History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s1: महारसाः ।
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s1
- Language
- English
महारसाः ।
c52.s1.1
अभ्रवैक्रान्तमाचीकविमलाद्रिजसस्यकम् ।
चपलो रसकश्चेति ज्ञात्वाष्टौ सङ्ग्रहेद्रसान् ॥ 1.
पिनाकं नाग मण्डूकं वज्रमित्यभ्रकं मतम् ।
श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ॥ 5
श्वेतं रक्तञ्च पीतञ्च कृष्णमेवं चतुर्विधम् ॥ 10.
सुखनिर्मोच्यपत्रञ्च तदभ्रं शस्तमीरितम् ॥ 12.
सचन्द्रिकञ्च किट्टाभं व्योम न ग्रासयेद्रसम् ।
ग्रसितञ्च नियोज्योऽसौ लोहे चैव रसायने ॥ 13.
निश्चन्द्रिकं मृतं व्योम सेव्यं सर्व्वगदेषु च ।
सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत् ॥ 14.
प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् ।
निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ।
त्रिफलाक्वथिते चापि गवां दुग्धे विशेषतः ॥ 17-18
चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्धस्ताद्धान्याभ्रमिति कथ्यते ॥ 23.
धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् ।
पुटितं दशवारेण म्रियते नात्र संशयः ॥ 24.