Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s13: अथैकादशोऽध्यायः । अथ रसशोधनादिकथनम् ।

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s13

Language
English

अथैकादशोऽध्यायः । अथ रसशोधनादिकथनम् ।

v1.c25.s13.1

अथ रसशोधनादिकथनम् ।

v1.c25.s13.2

रसार्णवादिशास्त्राणि निगद्य कथितं मया । रसोपयोगि यत्किञ्चिद्विज्ञातं तत्रदर्शितम् । अधुना रसराजस्य संस्कारान् सम्प्रचक्ष्महे ॥ 10. विषं वह्निर्मलञ्चेति दोषा नैसर्गिकस्त्रयः । यौगिकौ नागवङ्गौ द्वौ * * * * ॥ 14-15. तस्मात् सूतविधानार्थं सहायैर्निपुणैर्युतः । सर्वोपस्कारमादाय रस्कर्म समाचरेत् ॥ 20. द्वे सहस्रे पलानांक तु सहस्रं शतमेव वा ।

v1.c25.s13.3

अष्टाविंशत् पलान्येव दश पञ्चकमेव वा ॥ पलाद्वैनेव कर्त्तव्यः संस्कारः सूतकस्य च । सुदिने शुभनक्षत्रे रसशोधनमाचरेत् ॥ 2122.

v1.c25.s13.4

रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च । तुल्यांशगन्धैः पुटितः क्रमेण निर्वीजनामा सकलामयघ्नः ॥ 72.

v1.c25.s13.5

पिष्टीकृतैरभ्रकसत्त्वहेम- ताराककान्तैः परिजारितो यः । हतस्वतः षड्गुणगन्धकेन स बीजबद्धो विपुलप्रभावः ॥ 73.

v1.c25.s13.6

काकोदुम्बरिकाया दुग्धेन सुभावितो हिङ्गुः । मर्दनपुटेन विधिना सूतं भस्मीकरोत्येव ॥ 111.

v1.c25.s13.7

देवदालीं हरिक्रान्तामारनालेन पेषयेत् । तद्द्रवैः सप्तधा सूतं कुर्यान्मर्दितमूर्च्छितम् ॥ तत्सूतं खर्परे दद्यात्कृत्वा दत्त्वा तु तद्द्रवम् । चुल्ल्युपरि पचेच्चाङ्गा भस्म स्याल्लवणोपमम् ॥

v1.c25.s13.8

अपामार्गस्य बीजानि तथैरण्डस्य चूर्णयेत् । तच्चूर्णं पारदे देयं मूषायामधरोत्तरम् ॥ रुद्ध्वा लघुपुटैः पश्चाच्चतुर्भिर्भस्मतां नयेत् ।

Linked texts (1)