History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s2: अथ वैक्रान्तः—
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c52.s2
- Language
- English
अथ वैक्रान्तः—
c52.s2.1
अष्टास्रश्चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥
श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ।
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ॥ 55-56.
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः
प्रज्ञाप्रदः सकलदोषगदापहारी ।
c52.s2.2
दोषाग्निकृत् पविममानगुणस्तुरखो'
वैक्रान्तकः खलु वपुर्बललोहकारी ॥
रमायनेषु सर्व्वेषु पूर्व्वगण्यः प्रतापवान् ।
वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्व्वदोषहा ॥ 57-58.
* * वैक्रान्तं वज्राकारं महारसम् ।
बिन्ध्यस्य दक्षिणे वाऽस्ति ह्युत्तरे वाऽस्ति पर्व्वतः ।
विक्रामयति लोहानि तेन वैक्रान्तकः स्मृतः ॥ 60-61.
वैक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः
संस्वेदिताः क्षारपटूनि दत्त्वा ।
अम्लेषु मूलेषु कुलत्थरम्भा-
नीरेऽथवा कोद्रववारिपक्काः ॥
कुलत्थक्काथसंस्विन्नो वैक्रान्तः परिशुष्यति ।
म्रियतेऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः ॥ 67-68.
भस्मीभूतन्तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥
मोक्षमोरटपालाशक्षारगोमूत्रभावितम् ।
वज्रकन्दनि शाकल्काफलचूर्णेसमन्वितम् ।
तत्कल्के टङ्कणं लाक्षाचूर्णं वैक्रान्तसम्भवम् ॥ 70-71.
नवसारसमायुक्तं मेषशृङ्गोद्रवान्वितम् ।
पिण्डितं मूकमूषस्थ' ध्मापितञ्च दृढाग्निना ॥ 72
तत्रैव पतते सत्वं वैक्रान्तस्य न संशयः ॥ 73.
c52.s2.3
अथ माक्षिकम्—
c52.s2.4
सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः ।
तापी¹किरातचीनेषु यवनेषु च निर्मितः ॥ 77.
माक्षिकं द्विविध हेममाक्षिकन्तारमाक्षिकम् ।
तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥ 80
c52.s2.5
¹ तापी, a variant in the Poona ed, which also agrees with B and K
c52.s2.6
पाषाणबहुलः प्रोक्तस्ताराख्योऽल्पगुणात्मकः ॥ 81.
मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम्।
पञ्चक्रोडपुटैर्दग्धं म्रियते माक्षिकं खलु ॥ 84.
क्षौद्रगन्धर्व्वतैलाभ्यां गोमूत्रेण घृतेन च।
कदलीकन्दसारेण भावितं माक्षिकं मुहुः।
मूषायां मुञ्चति ध्मातं सत्त्वं शुल्वनिभं मृदु ॥¹ 89-90.
c52.s2.7
¹ Verses 89 90 as also 103-104 occur both in Rasárnava and Rr by Nag, ; the Poona ed. reads पतते नात्र संशयः in the place of प्रयच्छति न संशयः ।
Linked texts (2)
- Rasaratnasamuccaya — Vāgbhaṭa (alchemist), Sanskrit
- Rasārṇava — Sanskrit