History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c49: Rasachintamani
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c49
- Language
- English
Rasachintamani
c49.1
मदनान्तदेव सूरिविरचितात् रसचिन्तामणेः उद्धृताः श्लोकाः ।
c49.2
सैन्धवं तोरिकां सूतं कासीसं लकुचद्रवैः ।
विघृष्य खल्वभाण्डस्थं सर्वशूद्धा¹ दिनत्रयम् ॥ 76.
इण्डिकायां तदारोप्य काष्ठवह्विर्विधीयते ।
दिनत्रयेऽप्यतिक्रान्ते भस्म श्वेततरं भवेत् ॥ 77.
\* \* \* \* \* \*
इति त्रयोदश भस्मसूतः ।
खर्परो द्वादशांशः स्यात् शिखिग्रीवं च तुल्यकं ।
षड्गुणं माक्षिकं नेत्रभागं ग्राह्यं मनःशिला¹ ।
भागत्रयमिदं ग्राह्यं शोभनागतकर्कर्रैः² ॥ 38
गंधकत्रयमेवास्ते काचमाचौरसैर्भृशं ।
दिनसप्तात्र कर्त्तव्या भावना मर्द्दनं क्रमात् ॥ 39.
अधोमुखेन यन्त्रेण तेन निःसारयेद्बुधः ।
सत्वं तद्रसकस्याथ दृढं कार्य्यकरं परं ॥ 40
अवश्यं तद्दृढं सत्वं निर्धूमं कर्मसाधनं ॥
इति रसकसत्वपातनं ।
c49.3
¹ चापि नेत्रभागा मनःशिला is the correct reading as stated in the margin of the text
c49.4
² त्रयो भागा अपि ग्राह्या शोभना गतकर्करा. is the correct reading as stated in the margin of the text.
c49.5
त्रिवारं गन्धकद्भूतं ताम्रहेमद्वयद्वयं ।
सत्वं तालस्य मासैकं योजयेत् सर्व्वकामरुं ॥ 43.
c49.6
अभ्रवर्णं भवेद्धेमं ताम्रगंधकमारितं ।
एतयोर्दीयते रम्थं जायते कांचनं शुभं ॥ 44.
c49.7
इति श्रीमदनांतदेवविरचिते रसचिंतामणौ
हेमौकरणप्रयोगः ॥
c49.8
पारदं सीसकं गंधं कुनटी तच्चतुष्टयं ।
बीजपूरांभसा पिष्ट्वा बाढं दिनचतुष्टयं ॥ 108.
अथ सूक्ष्माणि पत्राणि तेन तारस्य लेपयेत् ।
बीजपूररसेनेतत् तप्ततिमात्राग्नितापितं ॥ 109.
एकाधिका भवंत्यत्र भावनाश्चास्य विंशतिः ।
विशोष्यावर्त्तितं तारं भवेत्तारस्य कांचनं ॥ 110.
इति चिंतामणौ हेमीकरणप्रयोगः ॥
c49.9
हेमभागद्वयं तारं तथा ताम्रं चतुष्टयं ।
एकतः क्रियते पत्रमतिसूक्ष्मं निरामयं ॥ 111
जंबीरनीरसंपिष्टं खर्परस्याष्टटंककं ।
तेन ताम्रस्य पत्राणि लेपनीयानि वै बहु ॥ 112
आवर्त्तते पुनर्दत्वा मूषकै गलितानि च ।
तदा तानि भवंत्यत्र हेमरूपाणि नान्यथा ॥ 113
इति हेमीकरणप्रयोगः ॥
c49.10
एकभागो भवेदारः तारं भागद्वयं भवेत् ।
वेदभागं भवेत्तीक्ष्णं सत्वं सत्वाच्च वै दश ।
वंगभागं भवेत्पत्रं सर्व्वमेकत्र कारयेत् ॥ 109.
टंकणेन पुनः स्नातं पत्रं कृत्वास्य वल्लगं ।
वेलात्रयमिदं स्नातं तक्रमध्ये निवेशयेत् ॥ 110.
एवं तारं भवेन्नूनं परीक्षाक्षममापणे ॥
इति तारोत्पादकं ॥
c49.11
तुत्थकं पिष्यते खल्वे त्रिफलाहिंगुटंकणैः । मध्वाज्यमिश्रितं ध्मातं सत्वं पातयते ध्रुवं ॥ 69. इति तुत्थकसत्वपातनं ॥ खर्परः स्वेद्यते पूर्व्वं कौलत्थेन जलेन च । वटारोहजलेनापि पर्णचूर्णेन शोभनः ॥ 75. गुड़टंकणसंमिश्रस्त्रिफलाक्वाथमर्दितः । मृन्मये कूपके कृत्वा धाम्यमानो भृशं च सः ॥ 76. श्वेतधूमोद्गमे जाते तत उत्थाप्य कूपकं । सावधानं करैश्चैव भूमौ तं चाध आनयेत् ॥ 77. पुनश्च ध्मायते कूपः तथाज्ञातं च तं पुनः । कूपकं च पुनर्भूमौ तथा तं नामयेत् पुनः ॥ 78. सत्व
Linked texts (1)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit