<!-- Pramāṇa, a library of Indian primary sources · https://indike.org/pramana/ins.science.ray-1956.c46 -->

[Pramāṇa](https://indike.org/pramana/) › [Studies](https://indike.org/pramana/ins) › [Science, technology and education](https://indike.org/pramana/ins.science) › [History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray](https://indike.org/pramana/ins.science.ray-1956) › c46

# History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c46: Extracts from KAKACHANDESVARIMATA.

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c46

- **Language:** English

## Contents

- [c46.s1 काकचण्डीश्वरीमततन्त्रात् समुद्धृताः श्लोकाः।](https://indike.org/pramana/ins.science.ray-1956.c46.s1) — 24 parts

### Extracts from KAKACHANDESVARIMATA.

### काकचण्डीश्वरीमततन्त्रात् समुद्धृताः श्लोकाः।

### [c46.s1.1](https://indike.org/pramana/ins.science.ray-1956.c46.s1.1)

ॐ नमः सदाशिवाय।

### [c46.s1.2](https://indike.org/pramana/ins.science.ray-1956.c46.s1.2)

कैलासशिखरासीनमुमा रुद्रं जगद्गुरुम्।  
क्रोदनंदौमहाकालौ भृंगचण्डोविनायकौ ॥ 1.  
योगिनीनामष्ट तत्र गुह्याद्गुह्यतरं परम्।  
कपाली कालरात्री च कालचंद्रकलाम्बिका¹ ॥ 2.  
कराली कालकर्णी च काकचण्डेश्वरी तथा।  
एवमादिस्तथा चान्या योगिनीगणगुह्यकैः² ॥ 3.  
नृत्यवाद्यसुखेशानैः सानन्दैर्हृष्टचेतसैः।  
तत्रस्थं भैरवं देवं योगिनीगणवेष्टितम् ॥ 4.  
केचित् स्तुवन्ति संहृष्टाः केचिद्गायन्ति गुह्यकाः।  
केचिन्नृत्यन्ति गुह्या ये केचिद्वाद्यं न कुर्व्वते ॥ 5.  
हृषितं³ भैरवं देवं पंचवक्त्रं विलोचनम्।  
तं दृष्ट्वा भैरवी दृष्टा जगतां त्रिदशेश्वरी ॥ 6.  
कृताञ्जलिपुटा भूत्वा कृष्णतारकलोचना।  
काकचण्डेश्वरी देवी उवाचेदं तु भैरवौ ॥ 7

### [c46.s1.3](https://indike.org/pramana/ins.science.ray-1956.c46.s1.3)

¹ The text reads कालचन्द्रकमम्बिका, which is incorrect.

### [c46.s1.4](https://indike.org/pramana/ins.science.ray-1956.c46.s1.4)

² The text reads गुह्यकौ, which is incorrect

### [c46.s1.5](https://indike.org/pramana/ins.science.ray-1956.c46.s1.5)

³ The text reads दृष्टं, which is not correct.

### [c46.s1.6](https://indike.org/pramana/ins.science.ray-1956.c46.s1.6)

काकचण्डीश्वरो उवाच।

### [c46.s1.7](https://indike.org/pramana/ins.science.ray-1956.c46.s1.7)

भगवन् देवदेवेश सर्वज्ञ सर्वविच्छिव¹। सर्वज्ञानप्रकाशाय अहं पृच्छामि शंकर ॥ 8  
कथं कायस्थितो जीवो जीवकोऽसौ प्रकीर्त्तितः। कायस्थः कर्मणा केन स्थितः संसारपंजरे ॥ 9.  
जराव्याधिदारिद्र्येण ग्रस्तः संसारबंधनैः। एको व्रजति यानेन एकः स्कंधे वहेश्च तम् ॥ 10  
जयजयशब्दं मांगव्यमेकस्थाने च जंतवः। किं कुर्वाणाः प्रकुर्वाणाः कस्मान्मे ब्रूहि शंकर ॥ 11

### [c46.s1.8](https://indike.org/pramana/ins.science.ray-1956.c46.s1.8)

¹ The text reads सर्वच्छिवः, which is not correct

### [c46.s1.9](https://indike.org/pramana/ins.science.ray-1956.c46.s1.9)

श्रीसर्वज्ञ उवाच।

### [c46.s1.10](https://indike.org/pramana/ins.science.ray-1956.c46.s1.10)

शृणु त्वं काकचामंडे साधकानां हितं प्रिये। गुह्याद्गुह्यतरं वाक्यं पृष्टोऽहं तु वरानने ॥ 12.  
कथयामि समासेन शृणु त्वं काकचंडिके²। यस्यार्थश्च परो नित्यः अनादिनिधनेश्वरः ॥ 13.  
स्वरूपो निर्गुणः शांतो विश्वव्यापी परात्परः। अनादिकर्मसंबंधः कायस्थो भवति तु सः ॥ 14.  
जीवे व्याधिभयं कर्म अज्ञानात् संप्रकीर्त्तितम्। तस्मात् कर्मभवात् क्लिष्टः संसारे संसरेत्तु सः ॥ 15.  
करोति³ विविधं कर्म संसारे काममोहितः। द्रव्योपायं न जानाति कामभोगार्थहेतुना ॥ 16  
काय⁴क्लेशेन मानव्यो द्रव्योपायं करोति सः। कृषिवाणिज्यसेवयां क्रयाविक्रयविक्रये ॥ 17.

### [c46.s1.11](https://indike.org/pramana/ins.science.ray-1956.c46.s1.11)

² The text reads काकचने, which is incorrect

### [c46.s1.12](https://indike.org/pramana/ins.science.ray-1956.c46.s1.12)

³ The text reads करोतु, which is not accurate

### [c46.s1.13](https://indike.org/pramana/ins.science.ray-1956.c46.s1.13)

⁴ The text reads कानक्ले शेन, which is not correct.

### [c46.s1.14](https://indike.org/pramana/ins.science.ray-1956.c46.s1.14)

वहन्ति काष्ठभारांश्च तृणभारमनेकधा ।  
यानं यवनच्छत्रं¹ च किं करोति² करोति सः ॥ 18.  
कामासक्तानरः श्रीमान् कुरुते कर्म नैकधा³ ।  
कुर्वाणाश्च नराः केचित् कामासक्तार्थचिन्तकाः ॥ 19  
जायते मर्त्यलोकेऽस्मिन् दारिद्र्योपहतचेतसः ।  
जायते नात्र संदेहो कुजखंजा नपुंसकाः ॥ 20  
महासंसारबंधेन त्रिगुणेन सुयंत्रिताः ।  
अटव्यां घोरसङ्घघाटां तां तु नयन्ति तत् ॥ 21.  
एतत्ते कथितं भद्रे यत्त्वं मां परिपृच्छसि ।  
किमन्यत् पृच्छसे भद्रे तथा ते कथयाम्यहम् ॥ 22  
इति काकचंडेश्वरोमते प्रथमः पटलः ।

### [c46.s1.15](https://indike.org/pramana/ins.science.ray-1956.c46.s1.15)

¹ The text reads यवनछत्रं, which has no sense

### [c46.s1.16](https://indike.org/pramana/ins.science.ray-1956.c46.s1.16)

² The text reads किं कुर्व्वति, which is incorrect

### [c46.s1.17](https://indike.org/pramana/ins.science.ray-1956.c46.s1.17)

³ The text reads कुरु कर्ममनेकधा, which is incorrect.

### [c46.s1.18](https://indike.org/pramana/ins.science.ray-1956.c46.s1.18)

श्रीकाकचण्डी उवाच ।

### [c46.s1.19](https://indike.org/pramana/ins.science.ray-1956.c46.s1.19)

कथयस्व महादेव कामभोगप्रसाधनः ।  
अर्थः संपद्यते येन अक्लेशात् परमेश्वर ॥ 1  
तदहं श्रोतुमिच्छामि कथयस्व प्रसादतः ।  
आकाशगमनं देव खेचरत्वं यथा भवेत् ॥ 2.  
पादुकाया दले पंचदिव्यस्त्रीकामसाधनम् ।  
रोचनं अंजनं चैव धातुवादरसायनम् ॥ 3.  
जलूकाबंधमित्याहुः रसस्य मारणं कथम् ।  
जारणं रत्नकर्त्तृत्वं वज्रेभद्रावणं कथम् ॥ 4.  
एतत् सर्वं समासेन ब्रूहि मे त्रिपुरांतक ।

### [c46.s1.20](https://indike.org/pramana/ins.science.ray-1956.c46.s1.20)

श्रीभैरव उवाच ।

### [c46.s1.21](https://indike.org/pramana/ins.science.ray-1956.c46.s1.21)

शृणु त्वं काकचामंडे साधकानां हितं प्रिये ॥ 5

### [c46.s1.22](https://indike.org/pramana/ins.science.ray-1956.c46.s1.22)

कथयामि समासेन पृथक् सिद्धार्थसाधनम् ।  
न द्रव्येण विना सिद्धिर्न भोगाः काम एव च ॥ 6  
द्रव्यहीना नरा मर्त्ये प्रेतरूपेण संस्थिताः ।  
अटंति मर्त्यलोकेस्मिन् षष्ठ्युपद्रवकारणम् ॥ 7.  
\* \* \* विवं (१) तेषां जायतोपि मृतस्मृतेः ।  
कुलं सौभाग्यरूपं च पांडित्यं ज्ञानसंस्थितम् ॥ 8.  
द्रव्यहीना न शोभंते प्राणहीना नरा यथा ।  
कुत्सितो घ्राणहीनोपि केनापि वधिराः स्थिताः ॥ 9  
पद्यंते मर्त्यलोकेस्मिन् द्रव्यस्थं मकरध्वजम् ।  
तस्मात् संमाधयेद्देवि रसेन्द्रं साधकोत्तमः ॥ 10.  
अथातः संप्रवक्ष्यामि रसेन्द्रसाधनं तव ।  
मारणं जारणाद्यं च द्रव्यसाधनमुत्तमम् ॥ 11.  
वज्रदंडः सुटंडश्च लोहदंडस्तथैव च ।  
त्रयो विना ओषधये रसस्य मारणे हिताः ॥ 12.  
तान्निवोध समासेन यथा जानंति साधकाः ।  
वज्रदंडस्तु वज्रो स्यात् लोहदंडं पुटं विड़ः ॥ 13.  
सुटंडं ब्रह्मदंडं च समासात् कीर्त्तितं तव ।  
ग्राह्येत्तं समासेन साधको हृष्टमानसः ॥ 14.  
तद्रसं रससंयुक्तं एकीकृत्य तु मर्दयेत् ।  
अंधमूषागतं ध्मातं रसं म्रियेत तत्क्षणात् ॥ 15  
सहस्रवेधी कर्त्ता च ध्यायते स महारसः ।  
मूषां संलेपयेत् तेन पुराग्दह्या महौषधैः ॥ 16  
अधयित्वाग्निमध्ये तु रतिबंधः अयं विधिः ।  
पश्चात् पलसहस्त्रै कं शुल्वस्य ग्राहयेद्बुधः ॥ 17.  
अम्लवर्गहृतं शुल्वं क्षारवर्गहृतं शुभम् ।  
वज्रोक्षीरार्कक्षीरेण मर्दयेत् शतधा नरः ॥ 18.  
पुटं दद्यात् समासेन काक्षिकारहितं भवेत् ।  
मूषागर्मादरे क्षिप्ता धामयेत् खदिरानलैः ॥ 19

### [c46.s1.23](https://indike.org/pramana/ins.science.ray-1956.c46.s1.23)

रसेन्द्रः क्षिप्यते तत्र तारं संजायते क्षणात् ।  
अथातः संप्रवक्ष्यामि मूषाबंधं यथा भवेत् ॥ 20.  
मृत्तिकाः ग्राहयेत् प्राज्ञस्तृणपाषाणवर्जिताः ।  
तुषादग्धास्त्रयो ग्राह्या मृद्भागास्तु त्रयस्तथा ॥ 21.  
एक्रीकृत्य तु संबन्धे मूषां तत् कारयेद्बुधः ।  
गोस्तनाकारसदृशीमथवामलकं कुरु ॥ 22.  
मूषाबंधमिति ख्यातं साधकानां हिताय वै ।  
अथान्यत् संप्रवक्ष्यामि रसस्य मारणं यथा ॥ 23  
ग्राहयेत् पूर्ववद्भूयः ओषधीस्तिस्रः साधकः ।  
मूषां संलेपयेत् तेन धाम्य कर्म समाचरेत् ॥ 24.  
रसेन्द्रो म्रियते क्षिप्रं कुरु कर्म यदिच्छया ।  
वीतोदकेन कामिन हेमकर्माणि वा शृणु ॥ 25.  
कारयेल्लोहमयं पात्रं तस्योर्द्धं मृन्मयं शुभे ।  
अन्योन्यपृष्ठसंलग्नं कारयेत् साधकोत्तमः ॥ 26.  
अधोयन्त्रेण तं धाम्य आयसं तत्र जारयेत् ।  
तप्तखल्वोदरे घृष्टं जरते नात्र संशयः ॥ 27.  
तद्गुणं आयसं तत्र हेमं चाष्टगुणं ददेत् ।  
क्षौरवच्चं तथा चारौ षट्जारौ उदिरग्रहौ । (?)  
ग्राहयित्वा रसं तेषां आयसं जारयेन्नरः ॥ 28.  
हेमं संजायते तत्र धर्मकामार्थसाधनं ।  
दृष्ट्वा खल्वोदरे तप्ते हेमं षड्गुणतां भजेत् ॥ 29.  
पुरा महौषधैर्युक्तं जरते नात्र संशयः ।  
जारिते सारितं तद्व्रात् पुनस्तं जारयेद्यदि ॥ 30  
कुरुते कर्मसंघांश्च कर्म सिद्धयर्थसाधनं ॥ 31.  
जारणं मारणं चैव समासात् कीर्त्तितं मया ।  
किमन्यत् पृच्छसे भद्रे तथा ते कथयाम्यहम् ॥ 32.  
इति श्रीकाकचंडेश्वरीमते द्वितीयः पटलः ।

### [c46.s1.24](https://indike.org/pramana/ins.science.ray-1956.c46.s1.24)

अथान्यं संप्रवक्ष्यासि अभ्रकस्य यथाक्रमम् ॥ 20.  
द्रावणं अभ्रकस्येव समासेन विधीयते ।  
चौरकंचुकिचूर्णेन तद्रसेनाभिभावितं ॥ 21.  
निर्गुण्डीवज्रटङ्क' तु तद्रसे भावितं कुरु ।  
एकैकं सप्तवारंस्तु भावयेत् साधकोत्तमः ॥ 22.  
(भावमान्ते) अभ्रकस्य अम्ले चिपिट्ठिनत्रयं ।  
बृहत्या सप्तरात्रं तु क्षिपेटभ्र' नरोत्तमः ॥ 23.  
तेन कल्केन पत्राणि लेपयेदभ्रकस्य च ।  
कांस्यपात्रेण \* \* \* स्तारि साधकोत्तमः ॥ 24.  
सूर्य्यधाम्नि ततो धाप्यः सप्ताहं साधकोत्तमः ।  
द्रवते नात्र संदेहः प्रियं दृष्ट्वा यथा स्त्रियः ॥ 25.  
रसस्य भागमेकं तु द्रुतभागसमं कुरु ।  
एकीहत्य तु तद्दाम्यं म्रियते नात्र संशयः ॥ 26  
लक्षांशवेधकोऽसौ हि जायते नात्र संशयः ।  
अथान्यं संप्रवक्ष्यामि यथा संजायते द्रुतिः ॥ 27  
ग्राहयेदभ्रकं प्राज्ञः पीतं वा कृष्णमेव वा ।  
पुरासंस्कारयुक्तं तु कर्त्तव्यं साधकेन तु ॥ 28  
यवासा चित्रकं धारः कांचुकौवज्रदंडयोः ।  
वज्रकंदार्कचौरं च भल्लातं टंकणं तथा ॥ 29.  
क्षारत्रयसमायुक्तं पटुपंचसमन्वितं ।

---
Source: [https://indike.org/pramana/ins.science.ray-1956.c46](https://indike.org/pramana/ins.science.ray-1956.c46) · Pramāṇa
