Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s5: Extracts from Rasarajalakshmi

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s5

Language
English

Extracts from Rasarajalakshmi

v2.c35.s5.2

विष्णुदेवविरचितायाः रसराजलक्ष्म्याः

v2.c35.s5.3

प्रारम्भः —

v2.c35.s5.4

यस्येच्छाङ्कुरवल्लरी मुकुलिता नानाकलाकौतुकैः
चातुर्य्यंकविलोलपल्लववती कीर्त्तिप्रसूनप्रसूः ।

v2.c35.s5.5

संनिर्वापयति ज्वरत्रयमहो च्छायाकलापैर्नृणां सोऽयं पातु विचारमूर्त्तिरखिलं कालापलीढं जगत् ॥ १ ॥

v2.c35.s5.6

जयति दुरितसर्पस्तंभनोद्यदर्पः प्रबलगदविनाशः सेविविश्वस्तनाशः । शिव इव विज(वोज ?)मंत्रः संहितायोगमंत्रः त्रिपुरहरतनूस्तेजसः कायपुंजः ॥ २ ॥

v2.c35.s5.7

इति श्रीपण्डितमहादेवत नयश्रीविष्णुदेवविरचितायां रसराजलक्ष्म्युल्लासः प्रथमः ॥

v2.c35.s5.8

दृष्ट्वमं रससागरं शिवकृतं श्रीकाकचण्डेश्वरी- तन्त्रं सूतमहोदधिं रससुधांभोधिं भवानीमतम् । व्याडिं सुश्रुतसूत्रमीशहृदयं स्वच्छंदभैरवागमं श्रीदामोदरवासुदेवभगवद्गोविन्दनागार्जुनान् ॥

v2.c35.s5.9

प्रथमः उल्लासः ।

v2.c35.s5.10

स्वच्छंदभैरवागमसारभूतः समुद्धृतो विष्णुभिषग्वरेण ॥ ११० ॥

v2.c35.s5.11

द्वितीयः उल्लासः ।

v2.c35.s5.12

आलोक्य सुश्रुतं वृन्दहारोतचरकादिकान् । आत्रेयं वाग्भटं सिद्धसारं दामोदरं गुरुम् ॥

v2.c35.s5.13

तृतीयः उल्लासः । ❊

v2.c35.s5.14

* Foll. 1—43. Linn. 10. Rasarājalakshmīs, de medicamentis metallorum et fossilium ope conficiendis liber. a Rāmeśvara (bhaṭṭa), Vishṇus filio, compositus. Incipit : आनंदकरसे विकल्पकलनानिमेषबोधात्मकिं प्रागंल्यावधिसंगतिय्यपगते etc. ॥ 1 ॥ स्वशमुखसंयनमंथनेन (l. स्वशमुत्र०) sphurad Rasámbhodhi-gabhīragarbhát | śrī-Vishṇudevi (o deví) labhate prayatnát śrī Vishṇuvatsád Rasarājalakshmím ॥ 2 ॥ Dṛishtvemim Rasaságaram, Śivakṛitam śrī-Karkachaṇḍeśvarī-tantram, Sútamahodadhim, Rasasudhámbhodhim, Bhavánímatam, Vyáḍi[m], Suśrutasútram, Īśaḥridayam, Svachchhandaśaktyágamam, śrī-Dámodara-Vásudeva-bhagavadgovinda-Nágárjunán ॥3॥ आनंदमानंदकरं प्रसन्नं ज्ञानस्वरूपं निजभाव-युक्तम् । योगींद्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ॥ 4 ॥

v2.c35.s5.15

महार्माः सुश्रुतादावष्टौ पारदहिंगुले ।
वैणव सम्यकं ज्ञेयं चपलं रसकोमलम् ॥ 5 ॥
अभ्रकं तुत्थकं (tutthakam) कांतं राजावर्त्तंमयांजनं ।
वद्यकैकांतकं (o vaikrántakam) चेति टंकणं च रसान्विदुः ॥6॥
तालकं गंधकश्लि चितिखिचरगैरिकाः ।
इत्याद्यथोपरसाः पूर्वाचार्यैरुदीरिताः ॥ 7 ॥

v2.c35.s5.16

Aufrecht's "Catalogus," p. 321, No. 761.

v2.c35.s5.17

Colophon at the end of the Rasarájalakshmí—

v2.c35.s5.18

राजन् (सप्त)शार्वरिवत्सराद्यदिवसे वारे हिमांशोरिदं
चंचद्भूतलपत्तने विजयिनि श्रीबुकपृष्ठीपतेः ।
शास्त्रं वैद्यकसाररूपमकरोत् श्रीविष्णुदेवः कविः
वाग्देवोचरणारविंदमकरंदामोदसौरस्यवाक् ॥

v2.c35.s5.19

RASANAKSHATRAMALIKA.

v2.c35.s5.20

मथनसिंहविरचितायाः रसनक्षत्रमालिकायाः उद्धृताः श्लोकाः ।

v2.c35.s5.21

चतुश्चतुःशंखकपर्दिकानां
सतक्रजम्बोरविमर्दितानाम् ।
आफेनमात्नीकविषयानां
पलं पलं दन्तिफलान्वितानाम् ॥ २५ ॥

v2.c35.s5.22

यतभस्मगन्धसूता दितयं वङ्गस्य शुद्धतीक्ष्णस्य । दग्धा मृगस्य शृङ्गं त्रिगुणं दत्त्वा रसाईविषम् ॥१२३॥ चित्रकशोतशिवावृषदमूलदिवनदविल्वगिरैः । कलहत्तारविकृतकैः प्रत्येकं भावनत्रितयम् ॥१२४॥ दत्त्वा सुसिद्धमात्रो मारिचधूपेन धूपितः सम्यक् । स्वच्छन्दभैरवाख्यो रसः समस्तामयध्वंसी ॥ १२५ ॥ त्रिकटुकरसेन युक्तो विशेषतः सन्निपातहरः । ग्रहणगदामयशूलव्रणविद्रधिवातगुल्मजयी ॥१२६॥ इति स्वच्छन्दभैरवो रसः ॥*

v2.c35.s5.23

इयं मालविभूपालभिषजा भिषजां मता । कृता मथनसिंहेन रसनक्षत्रमालिका ॥ १४२ ॥

v2.c35.s5.24

इति रसनक्षत्रमालिका समाप्ता ॥ स्वस्ति संवत् १५५७ आश्विन कृष्ण ५ सोमे ।

v2.c35.s5.25

∗ The स्वच्छन्दभैरव रस mentioned in the रसनक्षत्रमालिका is quite distinct from that, which is stated in the रसेन्द्रचिन्तामणि. Neither has it any analogy with what is described in the रसरत्नसमुच्चय.

Linked texts (5)