A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s3: अथ प्रथमोऽध्यायः । रसोत्पत्तिः ।
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s3
- Language
- English
अथ प्रथमोऽध्यायः । रसोत्पत्तिः ।
v1.c25.s3.1
रसोत्पत्तिः ।
v1.c25.s3.2
यस्मानन्दभवेन मङ्गलकलासम्भावितेन स्फुर-
द्धाम्ना सिद्रसामृतेन करुणावीक्षासुधासिन्धुना ।
भक्तानां प्रभवप्रसंहतिजरारागादिरोगाः क्षणा-
च्छान्तिं यान्ति जगत्प्रधानभिषजे तस्मै परस्मै नमः ॥ 1.
v1.c25.s3.3
आगम¹श्चन्द्रसेनश्च लङ्केशश्च विशारदः ।
कपाली मत्तमाण्डव्यौ भास्करः शूरसेनकः ॥
v1.c25.s3.4
(1) आगमः, a variant in the Poona ed., which also agrees with B. and K.
v1.c25.s3.5
रत्नकोषश्च¹ शम्भुश्च सात्त्विको नरवाहनः । इन्द्रदो गोमुखश्चैव कम्बलिर्व्याडिरेव च ॥ नागार्जुनः सुरानन्दो नागबोधिश्र्वशोधनः । खण्डः कापालिको ब्रह्मा गोविन्दो लम्पको हरिः ॥ सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः । रसाङ्कुशो भैरवश्च नन्दी स्वच्छन्दभैरवः । मत्यानभैरवश्चैव काकचण्डीश्वरस्तथा । वासुदेव ऋष्यशृङ्गः² क्रियातन्त्रसमुच्चयो ॥ रसेन्द्रतिलकं योगी भालुकी मैथिलाह्वयः । महादेवो नरेन्द्रश्च वासुदेवो हरीश्वरः³ ॥ 2-7. एतेषां क्रियतेऽन्येषं तन्त्राख्यालोक्य सङ्ग्रहः । रसानामथ सिद्धानां चिकित्सार्थोपयोगिनाम् ॥
v1.c25.s3.6
(1) रत्नघोषश्च, another reading in the Poona ed., which also agrees with B. and K.
v1.c25.s3.7
(2) ऋष्यशृङ्गः, a different reading in the Poona ed., which also agrees with B. and K.
v1.c25.s3.8
(3) K. reads रत्नाकरहरौश्वरौ, which is probably the correct reading.
v1.c25.s3.9
सूनुना सिंहगुप्तस्य रसरत्नसमुच्चयः । रसोपरसलोहानि यन्त्रादिकरणानि च ॥ शुद्धयर्थमपि लोहानां तन्त्रादिकरणानि च । शुद्धिः सत्त्वं द्रुतिर्भस्मकरणञ्च प्रवक्ष्यते ॥ 8-10.
v1.c25.s3.10
हन्ति भस्मनादेण पूर्वजन्माघसम्भवम् । रोगसङ्गमशेषाणां नराणां नात्र संशयः ॥ 26.
v1.c25.s3.11
यश्च निन्दति सूतेन्द्रं शम्भोस्तेजः परात्परम् । स पतेन्नरके घोरे यावत्कल्पविकल्पनाम् ॥ 29.
v1.c25.s3.12
पतितो दरदे देशे गौरवाङ्किव्रतः । स रसो भूतले लीनस्तत्तद्देशनिवासिनः । तां मृदं पातनायन्त्रे क्षित्वा सूतं हरन्ति च ॥ 89-90.
v1.c25.s3.13
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटाचार्यस्य कृतौ रसरत्नसमुच्चये रसोत्पत्तिर्नाम प्रथमोऽध्यायः ।
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit