A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s8: अथ षष्ठोऽध्यायः । अथ शिष्योपनयनम् ।
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s8
- Language
- English
अथ षष्ठोऽध्यायः । अथ शिष्योपनयनम् ।
v1.c25.s8.1
अथ शिष्योपनयनम् ।
v1.c25.s8.2
आचार्यो ज्ञानवान् दक्षो रसशास्त्रविशारदः ।
मन्त्रसिद्धो महाधीरो निश्चलः शिववत्सलः ॥
देवीभक्तः सदाधीरो देवतायागतत्परः ।
सर्वाम्नायविशेषज्ञः कुशलो रस्कर्मणि ॥
v1.c25.s8.3
एवं लक्षणसंयुक्तो रसविद्यागुरुर्भवेत् । गुरुभक्ताः सदाचाराः सत्यवन्तो दृढव्रताः ॥ निरालस्याः स्वधर्मज्ञाः सदाज्ञापरिपालकाः । दम्भमात्सर्यनिर्मुक्ताः कुलाचारेषु दीक्षिताः ॥ अत्यन्तसाधकाः शान्ता मन्त्राराधनतत्पराः । इत्येवं लक्षणैर्युक्ताः शिष्याः स्युः कार्यसिद्धये ॥3-7.
v1.c25.s8.4
आतङ्करहिते देशे धर्मराज्ये मनोरमे । उमामहेश्वरौपेते समृद्धे नगरे शुभे ॥ कर्त्तव्यं साधनं तत्र रसराजस्य धीमता । अत्यन्तोपवने रम्ये चतुर्द्वारोपशोभिते ॥ तत्र शाला प्रकर्त्तव्या सुविस्तीर्णा मनोरमा । सम्यग्वातायनोपेता दिव्यचित्रैर्विचित्रिता ॥ 13-15.
v1.c25.s8.5
निष्क्वयं हेमपत्रं रसेन्द्रं नवनिष्ककम् । अम्लेन मर्दयेद्यामं तेन लिङ्गं तु कारयेत् ॥ तल्लिङ्गं पूजयेत् तत्र सुशुभैरुपचारकैः ॥ लिङ्गकोटिसहस्रस्य यत् फलं सम्यगर्चनात । तत् फलं कोटिगुणितं रसलिलिङ्गार्चनाद्भवेत् ॥
v1.c25.s8.6
ब्रह्महत्यासहस्राणि स्त्रीगोहत्यायुतानि¹ च । तत्तत्क्षणाद्विलयं यान्ति रसलिङ्गस्य दर्शनात् ॥ 19-22.
v1.c25.s8.7
रसविद्या² शिवेनोक्ता दातव्या साधकाय वै । यथोक्तेन विधानेन गुरुणा मुदितात्मना ॥ 30.
v1.c25.s8.8
कोष्ठी मूषा वङ्गनाली तुषाङ्गारवनोपलाः ॥ भस्त्रिका दण्डिकानेकाः शिलाखण्डान्युलूखलम् ।
v1.c25.s8.9
अनेन मूलमन्त्रेण भैरवं तत्र पूजयेत् । सर्वेषां रससिद्धानां नाम सङ्कीर्तयेत्तदा ॥
v1.c25.s8.10
सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः । वन्द्याः पूज्याः प्रयत्नेन ततः कुर्याद्रसर्चनम् ॥ 52-61.
v1.c25.s8.11
(1) स्त्रीगोहत्यायुतानि च, a variant in the Poona ed., which we have adopted.
(2) B. and K. read रसविद्या ।
v1.c25.s8.12
हर्षयेद्दिजदेवानां तर्पयेदिष्टदेवताः । कुमारीयोगिनीयोगोश्वरान् म्लेच्छकसाधकान्¹ ॥ 62.
v1.c25.s8.13
¹ म्लेच्छकसाधकान्, a variant in the Poona ed., which also agrees with B.
v1.c25.s8.14
रसविद्या दृढं गोप्या मातृगुह्यमिव ध्रुवम् । भवेद्वीर्य्यवती गुप्ता निर्वीर्य्या च प्रकाशनात् ॥70.
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit