A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s12: अथ दशमोऽध्यायः । अथ मूषादिकथनम् ।
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s12
- Language
- English
अथ दशमोऽध्यायः । अथ मूषादिकथनम् ।
v1.c25.s12.1
अथ मूषादिकथनम् ।
v1.c25.s12.2
मृत्तिका पाण्डुरस्थूला शर्करा शोणपाण्डुरा । चिराग्निानसहा सा हि मूषार्थमतिशस्यते ॥ तदभावे हि वाल्मीकी कौलाली वा समीर्यते ॥ या मृत्तिका दग्धतुषैः शणै शिखिन्त्रकैर्वा हयलहिना च । लोहेन दण्डेन च कुट्टिता सा साधारणी स्यात् खलु मूषिकार्थम्¹ ॥ 5-6.
v1.c25.s12.3
¹ स्यात् and मूषिकार्थं are two different readings in the Poona ed., which we have adopted.
v1.c25.s12.4
अथ पुटानि—
v1.c25.s12.5
लोहाटेरपुनर्भावो गुणाधिक्यं ततोऽयता ।
अनप्नु मज्जनं रेखापूर्णता पुटतो भवेत् ॥ 51.
निम्ने विस्तरतः कुण्डे द्वहस्ते चतुरस्रके ।
वनोपलसहस्रेण पूरिते पुटनौषधम् ॥
कोष्ठां¹ रुद्धं प्रयत्लेन पिष्टिकुपरि निक्षिपेत् ।
वनोपलसहस्राङ्गं कोष्ठिकोपरि विन्यमेत् ॥
वह्निं प्रज्वालयेत् तत्र महापुटमिदं स्मृतम् ॥ 54-56.
सुवर्णं रजतं ताम्रं त्रपु सीसकमायसम् ।
षडेतानि च लोहानि कृत्रिमे कांस्यपित्तले ॥ 70.
लवणानि षडप्यन्ते सामुद्रं सैन्धवं विडम् ।
सौवर्चलं रोमकं च चूलिकावणं तथा ॥
क्षारत्रयं समाख्यातं यवसर्जिकटङ्कणम् ॥ 71.
v1.c25.s12.6
¹ कोष्ठां, a variant in the Poona ed.. which we have adopted.
v1.c25.s12.7
जम्बूकमाण्डकवसा वसा कच्छपसम्भवा ।
v1.c25.s12.8
कर्कटो शिशुमारो च गोशूकरनरोद्भवा । अजोष्ट्रखरमेषाणां महिषस्य वसा तथा ॥ 76 7-7. मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् । गोऽजावीनां स्त्रियः पुंसां पुष्पं बीजं तु योजयेत् ॥ 78.
v1.c25.s12.9
चाङ्गेरीचणकाम्रं च अम्लिकं कोलदाडिमम् । अम्बष्ठा तिन्तिडीकं च नारङ्गं रसपत्रिका । करवन्दं तथा चान्यदम्लवर्गः प्रकीर्त्तितः ॥ चणकाम्रश्च सर्वेषामेक एव प्रशस्यते ॥ अम्लवेतसमेकं वा सर्वेषामुक्तमोत्तमम् । रसादीनां विशुद्धयर्थं द्रावणे जारणे हितम् ॥ कोलदाडिमवृक्षाम्लचुल्लिकाचुक्रिकारसम् । पञ्चाम्लकं समुद्दिष्टं तच्चोक्तं चाम्लपञ्चकम् ॥ 80-84.
v1.c25.s12.10
इष्टिका गैदिका लोणं भस्म वल्मीकमृत्तिका । रसप्रयोगकुशलैः कीर्त्तिताः पञ्च मृत्तिकाः ॥ 85. शृङ्गीकं कालकूटं च वत्सनाभं सकृत्रिमम् । पित्तं च विषवर्गोऽयं स वरः परिकीर्त्तितः ॥ 86.
v1.c25.s12.11
लाङ्गली विषमुष्टिञ्च करवीरजटा तथा । नलिकाः कनकोऽर्कश्च वर्गो ह्युपविषात्मकः ॥ 88. गुड़गुग्गुलुगुञ्जाज्यसारघैस्तैर्युतैरपि । दुद्रावाखिललोहादेर्द्रावणाय गणो मतः ॥ 100.
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit