<!-- Pramāṇa, a library of Indian primary sources · https://indike.org/pramana/ins.science.ray-1902.v2.c34.246 -->

[Pramāṇa](https://indike.org/pramana/) › [Studies](https://indike.org/pramana/ins) › [Science, technology and education](https://indike.org/pramana/ins.science) › [A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D.](https://indike.org/pramana/ins.science.ray-1902) › v2.c34.246

# A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.246

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c34.246

- **Language:** English

### [v2.c34.246](https://indike.org/pramana/ins.science.ray-1902.v2.c34.246)

( तत्कार्य्यारम्भे पृथिव्यादिद्रव्यावस्थागुणा गन्धादयः खलु स्वस्वजातीयं गन्धविशेषादिकं आरभमाणाः यदारभ्यमाणं स्वस्वजातीयं कार्य्यं स्वारम्भकं कारणञ्च अहङ्कारादिस्यं गुणांशं उभयथा क्वचित् हत्वा क्वचित् न हत्वा स्वजातीयं गुणविशेषं आरभन्ते । यथा पारदगन्धकयोः संयोगे कज्जलीभूतद्रव्ये पारदस्य शुक्लः शुक्लविशेषं आरभमाणः गन्धकस्यपीतः पीतमारभमाणः पारदस्यतौक्ष्णन तैक्ष्णप्रमारभमाणेन विरोधिना वध्यते । सञ्जतैव शौक्ल्यं सत्त्वगुणयोनिकं तमोगुणयोनिकेन तैक्ष्ण्येन विरोधिना वध्यते । गन्धकस्यपीतस्थौ च लोहितशुक्लौ रजःसत्त्वयोनिकौ वध्यते । तयोः शुक्ललोहितवधे तैक्ष्ण्यसमानयोनिकः कृष्णः अभिव्यज्यते । इति पारदगन्धकोभयात्मके कार्य्ये श्वेतपीतमेलनेन सम्भाव्य कार्य्यं यद्वर्णां सत् तीक्ष्णगुणेन वध्यते, तत्कारणं शुक्ललोहितं हत्वा । एवं हिङ्गले पारदगन्धकाभ्यामारभ्यमाणे यन्त्रविशेषे वह्निना पच्यमाने रजोबहुल-योनिकेन तीक्ष्ण्येन सत्त्वमयोनीकौ शुक्लकृष्णौ वध्यते । पारदस्य-शुक्लगन्धकस्यपीतमेलनेन सम्भाव्य कार्य्यं वर्णां च वध्यते । रजो-योनिकलौहित्यं च अभिव्यज्यते इति । एवं हरिद्राचूर्णा-संयोगेऽपि लौहित्यं अभिव्यज्यते चूर्णा स्थतैक्ष्ण्येन हरिद्रास्य- शुक्लकृष्णवधे । अथ अवधे यथा—हिङ्गु, लवङ्गभस्मयोगे श्वेत-लोहितवर्णमेव उभयात्मकं भवति पाटलवर्णं, न च तत्र हिङ्गुस्य लोहित्यं वङ्गभस्मस्थं शौक्ल्यं च केनापि वध्यते । एवं शुक्ल-स्वतनिर्मितपटस्य शौक्ल्यमेव ।) (Jalpakalpataru, Sútrasthána of Charaka, pp. 198-200 ; edition published by Bhubanachandra Basák, Calcutta, Samvá-daratnákara Press, Samvat 1925.) This is quite in a line with Charaka's explanation of the tastes of chemical compounds which has been already noticed.

- [Previous: v2.c34.245](https://indike.org/pramana/ins.science.ray-1902.v2.c34.245)
- [Next: v2.c34.247](https://indike.org/pramana/ins.science.ray-1902.v2.c34.247)
- [Up: v2.c34](https://indike.org/pramana/ins.science.ray-1902.v2.c34)

## Linked texts (1)

- [Carakasaṃhitā](https://indike.org/pramana/in.med.samhita.caraka) — Agniveśa (Āyurveda) & Caraka, Sanskrit

---
Source: [https://indike.org/pramana/ins.science.ray-1902.v2.c34.246](https://indike.org/pramana/ins.science.ray-1902.v2.c34.246) · Pramāṇa
