Pramāṇa · Search · About · API

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s6: Extracts from Rasaratnakara

A History of Hindu Chemistry from the Earliest Times to the Middle of the Sixteenth Century A.D. v2.c35.s6

Language
English

Extracts from Rasaratnakara

v2.c35.s6.1

नित्यनाथविरचितात् रसत्नाकरात् उद्धृताः श्लोकाः ।

v2.c35.s6.2

यदुक्तं शम्भुना पूर्वं रसखण्डे रसार्णवे ।
रसस्य वन्दनार्थे च दीपिकारसमङ्गले ॥
व्याधितानां हितार्थाय प्रोक्तं नागार्जुनैन यत् ।
उक्तं चर्पटसिद्देन¹ स्वर्गवैद्यकपालिके ।
अनेकरसशास्त्रेषु संहितास्वागमेषु च ।
यदुक्तं वाभटे तन्त्रे सुश्रुते वैद्यसागरे ॥
अन्यैश्च बहुभिः सिद्धैः यदुक्तञ्च विलोक्य तत् ।
तत्र यद्यदसाध्यं स्याद्यद्यदुर्लभमौषधम् ।
तत्तत् सर्वं परित्यज्य सारभूतं समुद्धृतम् ॥
क्वचिच्छास्त्रे क्रिया नास्ति क्रमस्यापि न च क्वचित् ।

v2.c35.s6.3

¹ धूर्जटिसिद्देन is the reading in the Sanskrit college MS.

v2.c35.s6.4

मात्रायुक्तिः क्वचिन्नास्ति सम्प्रदायो न च क्वचित् । तेन सिद्धिर्न तत्रास्ति रसे वाप्य रसायने ॥ वैद्य वादे प्रयोगे च तस्माद्यत्नो मया कृतः ॥ यद्यद्गुरुमुखाज्ज्ञातं स्वानुभूतञ्च यन्मया । तत्तल्लोकहितार्थाय प्रकटीक्रियतेऽधुना ॥

v2.c35.s6.5

प्रथमोपदेशे ।

v2.c35.s6.6

इति श्रोपाव्वतोपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे रसखण्डे रसपीठिका नाम प्रथमोपदेशः ।

v2.c35.s6.7

परोक्षा मारिते सूते कर्त्तव्या च यथोदिता । अधस्तुषाग्निना तप्तो ह्यत्कोणस्तिष्ठते यदा । तदा भस्म विजानीयाच्छुक्लां यामं निरोधयेत् ॥

v2.c35.s6.8

द्वितीयोपदेशे ।

v2.c35.s6.9

दन्ते शृङ्गेऽथवा वंशे रक्षयेत् साधितं रसम् ॥

v2.c35.s6.10

चतुर्थोपदेशे ।

v2.c35.s6.11

अथातः शुद्धसूतस्य मूर्च्छनाविधिरुच्यते । मेवनादावचाहिङ्गशूरणैर्मर्दयेद्रसम् ॥

v2.c35.s6.12

नष्टपिष्टन्तु तद्गोलं हिङ्गुना वेष्टयेदहिः । पचेल्लवणयन्त्रस्थं दिनैकं चण्डवह्निना ॥ ऊर्द्धलग्नं समादाय दृढं वस्त्रेण बन्धयेत् । ऊर्द्धाधो गन्धकं तुल्यं दत्त्वा सोमानले पचेत् ॥ जीर्णे गन्धे पुनर्देयं षड्भिर्वारैः समं समम् । षड्गुणे गन्धके जीर्णे मूर्च्छितो रोगहा भवेत् ॥ चतुर्थोपदेशे ॥

v2.c35.s6.13

DHATURATNAMALA.

v2.c35.s6.14

धातुरत्नमालायाः

v2.c35.s6.15

प्रारम्भः—

v2.c35.s6.16

प्रणम्य विततां शक्तिं त्रिसृष्ट्युत्पत्तिकारिणीं । धातूनां रत्नमालायामभिधायं करोम्यहं ॥ १ ॥ ब्रह्मविष्णुहराद्यान् ये मर्त्ता ध्यायन्ति नित्यशः । ज्ञानदानप्रदानाय सा मे विश्वेश्वरी मता ॥ २ ॥

v2.c35.s6.17

अथ धातूनां रत्नमालां वक्ष्यामि । रौप्यं हेमं तथा ताम्रं नागं वंगं तथायसं । खर्पराभ्रकमौक्तिकं च प्रबालं तालकं शिला ॥ ३ ॥ सुवर्णमाक्षिकं सूतं हीरकं च ब्रवीम्यहं । सर्वधातूपधातूनां लक्षणं मारणं गुणं ॥ ४ ॥

v2.c35.s6.18

अथ रौप्यमारणं । रौप्यं शुद्धं समादाय नागेन गुरु शोधयेत् । शुद्धे तारे पुनः पश्चात् सूक्ष्मपत्राणि कारयेत् ॥ ५ ॥ निम्बचिंचिणिट्राक्षाभिः शोधयेच्च पृथक् पृथक् । क्षालयेदुदकैः सार्द्धं तथा दुग्धेन शोधयेत् ॥ ६ ॥ गंधपारदयोरैक्यं किंचिद्दंगं च घर्षयेत् । द्राक्षाया द्रवसंयुक्तं तारपत्राणि शोधयेत् ॥ ७ ॥ चक्रयन्त्रे विनिधिक्षिप्य लेपयेद्वस्त्रमृत्तिकां । क्षिपेद्गजपुटे गत्ते ज्वालयेद्बहुकाष्ठकान् ॥ ८ ॥

v2.c35.s6.19

समाप्तिः— ग्रंथो वैद्यकनामायं रससिद्धांतसागरात् । धातूनां रत्नमाला च ततो वैद्यस्य हेतवे ॥ १७६ ॥

v2.c35.s6.20

मरणेभ्यो भयत्रस्ता रोगग्रस्ताश्च ये नराः । रत्नमाला कृता तेषां वैद्यानां च हिताय वै ॥१७७॥ इति श्रीवैद्यकशास्त्रे अश्विनीकुमारसंहितायां धातुरत्नमालायां समाप्तोऽयं ग्रंथः ॥

v2.c35.s6.21

The following is taken from Aufrecht's "Catalogus"—No. 760.

v2.c35.s6.22

Incipit :—प्रणम्य सारदां शक्तिं सृष्ट्युत्पत्ति- कारकां । धातूनां रत्नमालां च विबोधाय करोम्यहं ॥१॥ ब्रह्माविष्णुहरान् ध्यायेद्भक्ता ध्यायंति नित्यशः । तेषां वरप्रदानाच्च सा मयैवमुदीर्य्यते ॥ २ ॥ रूप्यं हेम तथा ताम्रं नागं वंगं तथायसं । खर्परं गगनं प्रोक्तं प्रवालं तालकं शिला ॥ ३ ॥ माक्षिकं गंधकं सूतं हीरकं च ब्रवीम्यहं । सर्वधातूपधातूनां लक्षणं मारणं गणान् ॥ ४ ॥ रूप्यं शुद्धं समानीय नाग- मूषा तु शोधयेत् । शुद्धे तारे पुनः पश्चात् सूक्ष्म- पत्राणि कारयेत् ॥५॥ निंबुचिंचिणद्रावाभिः शोधनीयं पृथक् पृथक् । चालयेदुदकैः सार्द्धं तथा दुग्धेन शोधयेत् ॥ ६ ॥ गंधकं पारदं रूप्यं किंचिद्वंगं च

v2.c35.s6.23

घर्षयेत् । द्वाक्षारसेन संयुक्तं तारपत्राणि लेपयेत् ॥ ७ ॥ नक्तं यन्त्रे विनिचिष्य लेपयेद्वस्त्रमृत्तिकां । ज्ञेयं गजपुटे गर्तं ज्वालयेच्च गजोपलैः ॥ ८ ॥

v2.c35.s6.24

In fine libelli disticha haec leguntur :

v2.c35.s6.25

ग्रंथो वैद्यकनामायं Rasasiddhántasaṃgrát । धातूनां रत्नमाला च कृता वैद्यसुहेतवे ॥ १ ॥ मरणेभ्यो भयत्रस्ता रोगग्रस्ताश्च ये नराः । रत्नमाला हि धातूनां कृता तेषां हिताय वै ॥ २ ॥ Játyá Gurjarakhaṇḍas cha, Devadatto hi dharmavit । Harer námábhidhánasya सुतस्तस्य भिषग्वरः ॥३॥ संहितारसकर्माणि यस्य बुद्धिर्गरीयसी । तेन शास्त्रविधिज्ञेन कृता रत्नस्य मालिका ॥ ४ ॥

v2.c35.s6.26

इति देवदत्तकृतवैद्यकशास्त्रे धातुरत्नमाला ॥

Linked texts (2)