A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s9: अथ सप्तमोऽध्यायः । अथ रसशाला ।
A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v1.c25.s9
- Language
- English
अथ सप्तमोऽध्यायः । अथ रसशाला ।
v1.c25.s9.1
अथ रसशाला ।
v1.c25.s9.2
रसशालां प्रकुर्वीत सर्वबाधाविवर्जिताम् । सर्वौषधमये देशे रम्यकूप²समन्विते ॥ नानोपकरणोपेतां प्राकारेण सुशोभिताम् ॥ शालायाः पूर्व्वदिग्भागे स्थापयेद्रसभैरवम् । वह्निकम्माणि चाग्नेये याम्ये पाषाणकम्म च ॥
v1.c25.s9.3
² रम्यकूप, a variant in the Poona ed., which we have adopted.
v1.c25.s9.4
नैर्ऋत्ये शस्त्रकर्माणि वारुणे चालनादिकम् । शोषणं वायुकोणे च वेधकर्मोत्तरे तथा ॥ स्थापनं सिद्धवस्तूनां प्रकुर्यादीशकोणके । पदार्थसङ्ग्रहः कार्यो रससाधनहेतुकः ॥ सत्त्वपातनकोष्ठीञ्च सुराकोष्ठीं सुशोभनाम् । भूमिकोष्ठीं चलकोष्ठीं जलद्रोणीरनेकशः ॥ भस्त्रिकायुगलं तद्वन्नलिके वंशलोहयोः ।
v1.c25.s9.5
करणानि विचित्राणि द्रव्याण्यपि समाहरेत् । कण्डनीं पेषणीं खल्लान् द्रोणीरूपांश्च वर्त्तुलान् । सूक्ष्मच्छिद्रसहस्राढ्यां द्रव्यगालनहेतवे । चालनीञ्च कटचाणि * * * ॥ मूषामृत्तषकार्पासवनोपलकपिष्टकम् । काचायोमृद्वराटानां कूपिकाचषकानि च । 1-18. निर्लोभाः सत्यवक्तारो देवब्राह्मणपूजकाः । यमिनः पथ्यभोक्तारो योजनीया रसायने ॥ 30. तत्तदौषधनामज्ञाः शुचयो वञ्चनोज्झिताः । नानाविषयभाषाज्ञास्ते मता भेषजाहृतौ ॥ 32.
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit