Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c51.s1: अथ प्रथमोऽध्यायः ।

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c51.s1

Language
English

अथ प्रथमोऽध्यायः ।

c51.s1.1

रसोत्पत्तिः ।

c51.s1.2

यस्यानन्दभवेन मङ्गलकलावद्भावितेन स्फुर-

c51.s1.3

द्धाम्ना सिद्धरसामृतेन करुणावीक्षासुधासिन्धुना । भक्तानां प्रभवप्रसंहतिजरारोगादिरोगाः क्षणा- च्छान्तिं यान्ति जगत्प्रधानभिषजे तस्मै परस्मै नमः ॥ 1.

c51.s1.4

आगमः¹श्चन्द्रसेनश्च लङ्केशश्च विशारदः ।
कपाली मत्तमाण्डव्यौ भास्करः शूरसेनकाः ॥
रत्नकोषश्च² शम्भुश्च सात्त्विको नरवाहनः ।
इन्द्रदो गोमुखश्चैव कम्बलिर्व्याड़िरेव च ॥
नागार्जुनः सुरानन्दो नागबोधिर्यशोधनः ।
खण्डः कापालिको ब्रह्मा गोविन्दो लम्पको हरिः ॥
सप्तविंशतिसंख्याका रससिद्धिप्रदायकाः ।
रसाङ्कुशो भैरवश्च नन्दी स्वच्छन्दभैरवः ॥

c51.s1.5

¹ आगमः, a variant in the Poona ed, which also agrees with B and K

c51.s1.6

² कोषश्च, another reading in the Poona ed, which also agrees wit

c51.s1.7

मन्थानभैरवश्चैव काकचण्डीश्वरस्तथा ।
वासुदेव ऋष्यशृङ्गः¹ क्रियातन्त्रसमुच्चयो ॥
रसेन्द्रतिलको योगौ भालुकी मैथिलाह्वयः ।
महादेबो नरेन्द्रा वासुदेवो हरीश्वरः² ॥ 2-7
एतेषां क्रियतेऽन्येषां तन्त्राण्यालोक्य सङ्ग्रहः ।
रसानांमथ सिद्धानां चिकित्सार्थोपयोगिनाम् ॥
सूनुना सिंहगुप्तस्य रसरत्नसमुच्चयः ।
रसोपरसलोहानि यन्त्रादिकरणानि च ॥
शुद्धयर्थमपि लोहाना तन्त्रादिकरणानि च ।
शुद्धिः सत्त्वं द्रुतिर्भस्मकरणञ्च प्रवच्यते ॥ 8-10.
हन्ति भक्षणमात्रेण पूर्व्वजन्माघसम्भवम् ।
रोगसङ्घमशेषाणां नराणां नात्र संशयः ॥ 26.
यश्च निन्दति सूतेन्द्रं शम्भोस्तेजः परात्परम् ।
स पतेन्नरके घोरे यावत्कल्पविकल्पनाम् ॥ 29.
पतितो दरदे देशे गौरवाहङ्किवक्त्रतः ।
स रसो भूतले लीनस्तत्तद्देशनिवासिनः ।
तां मृदं पातनायन्त्रे क्षिप्त्वा सूतं हरन्ति च ॥ 89-90.
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटाचार्य्यस्य
कृतौ रसरत्नसमुच्चये रसोत्पत्तिर्नाम प्रथमोऽध्यायः ।

c51.s1.8

¹ ॠष्यशृङ्ग., a different reading in the Poona ed, which also agrees th and K.

c51.s1.9

² K reads रनाकरहरीश्वरौ, which is probably the correct reading

Linked texts (2)