तनः ॥
एतद्धि बालुकायन्त्रं तद्यन्त्रं लवणाश्रयम् ॥34-36.

v1.c25.s11.19

अथ लवणयन्त्रम्—

v1.c25.s11.20

एवं लवणनिक्षेपात् प्रोक्तं लवणयन्त्रकम् । 38.

v1.c25.s11.21

अथ नालिकायन्त्रम्—

v1.c25.s11.22

लोहनालगतं सूतं भाण्डे लवणपूरिते ।
निरुद्धं विपचेत् प्राग्वन्नालिकायन्त्रमीरितम् ॥ 41.

v1.c25.s11.23

अथ तिर्यक्पातनयन्त्रम्—

v1.c25.s11.24

क्षिपेद्रसं घटे दीर्घनताधोनालसंयुते ।¹
तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ॥

v1.c25.s11.25

(1) दीर्घनताधो, a variant in the Poona ed., which also agrees with B. and K.

v1.c25.s11.26

तत्र रुद्धा मृदा सम्यग्वदने घटयोरधः । अधस्ताद्रसकुम्भस्य ज्वालयेत् तीव्रपावकम् ॥ इतरस्मिन् घटे तोयं प्रक्षिपेत स्वादुशीतलम् । तिर्यक्पातनमेतद्धि वार्त्तिकैरभिधीयते ॥ 48-50.

v1.c25.s11.27

अथ हिङ्गूलाकृष्टिविद्याधरयन्त्रम्— स्थालिकोपार विन्यस्य स्थालीं सम्यनिरुध्य च । ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः ॥ एतद्विद्याधरं यन्त्रं हिङ्गूलाकृष्टहेतवे ॥ 57-58.

v1.c25.s11.28

अथ धूपयन्त्रम्— विधाय्राष्टाङ्गुलं पात्रं लौहमष्टाङ्गुलुच्छ्रयम् । कण्ठाधो द्व्यङ्गुल देशे गलाधारे हि तत्र च ॥ तिर्यग्लोहशलाकाश्च तन्वीस्तिर्यग्विनिक्षिपेत् । तनूनि स्वर्णपत्राणि तासामुपरि विन्यसेत् ॥ पात्राधो निक्षिपेद्धूमं वक्ष्यमाणमिहैव हि । तत् पात्रं न्युब्जपात्रेण छादयेदपरेण हि ॥ मृदा विलिप्य सन्धिं च वह्निं प्रज्वालयेदधः । तेन पत्राणि कृत्स्नानि¹ हतान्युक्तविधानतः ॥

v1.c25.s11.29

¹ कृत्स्नानि, another reading in the Poona ed., which we have accepted.

v1.c25.s11.30

गन्धालकशिलानां हि कज्जल्य वा मृताहिना ॥ धूपनं स्वर्णपत्राणां प्रथमं परिकीर्त्तितम् । ताराथं तारपत्राणि मृतवङ्गेन धूपयेत् ॥ धूपयेच्च यथायोग्यैरन्यैरुपरसैरपि । धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यसाधनम् ॥ 70-76.

Cites (1)