Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c50: Extracts from RASAKALPA.

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c50

Language
English

Extracts from RASAKALPA.

c50.1

रुद्रयामलान्तर्गतात् रसकल्पादृद्धताः श्लोकाः ।

c50.2

शिवं नत्वा रसौघेशं चण्डिकाचरणं तया ।
क्रियते¹ रसकल्पोऽयं रसज्ञानविशारदः² ॥ 1

c50.3

¹ The text reads करोति which is grammatically incorrect

c50.4

² The reading in the text is विशारदम्, which is incorrect

c50.5

॥ अथ परीक्षा ॥

c50.6

श्वेताङ्गः श्वेतरूपश्च लोहहाऽपि चञ्चलो रसः³ ।
यदा⁴ नावर्त्ततेऽङ्गेषु नोर्ध्वं गच्छेत्तदा मृतः ॥ 10

c50.7

³ The text reads रस, which is incorrect

c50.8

⁴ The text reads यदानवर्त्तदेन्, which is not correct.

c50.9

दन्ते शृङ्गे मणौ वेणौ रचयेत् साधितं र सम् ॥ 12

c50.10

इति श्रीरुद्रयामले रससंकेतकं नाम प्रथमोल्लासः ।

c50.11

हेमरूप्यार्कवङ्गाहि⁵लौहा लोहः⁶ षड़ोरिताः ।
अकृत्रिमा इमे येषां वर्त्ताद्याः स्युर्⁷ कृत्रिमाः ॥ 1.

c50.12

⁵ The text reads वङ्गाहिः, which is grammatically incorrect

c50.13

⁶ लोहितोहा is the reading of the text, which seems to be incorrect

c50.14

⁷ The text reads येषांवार्त्ताद्यास्तुकत्रिमा, which is palpably an error

c50.15

सन्तो बद्धाञ्जलिपुटो युष्मान् विज्ञापयाम्यहम् ।
कृपासुधारसयुता दृष्टिर्ग्रन्थे प्रदीयताम् ॥
महारसाः स्युस्तत्रादावष्टौ पारदहिङ्गुले ।
वैक्रान्तं शस्यकं ग्रैवं चपलं रसकोऽमलम् ॥
(महारसाः)
अभ्रकं तुत्थकं कान्तं राजावर्त्तंमथाञ्जनम् ।
वज्रं वैक्रान्तकं चैव टङ्कणं च रसा बहु ॥
(रसाः)
गन्धकं तालकशिले क्षितिखेचरगैरिकाः ।
इत्यादयश्चोपरसाः सर्व्वाचार्य्यैरूदीरिताः ॥
(उपरसाः)

c50.16

सितासितारुणं पीतं गन्धकं तच्चतुर्विधम् ॥
तालकं द्विप्रकारं स्यात् गोदन्तः पाटलच्छविः¹ ॥
रक्ता पीता शिला द्वेधा पूर्व्वा श्रेष्ठोत्तराधमा² ॥
बहुप्रकारा सौराष्ट्री कासीसं त्रिविधं मतम्³ ॥
कासीसं पुष्पकासीसं चौरकासीसमित्यथ ॥
गैरिको द्विविधः प्रोक्तः सौवर्णो लोहितस्तथा ॥
कङ्गुष्ठादीन्⁴ रसान् केचिदाचार्य्या वर्णयन्ति वै ।
अस्माभिरिह तन्नोक्तं मुनिमार्गानुसारिभिः ॥

c50.17

¹ The text reads पटलाच्छवि, which seems to be incorrect.

c50.18

² पूर्वा श्रेष्ठोत्तराधमा is the reading of the text, which is incorrect.

c50.19

³ The text reads कासीसस्त्रिविधो मतः. which is incorrect, as it is mentioned neuter in the next line.

c50.20

⁴ The text reads कंकुष्टादीन्, which is an error of the scribe.

c50.21

इत्येष प्रोदितो मार्गो रसशोधनकर्म्मणि।
स्वच्छन्दभैरवादुक्तो गोविन्दादिसमाहृतः¹ ॥

c50.22

¹ The text reads समादित, which is incorrect

c50.23

लवणं चुलिकोद्भूतं गन्धकेन समन्वितम्।
सर्व्वाङ्गदग्धं² चित्रार्द्रं मूलभस्मप्रगालितम् ॥
गोमूत्रेण शतं भाव्यं तद्रसे जारयेत् शनौ³ ।
तस्य संपर्क्ततः सूतो राक्षसो भवति ध्रुवम् ॥
एतदेव विडं दद्यात् सर्व्वदा हेमजारणे⁴ ।
सुखं संजायते तेन जीर्य्यते च⁵ विनिश्चितम् ॥
इति श्रीरुद्रयामले रसकल्पे उमामहेश्वरसंवादे रसशोधनप्रकारः ॥

c50.24

² The text reads सर्वागदग्ध, which seems to be incorrect

c50.25

³ शनिः, as given in the text, is grammatically incorrect

c50.26

⁴ The text reads हेमझारणौ, which is not correct.

c50.27

⁵ The text reads न, which appears to be an error

c50.28

इति संधानयोगोऽयं जारणेऽतिगुणावहः ।
प्रकाशितः संप्रदायक्रमप्राप्तः शिवोदितः ॥
इति श्रीरुद्रयामले रसकल्पे उमामहेश्वरसंवादे रसाधिकरणे⁶ नाम द्वितीयोल्लासः ॥

c50.29

⁶ The text reads रसाधिकारिण, which is incorrect

c50.30

महारसानां सर्व्वेषां रसाना शुद्धिरुच्यते ।
तथैवोपरसानाञ्च शास्त्रदृष्टेन वर्त्मना ॥ 1

c50.31

कदलीपत्रजैर्नीरैः माक्षीकं भावयेत् शतं¹
गन्धर्वतैलमध्वाज्य—पक्कमेकं दिनत्रयम् ॥
तत्ताप्यं वन्धमूषायां पक्वायां निक्षिपेत्ततः ।
लोहसन्धानकरणं तत्समं तत्र निष्पचेत् ॥
दृढां प्रकल्पयेन्मूषां कोष्ठिके विनिवेशयेत् ।
अङ्गारैः खदिरोद्भूतैः धमेदभस्त्राद्वयेन वै ॥
वक्रनालयुजा सत्त्वं ताप्यस्य पतति ध्रुवम् ॥
शुक्लादैप्तिः सशब्दश्च यदा वैश्वानरो भवेत् ।
तदा सत्त्वं तु पतितं जानीयान्नान्यथा क्वचित् ॥

c50.32

रसकं स्वेदयेतादौ पटूचूर्णीकृतं बुधः ।
चतुर्गुणेन वस्त्रेण दृढं बद्धा च डोलिकाम् ॥
कृत्वा भाण्डे च मजले स्वेदयेन्मासपञ्चकम् ।
उद्धृत्य पश्चाद्रसकं खल्लमध्ये विच

c50.33

कोष्ठगेनाग्निना¹ पश्चाद्धमेद्भस्त्राद्वयानिलैः ।
सत्वं पत्यत्यसंदेहं स्थिररङ्गं दृढं बहु ॥
एकमासं द्विमासं वा रसकं स्वेदितं यदि ।
न धातव्यं तच्च कोष्ठे धमित्तत् नालमूषया ॥

c50.34

¹ The text reads कोष्टकेनाग्निना, which is not correct.

c50.35

इति सम्पादितो मार्गो द्रुतीनां पातने स्फुटः ।
साक्षादनुभवैर्दृष्टो न श्रुतो गुरुदर्शितः ॥
लोकानामुपकाराय एतत् सर्व्वं निवेदितम् ।
सर्व्वेषां चैव लोहानां द्रावणं परिकीर्त्तितम् ॥
इति श्रीरुद्रयामले रसकल्पे उमामहेश्वरसंवादे
सर्व्वलोहद्रुतिपातनाधिकारः समाप्तः² ॥

c50.36

² समाप्तं शुभम् is the reading of the text, which is not correct.

Linked texts (1)