<!-- Pramāṇa, a library of Indian primary sources · https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2 -->

[Pramāṇa](https://indike.org/pramana/) › [Studies](https://indike.org/pramana/ins) › [Science, technology and education](https://indike.org/pramana/ins.science) › [A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D.](https://indike.org/pramana/ins.science.ray-1902) › v2.c35.s2

# A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s2: Extracts from Kakachandesvarimata

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s2

- **Language:** English

### Extracts from Kakachandesvarimata

### [v2.c35.s2.1](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.1)

काकचण्डेश्वरीतन्त्रात् समुद्धृताः श्लोकाः ।

### [v2.c35.s2.2](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.2)

ॐ नमः सदाशिवाय ।

### [v2.c35.s2.3](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.3)

कैलासशिखरासीनमुमा रुद्रं जगद्गुरुम् ।  
क्रंदनंदीमहाकाली भृंगचण्डीविनायकौ ॥ १ ॥  
योगिनीनामष्ट तत्र गुह्याद्गुह्यतरं परम् ।  
कपाली कालरात्री च कालचंद्रकलाम्बिका¹ ॥ २ ॥  
कराली कालकर्णी च काकचण्डेश्वरी तथा ।  
एवमादिस्तथा चान्या योगिनीगणगुह्यकैः² ॥ ३ ॥

### [v2.c35.s2.4](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.4)

¹ The text reads कालचंद्रकमम्बिका, which is incorrect.

### [v2.c35.s2.5](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.5)

² The text reads गुह्यकौ, which is incorrect.

### [v2.c35.s2.6](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.6)

नृत्यवाद्यसुखेशानैः सानन्दैर्हृष्टचेतसैः । तत्रस्थं भैरवं देवं योगिनीगणवेष्टितम् ॥ ४ ॥ केचित् स्तुवन्ति संहृष्टाः केचिद्गायन्ति गुह्यकाः । केचिन्नृत्यन्ति गुह्या ये केचिद्वाद्यं न कुर्व्वते ॥ ५ ॥ हृषितं¹ भैरवं देवं पंचवक्त्रं त्रिलोचनम् । तं दृष्ट्वा भैरवी हृष्टा जगतां चिदगेश्वरी ॥ ६ ॥ कृताञ्जलिपुटा भूत्वा कृष्णतारकलोचना । काकचण्डेश्वरी देवी उवाचेदं तु भैरवी ॥ ७ ॥

### [v2.c35.s2.7](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.7)

काकचण्डेश्वरी उवाच । भगवन् देवदेवेश सर्वज्ञ सर्वविच्छिव² । सर्वज्ञानप्रकाशाय अहं पृच्छामि शंकर ॥ ८ ॥ कथं कायस्थितो जीवो जीवकोऽसौ प्रकीर्त्तितः । कायस्थः कर्मणा केन स्थितः संसारपंजरे ॥ ९ ॥ जराव्याधिदारिद्र्येण ग्रस्तः संसारबंधनैः । एको व्रजति यानेन एकः स्कंधे वहेच्च तम् ॥ १० ॥

### [v2.c35.s2.8](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.8)

(१) The text reads हृष्टं, which is not correct. (२) The text reads सर्वच्छिवः, which is not correct.

### [v2.c35.s2.9](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.9)

जयजयशब्दं मांग्ल्यमेकस्थाने च जंतवः । किं कुर्वाणाः प्रकुर्वाणाः कस्मान्मे ब्रूहि शंकर ॥११॥

### [v2.c35.s2.10](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.10)

श्रीसर्वज्ञ उवाच । शृणु त्वं काकचामुंडे साधकानां हितं प्रिये । गुह्याद्गुह्यतरं वाक्यं पृष्टोहं तु वरानने ॥ १२ ॥ कथयामि समासेन शृणु त्वं काकचंडिके¹ । यस्यार्थश्च परो नित्यः अनादिनिधनेश्वरः ॥ १३ ॥ सुरूपो निर्गुणः शांतो विश्वव्यापी परात्परः । अनादिकर्मसंबंधः कायस्थो भवते तु सः ॥ १४ ॥ जीवे व्याधिभयं कर्म अज्ञानात् संप्रकीर्त्तितम् । तस्मात् कर्मभवात् क्लिष्टः संसारे संसरेत्तु सः ॥ १५ ॥ करोति² विविधं कर्म संसारे काममोहितः । द्रव्योपायं न जानाति कामभोगार्थहेतुना ॥ १६ ॥ काय³क्लेशेन मानव्यो द्रव्योपायं करोति सः । कृषिवाणिज्यसेवायां मेषाविक्रयविक्रये ॥ १७ ॥

### [v2.c35.s2.11](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.11)

¹ The text reads काकचंते, which is incorrect.

### [v2.c35.s2.12](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.12)

² The text reads करोतु, which is not accurate.

### [v2.c35.s2.13](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.13)

³ The text reads कालक्लेशेन, which is not correct.

### [v2.c35.s2.14](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.14)

वहन्ति काष्ठभारांश्च तृणभारमनेकधा । यानं यवनच्छत्रं¹ च किं करोति² करोति सः ॥१८॥ कामासक्तनरः श्रीमान् कुरुते कर्म नैकधा³ । कुर्वाणाश्च नराः केचित् कामासक्तार्थचिन्तकाः ॥१९॥ जायन्ते मर्त्यलोकेस्मिन् दारिद्रोपहतचेतसः । जायन्ते नात्र संदेहः कुजखंजा नपुंसकाः ॥२०॥ महांसंसारबंधेन त्रिगुणेन सुयंत्रिताः । अटव्यां घोरसंघट्टवाटिकां तु नयन्ति तत् ॥२१॥ एतत्ते कथितं भद्रे यत्त्वं मां परिपृच्छसि । किमन्त्यत् पृच्छसे भद्रे तथा ते कथयाम्यहम् ॥२२॥ इति काकचंडेश्वरिमते प्रथमः पटलः ।

### [v2.c35.s2.15](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.15)

श्रीकाकचण्डी उवाच । कथयस्व महादेव कामभोगप्रसाधनः । अर्थः संपद्यते येन अक्लेशात् परमेश्वर ॥१॥

### [v2.c35.s2.16](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.16)

(1) The text reads यवनच्छत्रं, which has no sense.  
(2) The text reads किं कुर्वन्ति, which is incorrect.  
(3) The text reads कुरु कर्मनैकधा, which is incorrect.

### [v2.c35.s2.17](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.17)

तदहं श्रोतुमिच्छामि कथयस्व प्रसादतः । आकाशगमनं देव खेचरत्वं यथा भवेत् ॥ २ ॥ पादुकाया दले पंचदिव्यस्तौकामसाधनम् । रोचनं अंजनं चैव धातुवादरसायनम् ॥ ३ ॥ जलूकाबंधमित्याहुः रसस्य मारणं कथम् । जारणं रत्नकर्त्तृत्वं वज्रंभद्रावणं कथम् ॥ ४ ॥ एतत् सर्वं समासेन ब्रूहि मे त्रिपुरान्तक ।

### [v2.c35.s2.18](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.18)

श्रीभैरव उवाच ।

### [v2.c35.s2.19](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.19)

शृणु त्वं काकचामुंडे साधकानां हितं प्रिये ॥ ५ ॥ कथयामि समासेन पृथक् सिद्धार्थसाधनम् । न द्रव्येण विना सिद्धिर्न भोगाः काम एव च ॥ ६ ॥ द्रव्यहीना नरा मर्त्ये प्रेतरूपेण संस्थिताः । अटंति मर्त्यलोकेस्मिन् पर्य्युपद्रवकारणम् ॥ ७ ॥  
\* \* \* विवं (?) तेषां जायतोपि मृतश्रुतेः । कुलं सौभाग्यरूपं च पांडित्यं ज्ञानसंस्थितम् ॥ ८ ॥ द्रव्यहीना न शोभंते प्राणहीना नरा यथा । कुत्सितो प्राणहीनोपि केनापि वधिराः स्थिताः ॥९॥

### [v2.c35.s2.20](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.20)

पद्यते मर्त्यलोकेस्मिन् द्रव्यस्थं मकरध्वजम् । तस्मात् संसाधयेद्देवि रसेन्द्रं साधकोत्तमः ॥ १० ॥ अथातः संप्रवक्ष्यामि रसेन्द्रसाधनं तव । मारणं जारणाद्यं च द्रव्यसाधनमुत्तमम् ॥ ११ ॥ वज्रदंडः सुदंडश्च लोहदंडस्तथैव च । त्रयो विना ओषधये रसस्य मारणे हिताः ॥ १२ ॥ तान्निबोध समासेन यथा जानंति साधकाः । वज्रदंडस्तु वज्रो स्यात् लोहदंडं पुटं विड़ः ॥ १३ ॥ सुदंडं ब्रह्मदंडं च समासात् कीर्त्तितं तव । ग्राहयेत्तं समासेन साधको हृष्टमानसः ॥ १४ ॥ तद्रसं रससंयुक्तं एकीकृत्य तु मर्दयेत् । अंधमूषागतं भ्रातं रसं म्रियेत तत्क्षणात् ॥ १५ ॥ सहस्रवेधी कर्त्ता च ज्ञायते स महारसः । मूषां संलेपयेत् तेन पुराग्दह्य महौषधौः ॥ १६ ॥ अंधयित्वाग्निमध्ये तु रतिबंधः अयं विधिः । पश्चात् पलसहस्रैकं शुल्वस्य ग्राहयेद्बुधः ॥ १७ ॥ अम्लवर्गहतं शुल्वं क्षारवर्गहतं शुभम् । वज्रीक्षीरार्कक्षीरेण मर्दयेत् शतधा नरः ॥ १८ ॥

### [v2.c35.s2.21](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.21)

पुटं दद्यात् समासेन कालिकारहितं भवेत् । मूषागर्भोदरे क्षिप्त्वा धामयेत् खदिरानलैः ॥ १६ ॥ रसेन्द्रः क्षिप्यते तत्र तारं संजायते क्षणात् । अथातः संप्रवक्ष्यामि मूषाबंधं यथा भवेत् ॥ २० ॥ मृत्तिकाः ग्राहयेत् प्राज्ञस्तृणपाषाणवर्जिताः । तुषादग्धास्त्रयो ग्राह्या मृद्भागास्तु त्रयस्तथा ॥ २१ ॥ एकोकृत्य तु संबध्ये मूषां तत् कारयेद्बुधः । गोस्तनाकारसदृशीमथवामलं कुरु ॥ २२ ॥ मूषाबंधमिति ख्यातं साधकानां हिताय वै । अथान्त्यत् संप्रवक्ष्यामि रसस्य मारणं यथा ॥ २३ ॥ ग्राहयेत् पूर्ववद्भूपः ओषधौस्तिस्रः साधकः । मूषां संलेपयेत् तेन धाम्य कर्म समाचरेत् ॥ २४ ॥ रसेन्द्रो म्रियते क्षिप्रं कुरु कर्म यदिच्छया । वीतोदकेन कामिन हेमकर्माणि वा शृणु ॥ २५ ॥ कारयेल्लोहमयं पात्रं तस्योर्द्धे मृन्मयं शुभे । अन्योन्यपृष्ठसंलग्नं कारयेत् साधकोत्तमः ॥ २६ ॥ अधोयन्त्रेण तं धाम्य आयसं तत्र जारयेत् । तप्तखल्लोदरे घृष्टं जरते नात्र संशयः ॥ २७ ॥

### [v2.c35.s2.22](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.22)

तद्गुणं आयसं तत्र हेमं चाष्टगुणं ददेत् । क्षीरवर्जं तथा चारौ षट्जारौ उदिरग्रहौ । (?) ग्राहयित्वा रसं तेषां आयसं जारयेन्नरः ॥ २८ ॥ हेमं संजायते तत्र धर्मकामार्थसाधनं । ग्टह्य खल्बोदरे तप्ते हेमं षड्गुणतां भजेत् ॥ २९ ॥ पुरा महौषधैर्युक्तं जरते नात्र संशयः । जारिते सारितं दद्यात् पुनस्तं जारयेद्यदि ॥ ३० ॥ कुरुते कर्मसंघांश्च कर्म सिद्धार्थसाधनं ॥ ३१ ॥ जारणं मारणं चैव समासात् कीर्त्तितं मया । किमन्त्यत् पृच्छसे भद्रे तथा ते कथयाम्यहम् ॥३२॥

### [v2.c35.s2.23](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.23)

इति श्रीकाकचंडेश्वरमते द्वितीयः पटलः । अथान्त्यं संप्रवक्ष्यामि अभ्रकस्य यथाक्रमम् ॥ २० ॥ द्रावणं अभ्रकस्यैव समासेन विधीयते । क्षीरकंचुकिचूर्णन तद्रसेनाभिभावितं ॥ २१ ॥ निर्गुण्डीवज्रदण्डं तु तद्रसे भावितं कुरु । एकैकं सप्तवारैस्तु भावयेत् साधकोत्तमः ॥ २२ ॥ (भावनान्ते) अभ्रकस्य अम्ले क्षिपेहिनत्रयं । वहल्या सप्तरात्रं तु क्षिपेदभ्रं नरोत्तमः ॥ २३ ॥

### [v2.c35.s2.24](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2.24)

तेन कल्केन पत्राणि लेपयेदभ्रकस्य च । कांस्यपात्रेण \* \* \* स्तारि साधकोत्तमः ॥ २४ ॥ सूर्यधाम्नि ततो धाप्यः सप्ताहं साधकोत्तमः । द्रवते नात्र संदेहः प्रियं दृष्ट्वा यथा स्त्रियः ॥ २५ ॥ रसस्य भागमेकं तु द्रुतभागसमं कुरु । एकोकृत्य तु तद्वाम्यं म्रियते नात्र संशयः ॥ २६ ॥ लक्षांशवेधोऽसौ हि जायते नात्र संशयः । अथान्त्यं संप्रवक्ष्यामि यथा संजायते द्रुतिः ॥ २७ ॥ ग्राहयेदभ्रकं प्राज्ञः पीतं वा कृष्णमेव वा । पुरासंस्कारयुक्तं तु कर्त्तव्यं साधकेन तु ॥ २८ ॥ यवासा चित्रकं धारः कंचुकीवज्रदंडयोः । वज्रकंदार्कक्षीरं च भल्लातं टंकणं तथा ॥ २९ ॥ क्षारत्रयसमायुक्तं पटुपंचसमन्वितं । एकोकृत्य तु कल्केन अभ्रपत्राणि लेपयेत् ॥ ३० ॥ मूषागर्भोदरे क्षिप्त्वा धामयेत् खदिरानलैः । द्रवते नात्र संदेहः \* \* \* \* \* इति काकचंडेश्वरिमते षष्ठः पटलः ।

---
Source: [https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2](https://indike.org/pramana/ins.science.ray-1902.v2.c35.s2) · Pramāṇa
