A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s5: अथ तृतीयोऽध्यायः । अथोपरसाः साधारणरसाश्च ।
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s5
- Language
- English
अथ तृतीयोऽध्यायः । अथोपरसाः साधारणरसाश्च ।
v1.c25.s5.1
अथोपरसाः साधारणरसाश्च ।
v1.c25.s5.2
अथ गन्धकः—
v1.c25.s5.3
गन्धाश्मगैरिकासीसकाक्षीतालशिलाञ्जनम् ।
कङ्कुष्ठञ्चेत्युपरसाश्चाष्टौ पारदकर्मणि ॥ 1.
v1.c25.s5.4
(1) तन्मुखेऽधोमुखं, a variant in the Poona ed., which we have adopted.
v1.c25.s5.5
स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः । मध्यमः पीतवर्णः स्याच्छुक्लवर्णोऽधमः प्रिये ॥ 12. चतुर्द्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।
v1.c25.s5.6
दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः ॥ 13-15. गन्धको द्रावितो भृङ्गसेचितो विशुध्यति ॥ 23. स्थायां दुग्धं विनिचिप्य मुखे वस्त्रं निरुध्य च । गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृति । क्वाथयेन्मृदुदीर्घेण खर्परेणैव गन्धकम् ॥ ज्वालयेत्खर्परस्योर्द्धं वनच्छाणैस्तयोपलैः । दुग्धे निपतितो गन्धो गलितः परिशुध्यति ॥ 24-25.
v1.c25.s5.7
अथ गैरिकम्—
v1.c25.s5.8
पाषाणगैरिकञ्चैकं द्वितीयं स्वर्णगैरिकम् । पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ॥ 46. गैरिकन्तु गवां दुग्धैर्भावितं शुद्धिमुच्छति ॥ 49.
v1.c25.s5.9
अथ कासीसम्—
v1.c25.s5.10
कासीसं बालुकाद्येकं पुष्पपूर्वमथापरम् । तुवरीसत्त्ववत्त्वमेतस्यापि समाहरेत् ॥ 54.
v1.c25.s5.11
अथ तुवरी— सौराष्ट्रभ्मनि सम्भूता¹ मृत्स्ना सा तुवरी मता । वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी ॥
* * * फुल्लिका चेति द्वितीया परिकीर्त्तिता । ईषत्पीता गुरुस्निग्धा * * * * निर्भारा शुभ्रवर्णा च स्निग्धा साम्लापरा मता । सा फुल्लतुवरी प्रोक्ता लेपात् ताम्रं चरेदयः ॥ 59-62 काङ्क्षी कषाया कटुकाम्लकाष्ठा केश्या व्रणघ्नी विषनाशिनी च । श्वित्रापहा नेत्रहिता त्रिदोष- शान्तिप्रदा पारदजारणी च ॥ 63. तुवरी काञ्जिकैर्विम्रा विदिनाच्छुडिमुच्छति । क्षाराम्लमर्दितारभाता सत्त्वं मुञ्चति निश्चितम् ॥ 64. गोपित्तेन शतं वारान् सौराष्ट्रीं भावयेत् ततः । धमित्वा पातयेत् सत्त्वं कामगं चातिगुह्यकम् ॥ 65.
v1.c25.s5.12
(1) सौराष्ट्रभ्मनि, a variant in the Poona ed., which also agrees with B. and K.
v1.c25.s5.13
अथ तालकम्—
v1.c25.s5.14
हरितालं द्विधा प्रोक्तं पत्राख्यं¹ पिण्डसंज्ञकम् ।
स्वर्णवर्णं गुरु स्निग्धं तनुपत्रं च भासुरम् ॥ 66.
स्विन्नं कुष्माण्डतोये वा तिलक्षारजलेऽपि वा ।
तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति ॥ 69.
मधुतुख्ये घनीभूते कषाये ब्रह्ममूलजे ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥
उपलैर्दशभिर्दयं पुटं रुद्धाय पेषयेत् ।
एवं द्वादशधा पाचं शुद्धं योगेषु योजयेत् ॥74-75.
पलालं रवेदुग्धैर्दिनमेकं विमर्दयेत् ।
क्षिप्त्वा षोडशिकातैलै मिश्रयित्वा ततः पचेत् ॥
अनावृतप्रदेशे च सप्तयामावधि ध्रुवम् ।
स्वाङ्गशीतमधःस्थं च सत्त्वं श्वेतं समाहरेत् ॥80-81.
v1.c25.s5.15
¹ The Poona ed. reads पत्राख्यं and K. reads पत्राख्यं, which we have adopted.
v1.c25.s5.16
अथ मनःशिला—
v1.c25.s5.17
अष्टमांशेन किष्टेन गुडगुग्गुलुसर्पिषा ।
कोष्ठां रुद्ध्वा दृढं ध्वात्वा सत्त्वं मुञ्चेन्मनःशिला ॥95.
v1.c25.s5.18
अथाञ्जनानि—
v1.c25.s5.19
सौवीरमञ्जनं प्रोक्तं रसाञ्जनमतः परम् । स्रोतोऽञ्जनं तदन्यच्च पुष्पाञ्जनमेव च ॥ नीलाञ्जनं च तेषां हि स्वरूपमिह वर्ण्यते । सौवीरमञ्जनं धूम्रं रक्तपित्तहरं हिमम् ॥ 98-99.
v1.c25.s5.20
अञ्जनानि विशुध्यन्ति भृङ्गराजनिजद्रवैः । मनोल्लासत्त्ववत् सत्त्वमञ्जनानां समाहरेत् ॥ वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति । घृष्टं तु गैरिकच्छायं स्रोतोऽजं लक्षयेद्बुधः ॥
v1.c25.s5.21
गोशकृद्रससूतेषु घृतक्षौद्रवसासु च । भावितं बहुशस्तच्च शीघ्रं बध्नाति सूतकम् ॥ 105-107
v1.c25.s5.22
अथ कङ्कुष्ठम्—
v1.c25.s5.23
हिमवत्पादशिखरे कङ्कुष्ठमुपजायते । 109. केचिद्वदन्ति कङ्कुष्ठं सद्योजातस्य दन्तिनः । 111. वदन्ति श्वेतपीताभं तदतीवविरेचनम् । 112.
v1.c25.s5.24
अथ साधारणारसाः—
v1.c25.s5.25
कम्पिल्लश्च परो गौरपाषाणो नवसारकः । कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुली ॥
v1.c25.s5.26
मृदारश्रृङ्गमित्यष्टौ साधारणरसाः स्मृताः । रससिद्धिकराः प्रोक्ता नागार्जुनपुरःसरैः ॥ 120 121.
v1.c25.s5.27
अथ कम्पिल्लः— इष्टिकाचूर्णसदृशश्चन्द्रिकाख्योऽतिरेचनः । सौराष्ट्रदेशे चोत्पन्नः स हि कम्पिल्लकः स्मृतः ॥ 122
v1.c25.s5.28
अथ गौरीपाषाणः— स्फटिकाभश्च शङ्खाभो हरिद्राभस्त्रयः स्मृताः । तालवदाहयेत् सत्त्वं शुद्धं शुभ्रं प्रयोजयेत् ॥ 124-126.
v1.c25.s5.29
अथ नवसारः— करोरपोलुकाष्ठेषु पच्यमानेषु चोद्भवः । क्षारोऽसौ नवसारः स्याच्चूलिकाल्वणाभिधः ॥ इष्टिकादहने जातं पाण्डुरं लवणं लघु । तदुक्तं नवसाराख्यं चूलिकाल्वणं च तत् । रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ॥ गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ॥ 127-129.
v1.c25.s5.30
अथ वराटिकाः— पीताभा ग्रन्थिका पृष्ठे दीर्घवृत्ता वराटिका । रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका ॥ 130.
v1.c25.s5.31
वराटाः काञ्जिके स्विन्ना यामाच्छुद्दिमवाप्नुयुः ॥ 134.
v1.c25.s5.32
अथाग्निजारः—
v1.c25.s5.33
समुद्रेऽग्निन्नकस्य जरायुर्वहिरुज्झितः । संशुष्कां भानुतापेन सोऽग्निजार इति स्मृतः ॥ 135.
v1.c25.s5.34
अथ गिरिसिन्दूरम्—
v1.c25.s5.35
महागिरिषु चाल्पायःपाषाणान्तःस्थितो रसः । 137.
v1.c25.s5.36
अथ हिङ्गुलः—
v1.c25.s5.37
एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः ॥ 141. दरदः पातनायन्त्रे पातितश्च जलाशये । तत्त्वं सूतसङ्काशं पातयेन्नात्र संशयः ॥ 144.
v1.c25.s5.38
अथ मृहारशृङ्गकम्—
v1.c25.s5.39
मदलं पीतवर्णं च भवेद्गुर्जरमण्डले । अर्बुदस्य गिरेः पार्श्वे जातं मृहारशृङ्गकम् ॥ सीमसत्त्वं गुरु श्लेष्मशमनं पुंगदापहम् । रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम् ॥ साधारणरसाः सर्वे मातुलुङ्गाद्र्काम्बुना । त्रिरात्रं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥
v1.c25.s5.40
अथ राजावर्त्तः—
v1.c25.s5.41
राजावर्त्तोऽल्परक्तोरुनीलिममिश्रितप्रभः।¹ । 149. लुङ्गाम्बुगन्धकोपेतो राजावर्त्तो विचूर्णितः । पुटनासप्तवारेण राजावर्त्तो मृतो भवेत् ॥ 153.